कोविदः - अन्वयक्रमः #14


एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
एकातपत्रम् एकातपत्र / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
तप् [तपँ सन्तापे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to be angry, to burn, to become hot, to envy, to glow, to shine,
to perform penance, to heat, to suffer pain, to hurt)

त्रै [त्रैङ् पालने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to protect, to secure)

पदविवरणम् :-
एक / त्रि (-कः-का-कं)
(= one)
आ + तप + क्विप् = आतप / त्रि (-पः-पा-पं)
(= heat, blaze)
आतप + त्रै + कः = आतपत्र / नपुं
(= protector from heat)

समासविवरणम् :-
[उपपदसमासः]
आतपात् त्रायते इति आतपत्रम् (छत्रम्)
(= that which protects from heat)

[बहुव्रीहिसमासः]
एकम् आतपत्रं यस्मिन्, तत् एकातपत्रम्
(= that which is under one umbrella)
that which is under one umbrella, emperorship
जगतः जगत् / नपुं / ष.वि / ए.व

जगत् / नपुं ए.व द्वि.व ब.व
प्र.वि जगत् / जगद् जगती जगन्ति
सं.प्र.वि जगत् / जगद् जगती जगन्ति
द्वि.वि जगत् / जगद् जगती जगन्ति
तृ.वि जगता जगद्भ्याम् जगद्भिः
च.वि जगते जगद्भ्याम् जगद्भ्यः
प.वि जगतः जगद्भ्याम् जगद्भ्यः
ष.वि जगतः जगतोः जगताम्
स.वि जगति जगतोः जगत्सु

of the world
प्रभुत्वम् प्रभुत्व / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
प्र + भू + क्विप् = प्रभु / त्रि (-भुः-भ्वी-भु)
(= lord, master, governor, ruler, supreme authority)
प्रभु + त्व [तद्धित] = प्रभुत्व / नपुं
(= lordship, sovereignty)
lordship, sovereignty
नवम् नव / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
नु [णु स्तुतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to praise, to worship)

पदविवरणम् :-
नु + भावे अप् = नव / त्रि (-वः-वा-वं)
(= new, young, fresh, recent, modern)
young
वयः वयस् / नपुं / प्र.वि / ए.व

वयस् / नपुं ए.व द्वि.व ब.व
प्र.वि वयः वयसी वयांसि
सं.प्र.वि वयः वयसी वयांसि
द्वि.वि वयः वयसी वयांसि
तृ.वि वयसा वयोभ्याम् वयोभिः
च.वि वयसे वयोभ्याम् वयोभ्यः
प.वि वयसः वयोभ्याम् वयोभ्यः
ष.वि वयसः वयसोः वयसाम्
स.वि वयसि वयसोः वयःसु / वयस्सु

age
कान्तम् कान्त / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
कम् [कमुँ कान्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to love, to desire, to long for)

पदविवरणम् :-
कम् + क्त = कान्त / त्रि (-तः-ता-तं)
(= pleasing, lovely, beautiful)
pleasing, lovely, beautiful
इदम् इदम् / नपुं / प्र.वि / ए.व this
वपुः वपुस् / नपुं / प्र.वि / ए.व

वपुस् / नपुं ए.व द्वि.व ब.व
प्र.वि वपुः वपुसी वपूंसि
सं.प्र.वि वपुः वपुसी वपूंसि
द्वि.वि वपुः वपुसी वपूंसि
तृ.वि वपुसा वपुर्भ्याम् वपुर्भिः
च.वि वपुसे वपुर्भ्याम् वपुर्भ्यः
प.वि वपुसः वपुर्भ्याम् वपुर्भ्यः
ष.वि वपुसः वपुसोः वपुसाम्
स.वि वपुसि वपुसोः वपुःषु / वपुष्षु

body
च / अव्ययम् and
अल्पस्य अल्प / पुं / ष.वि / ए.व

धातुविवरणम् :-
अल् [अलँ भूषणपर्याप्तिवारणेषु ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to decorate, to satisfy, to fulfill, to get rid of, to complete)

पदविवरणम् :-
अल् + प = अल्प / त्रि (-ल्पः-ल्पा-ल्पं)
(= trifle, unimportant, insignificant)
trifle, unimportant, insignificant
हेतोः हेतु / पुं / ष.वि / ए.व cause, reason, motive
बहु बहु / नपुं / प्र.वि / ए.व many
हातुम् हातुम् / अव्ययम्

