कोविदः - अन्वयक्रमः #13


अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।
भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
अथ अथ / अव्ययम् then
अन्धकारम् अन्धकार / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
अन्ध [अन्ध दृष्ट्युपघाते ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to be blind, to lose vision)

पदविवरणम् :-
अन्ध + अच् = अन्ध / त्रि (-धः-धा-धं)
(= blind)
कृ + घञ् = कार / पुं
(= doer)

समासविवरणम् :-
[उपपदसमासः]
अन्धः करोति इति अन्धकारः
(= one who makes blind, i.e., darkness)
darkness
गिरिगह्वराणाम् गिरिगह्वर / पुं / ष.वि / ए.व

पदविवरणम् :-
गिरि / पुं
(= mountain)
गह्वर / पुं
(= cave, cavern)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
गिरेः गह्वरं, तेषाम् = गिरिगह्वराणाम्
(= of the caverns of the mountain)
of the caverns of the mountain
दंष्ट्रामयूखैः दंष्ट्रामयूख / पुं / तृ.वि / ए.व

धातुविवरणम् :-
दंश् [दन्शँ दशने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to bite, to sting)
मा [मा माने ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to measure, to weigh, to limit, to compare in size)

पदविवरणम् :-
दंश् + ष्ट्रन् + टाप् = दंष्ट्रा / स्त्री
(= a large tooth, a tusk)
मा + ऊख [उणादि] = मयूख / पुं
(= light, lustre, brightness, a ray of light)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
दंष्ट्राणां मयूखः, तैः = दंष्ट्रामयूखैः
(= light of the large teeth)
light of the large teeth
शकलानि शकल / नपुं / द्वि.वि / ब.व

धातुविवरणम् :-
शक् [शकँ मर्षणे ; दिवादिः ; उभयपदी ; अकर्मकः ; सेट्]
(to be able, to be possible)

पदविवरणम् :-
शक् + कलक् = शकल / पुं & नपुं (-लः-लं)
(= pieces)
many pieces
कुर्वन् कुर्वत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + शतृँ = कुर्वत् / त्रि (-न्‌-न्ती-त्)
(= doing)
doing, making
भूयः भूयस् / अव्ययम् again
सः तद् / पुं / प्र.वि / ए.व he
भूतेश्वरपार्श्ववर्ती भूतेश्वरपार्श्ववर्तिन् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
भू + क्त = भूत / पुं & नपुं (-तः-तं)
(= a living being)
ईश्वर / त्रि (-रः-रा-री-रं)
(= lord, master, chief, head)
पार्श्व / त्रि (-र्श्वः-र्श्वा-र्श्वं)
(= near, proximate, by the side of)
वृत् + णिनि = वर्तिन् / त्रि (-र्त्ती-र्त्तिनी-र्त्ति)
(= being, staying, remaining)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
भूतानाम् ईश्वरः = भूतेश्वरः
(= lord of the living beings, Lord Śiva)

[सप्तमीतत्पुरुषसमासः]
पार्श्वे वर्ती = पार्श्ववर्ती
(= being by the side of, an attendant)

[षष्ठीतत्पुरुषसमासः]
भूतेश्वरस्य पार्श्ववर्ती = भूतेश्वरपार्श्ववर्ती
(= an attendant of Lord Śiva)
an attendant of Lord Śiva
किंचित् किम् + चित् = किंचित् / अव्ययम् a little
विहस्य विहस्य / अव्ययम्

धातुविवरणम् :-
हस् [हसेँ हसने ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to laugh, to smile, to joke, to ridicule)

पदविवरणम् :-
वि + हस् + ल्यप् = विहस्य / अव्ययम्
(= having smiled)
having smiled
अर्थपतिम् अर्थपति / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
अर्थ [अर्थ उपयाच्ञायाम् ; चुरादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to beg, to request)

पदविवरणम् :-
अर्थ + घञ् = अर्थ / पुं
(= wealth, property)
पति / पुं
(= a master)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
अर्थानां पतिः, तम् = अर्थपतिम्
(= to him, who is the master of wealth)
to him, who is the master of wealth
बभाषे भाष् + कर्तरि लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
भाष् [भाषँ व्यक्तायां वाचि ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to articulate, to explain, to elocute)
spoke

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (बभाषे) गौणक्रिया 1.1 (कुर्वन्) गौणक्रिया 1.2 (विहस्य)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सः (सिंहः) भूतेश्वरपार्श्ववर्ती सः (सिंहः)
स.प्र.वि
द्वि.वि अर्थपतिम् अन्धकारम्
शकलानि
तृ.वि दंष्ट्रामयूखैः
च.वि
प.वि
ष.वि गिरिगह्वराणाम्
स.वि
अव्ययम् अथ
भूयः
किंचित्
अन्वयः अथ भूतेश्वरपार्श्ववर्ती सः गिरिगह्वराणाम् अन्धकारं दंष्ट्रामयूखैः शकलानि कुर्वन् किंचित् विहस्य अर्थपतिं भूयः बभाषे ।
तात्पर्यम् TBD
Purport Then he (the lion), the attendant of Lord Śiva, breaking into pieces the darkness of the caves of the mountain with the light of (his) large teeth, having smiled a little, spoke again to king Dilīpa, the master of wealth.
अन्वयरचना बभाषे
  • कः बभाषे? = सः बभाषे
    • कीदृशः सः? = भूतेश्वरपार्श्ववर्ती सः
  • कं बभाषे? = अर्थपतिं बभाषे
  • कदा बभाषे? = अथ भूयः बभाषे
  • किं कुर्वन् बभाषे? = शकलानि कुर्वन् बभाषे
    • कं शकलानि कुर्वन्? = अन्धकारं शकलानि कुर्वन्
      • केषाम् अन्धकारम्? = गिरिगह्वराणाम् अन्धकारम्
    • कैः शकलानि कुर्वन्? = दंष्ट्रामयूखैः शकलानि कुर्वन्
  • किं कृत्वा बभाषे? = विहस्य बभाषे
    • कथं विहस्य? = किंचित् विहस्य

Comments