कोविदः - अन्वयक्रमः #12


स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व he
त्वम् युष्मद् / त्रि / प्र.वि / ए.व you
मदीयेन मदीय / त्रि / तृ.वि / ए.व

पदविवरणम् :-
अस्मद् + छ [तद्धित]
= मत् + छ [तद्धित]
= मत् + ईय
= मदीय
(= मह्यं हितम् । तस्मै हितम् इति सूत्रम् ।)
(= mine, my own)
my
शरीरवृत्तिम् शरीरवृत्ति / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
शरीर / नपुं
(= body)
वृत् + क्तिन् = वृत्ति / स्त्री
(= state, condition)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
शरीरस्य वृत्तिः = शरीरवृत्तिः
(= state / condition of the body)
state / condition of the body
देहेन देह / पुं / तृ.वि / ए.व with the body
निर्वर्तयितुम् निर्वर्तयितुम् / अव्ययम्

धातुविवरणम् :-
वृत् [वृतुँ वर्तने ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be, to happen, to be present)

पदविवरणम् :-
निर् + वृत् + णिच् + तुमुँन् = निर्वर्तयितुम् / अव्ययम्
(= to accomplish)
to accomplish
प्रसीद प्र + सद् + कर्तरि लोँट् / म.पु / ए.व

धातुविवरणम् :-
सद् [षदॢँ विशरणगत्यवसादनेषु ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to lose power, to be tired, to dry up, to destroy,
to wither, to despond, to lose interest)
let you be pleased
दिनावसानोत्सुकबालवत्सा दिन-अवसान-उत्सुक-बाल-वत्सा / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
सो [षो अन्तकर्मणि ; दिवादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to kill, to destroy, to terminate, to finish, to end)
सु [षु प्रसवैश्वर्ययोः ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to give birth, to procreate, to become pregnant, to possess power,
to possess supremacy)


पदविवरणम् :-
दिन / नपुं
(= day)
अव + सो + ल्युट् = अवसान / नपुं
(= conclusion, termination, cessation)
उत् + सु + क्विप् = उत्सुक / त्रि (-कः-का-कं)
(= anxiously desirous, eagerly expecting, fond of, attached to)
बाल / पुं
(= young)
वत्स / पुं & स्त्री (-सः-सा)
(= child)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
दिनस्य अवसानम् = दिनावसान
(= end of the day)

[विशेषण-पूर्वपद-कर्मधारयसमासः]
बालः च असौ वत्सः च = बालवत्सः
(= young calf)

[विशेषण-पूर्वपद-कर्मधारयसमासः]
उत्सुकः च असौ बालवत्सः च = उत्सुकबालवत्सः
(= young calf who is eagerly expecting)

[बहुव्रीहिसमासः]
दिनावसाने उत्सुकबालवत्सः यस्याः सा = दिनावसानोत्सुकबालवत्सा
(= she, whose young calf is eagerly expecting (her mother's arrival)
at the end of the day)
she, whose young calf is eagerly expecting (her mother's arrival) at the end of the day
विसृज्यताम् वि + सृज् + कर्मणि लोँट् / प्र.पु / ए.व

धातुविवरणम् :-
सृज् [सृजँ विसर्गे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to discharge, to let loose, to let off)
be left, abandoned, dismissed
धेनुः धेनु / स्त्री / प्र.वि / ए.व the milk-yielding cow
इयम् इदम् / स्त्री / प्र.वि / ए.व this
महर्षेः महर्षि / पुं / ष.वि / ए.व of the Maharṣi

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (प्रसीद) गौणक्रिया 1.1 (निर्वर्तयितुम्) प्रधानक्रिया 2.0 (विसृज्यताम्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि त्वम् सः (त्वम्) धेनुः इयम्
दिनावसानोत्सुकबालवत्सा
स.प्र.वि
द्वि.वि शरीरवृत्तिम्
तृ.वि (देहेन) (मदीयेन) देहेन मदीयेन
च.वि
प.वि
ष.वि (तव) महर्षेः
स.वि
अव्ययम् (निर्वर्तयितुम्)
अन्वयः सः त्वं (तव) शरीरवृत्तिं निर्वर्तयितुं मदीयेन देहेन प्रसीद । महर्षेः इयं दिनावसानोत्सुकबालवत्सा धेनुः विसृज्यताम् ।
तात्पर्यम् TBD
Purport To accomplish the sustenance of your body (to satisfy your hunger), let you be pleased with (feed on) my body. Let this milk-yielding cow of the Maharṣi, whose young calf is eagerly expecting (her mother's arrival) at the end of the day, be spared.
अन्वयरचना प्रसीद
  • कः प्रसीद? = त्वं प्रसीद
    • कीदृशः त्वम्? = सः त्वम्
  • किमर्थं प्रसीद? = निर्वर्तयितुं प्रसीद
    • कं निर्वर्तयितुम्? = शरीरवृत्तिं निर्वर्तयितुं
    • केन निर्वर्तयितुम्? = देहेन निर्वर्तयितुम्
      • कीदृशेन देहेन = मदीयेन देहेन
विसृज्यताम्
  • का विसृज्यताम्? = इयं विसृज्यताम्
    • कीदृशी इयम्? = दिनावसानोत्सुकबालवत्सा इयम्
    • पुनः कीदृशी इयम्? = धेनुः इयम्
      • कस्य धेनुः? = महर्षेः धेनुः

Comments

Post a Comment