धातुविवरणम् :-
हा [ओँहाक् त्यागे ; जुहोत्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to desert, to omit, to neglect)

पदविवरणम् :-
हा + तुमुँन् = हातुम् / अव्ययम्
(= to leave, to abandon)
to leave, to abandon
इच्छन् इच्छत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
इष् [इषुँ इच्छायाम् ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to wish, to desire, to want)

पदविवरणम् :-
इष् + शतृँ = इच्छत् / त्रि (-न्‌-न्ती-त्)
(= wishing, liking)
wishing, liking
विचारमूढः विचारमूढ / पुं / प्र.वि / ए.व

धातुविवरणम् :-
चर् [चरँ गतौ भक्षणे च ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go, to walk, to eat, to graze)
मुह् [मुहँ वैचित्त्ये ; दिवादिः ; परस्मैपदी ; सकर्मकः ; वेट्]
(to lose senses, to faint, to be foolish, to err)

पदविवरणम् :-
वि + चर् + घञ् = विचार / पुं
(= exercise of judgment or reason, prudence)
मुह् + क्त = मूढ / त्रि (-ढः-ढा-ढं)
(= foolish, ignorant)

समासविवरणम् :-
[सप्तमीतत्पुरुषसमासः]
विचारे मूढः = विचारमूढः
(= ignorant in the exercise of judgment or reason)
ignorant in the exercise of judgment or reason
प्रतिभासि प्रति + भा + कर्तरि लँट् / म.पु / ए.व

धातुविवरणम् :-
भा [भा दीप्तौ ; अदादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to glow, to shine, to look attractive, to look beautiful)
to seem, occurring to the mind, or flashing across the mind
मे अस्मद् / त्रि / च.वि / ए.व to me
त्वम् युष्मद् / त्रि / प्र.वि / ए.व you

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अस्ति) प्रधानक्रिया 2.0 (प्रतिभासि) गौणक्रिया 2.1 (इच्छन्) गौणक्रिया 2.1.1 (हातुम्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि प्रभुत्वम्
वयः
वपुः
एकातपत्रम्
नवम्
इदम् , कान्तम्
त्वम् विचारमूढः
इच्छन्
बहु
स.प्र.वि
द्वि.वि
तृ.वि
च.वि मे (मह्यम्)
प.वि
ष.वि जगतः हेतोः अल्पस्य
स.वि
अव्ययम् हातुम्
अन्वयः (तव) जगतः एकातपत्रं प्रभुत्वं, (तव) नवं वयः, (तव) कान्तम् इदं वपुः च (अस्ति) । अल्पस्य हेतोः बहु हातुम् इच्छन् त्वम् विचारमूढः (इति) मे प्रतिभासि ।
तात्पर्यम् TBD
Purport You have the sovereignty of the world under one umbrella. You are young at age. This body of yours is beautiful. You, who is willing to forego much for an insignificant reason, seem to me as ignorant in the exercise of judgment.
अन्वयरचना अस्ति
  • किम् अस्ति? = प्रभुत्वम् अस्ति
    • कीदृशं प्रभुत्वम्? = एकातपत्रं प्रभुत्वम्
    • कस्य प्रभुत्वम्? = जगतः प्रभुत्वम्
  • पुनः किम् अस्ति? = वयः अस्ति
    • कीदृशं वयः? = नवं वयः
  • पुनः किम् अस्ति? = वपुः च अस्ति
    • कीदृशं वपुः? = इदं वपुः
    • पुनः कीदृशं वपुः? = कान्तं वपुः
प्रतिभासि
  • कः प्रतिभासि? = त्वं प्रतिभासि
    • किं कुर्वन् त्वम्? = इच्छन् त्वम्
      • किं कर्तुम् इच्छन्? = हातुम् इच्छन्
        • किं हातुम्? = बहु हातुम्
          • कस्य बहु (हातुम्)? = हेतोः बहु (हातुम्)
            • कस्य हेतोः? = अल्पस्य हेतोः
  • कीदृशः प्रतिभासि? = विचारमूढः प्रतिभासि
  • कस्मै प्रतिभासि? = मे (मह्यं) प्रतिभासि

Comments