परिचयः - अन्वयक्रमः #14


रामोऽपि परमोदारस्सुमुखस्सुमहायशाः ।
न चैच्छत् पितुरादेशाद्राज्यं रामो महाबलः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
रामः राम / पुं / प्र.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= one who delights)
Rāma
अपि अव्ययम् also
परमोदारः परमोदार / पुं / प्र.वि / ए.व

पदविवरणम् :-
परम / पुं
(= most, first, chief)
उदार / पुं
(= generous)

समासविवरणम् :-
[कर्मधारयसमासः]
परमः च असौ उदारः = परमोदारः
one who is most generous, magnanimous
सुमुखः सुमुख / पुं / प्र.वि / ए.व

पदविवरणम् :-
मुख / पुं
(= face)

समासविवरणम् :-
[बहुव्रीहिसमासः]
शोभनं मुखं यस्य, सः सुमुखः
one who has a charming face
सुमहायशाः सुमहायशस् / पुं / प्र.वि / ए.व

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
यशस् / पुं
(= fame)

समासविवरणम् :-
[बहुव्रीहिसमासः]
शोभनं महत् यशः यस्य, सः सुमहायशाः

यशस् / पुं ए.व द्वि.व ब.व
प्र.वि यशाः यशसौ यशसः
सं.प्र.वि यशः यशसौ यशसः
द्वि.वि यशसम् यशसौ यशसः
तृ.वि यशसा यशोभ्याम् यशोभिः
च.वि यशसे यशोभ्याम् यशोभ्यः
प.वि यशसः यशोभ्याम् यशोभ्यः
ष.वि यशसः यशसोः यशसाम्
स.वि यशसि यशसोः यशःसु / यशस्सु

यशस् / नपुं ए.व द्वि.व ब.व
प्र.वि यशः यशसी यशांसि
सं.प्र.वि यशः यशसी यशांसि
द्वि.वि यशः यशसी यशांसि
तृ.वि यशसा यशोभ्याम् यशोभिः
च.वि यशसे यशोभ्याम् यशोभ्यः
प.वि यशसः यशोभ्याम् यशोभ्यः
ष.वि यशसः यशसोः यशसाम्
स.वि यशसि यशसोः यशःसु / यशस्सु

one who was very famous
अव्ययम् not
अव्ययम् and
ऐच्छत् इष् + कर्तरि लँङ् / प्र.पु / ए.व wished

सूत्रम् 6.4.72 = आडजादीनाम्

For the लुङ्लकार, लङ्लकार and लृङ्लकार, an अजादि अङ्ग gets an आट्-आगम, which is also उदात्त.

इष् + लँङ्
[अनद्यतने लङ् ३.२.१११ इति लँङ्]
→ आट् + इच्छ् + लँङ्
[आडजादीनाम् ६.४.७२ इति आट्-आगमः]
→ आ + इच्छ् + त
[तिप्तस्.. ३.४.७८ इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः 'त']
→ आ + इच्छ् + शप् + त
[कर्तरि शप् ३.१.६८ इति शप्]
→ आ + इच्छ् + अ + त्
[इतश्च ३.४.१०० इति इकारलोपः]
→ ऐच्छत्
[आटश्च ६.१.९० इति वृद्धि-एकादेशः]
पितुः पितृ / पुं / ष.वि / ए.व father's
आदेशात् आदेश / पुं / प.वि / ए.व due to orders
राज्यम् राज्य / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
राजन् + यत् = राज्य / नपुं
the kingdom
महाबलः महाबल / पुं / प्र.वि / ए.व

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
बल / पुं
(= strength)

समासविवरणम् :-
[बहुव्रीहिसमासः]
महत् बलं यस्य, सः महाबलः
one who has immense strength

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (न ऐच्छत्)
विशेष्यम् विशेषणम्
प्र.वि रामः परमोदारः
सुमुखः
सुमहायशाः
महाबलः
स.प्र.वि
द्वि.वि
तृ.वि
च.वि राज्यम्
प.वि आदेशात्
ष.वि पितुः
स.वि
अव्ययम् अपि
अन्वयः परमोदारः सुमुखः सुमहायशाः महाबलः रामः अपि पितुः आदेशात् राज्यं न ऐच्छत् ।
तात्पर्यम् Rāma, the most generous, who has a charming face, who is very famous, who has immense strength, also did not wish for the kingdom, due to the orders of his father.
अन्वयरचना न ऐच्छत्
  • कः न ऐच्छत्? = रामः अपि न ऐच्छत्
    • कीदृशः रामः? = परमोदारः रामः
    • पुनः कीदृशः रामः? = सुमुखः रामः
    • पुनः कीदृशः रामः? = सुमहायशाः रामः
    • पुनः कीदृशः रामः? = महाबलः रामः
  • किं न ऐच्छत्? = राज्यं न ऐच्छत्
  • कस्मात् न ऐच्छत्? = आदेशात् न ऐच्छत्
    • कस्य आदेशात्? = पितुः आदेशात्

Comments