परिचयः - सुभाषितम् #09


पद्माकरं दिनकरो विकचीकरोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते निहिताभियोगाः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
पद्माकरम् पद्माकर / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
कॄ [कॄ विक्षेपे ; तुदादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to discard, to throw away)

पदविवरणम् :-
पद्म / नपुं (-द्मं)
(= Lotus)
आङ् + कॄ + अप् = आकर / पुं (-रः)
(= plenty, abundance, one who scatters i.e., distributes abundantly)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
पद्मानाम् आकरः इति पद्माकरः, तम् पद्माकरम् ।
(= abundance of lotuses)

सन्धिविवरणम् :-
पद्म + आकर
= पद्म् + (अ + आ ⇒ आ) + कर [सवर्णदीर्घसन्धिः ६.१.१०१]
= पद्माकर

पद्माकरम् + दिनकरः
= पद्माकर + (म् ⇒ ं) + दिनकरः [अनुस्वारसन्धिः ८.३.२३]
= पद्माकरं दिनकरः
collection of lotus (sometimes colloquially called a water lily)

पद्म / पङ्कज bloom under the influence of sunlight, but कैरव / कुमुद bloom under the influence of moonlight.
दिनकरः दिनकर / पुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
दिन / पुं-नपुं (-नः-नं)
(= day)
कृ + अप् = कर / त्रि (-रः-रा-री-रं)
(= who does, makes or causes)

समासविवरणम् :-
[बहुव्रीहिसमासः]
दिनः करः यस्य, सः दिनकरः ।
(= one who makes the day)

सन्धिविवरणम् :-
दिनकरः + विकचीकरोति
= दिनकर् + अ + (: ⇒ उ) + विकचीकरोति [विसर्ग-उकारादेशसन्धिः]
= दिनकर् + (अ + उ ⇒ ओ) + विकचीकरोति [गुणसन्धिः ६.१.८७]
= दिनकरो विकचीकरोति
one who makes (करः) the day (दिन), i.e., Sun
विकचीकरोति विकची + कृ + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
वि + कच् + अच् = विकच / त्रि (-चः-चा-चं)
(= blown, opened, expanded)
विकच + च्वि = विकची / स्त्री
(= to blow, to open, to expand)

समासविवरणम् :-
[गतिसमासः]
अविकचं विकचं कृत्वा इति विकचीकृत्य ।
(कृदन्तेन सह एव गतिसमासः भवति । तिङन्तेन सह गतिसमासः न भवति ।)
(अतः विकचीकरोति इति गतिसमासः न, परन्तु प्रयोक्तुं शक्यते ।)
(= open, that which is not opened)
cause to open, cause to expand
चन्द्रः चन्द्र / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
चन्द्रः + विकासयति
= चन्द्र् + अ + (: ⇒ उ) + विकासयति [विसर्ग-उकारादेशसन्धिः]
= चन्द्र् + (अ + उ ⇒ ओ) + विकासयति [गुणसन्धिः ६.१.८७]
= चन्द्रो विकासयति
the moon
विकासयति वि + कस् + णिच् + णिजन्ते लँट् / प्र.पु / ए.व

धातुविवरणम् :-
कस् [कसँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to go)
cause to bloom
कैरवचक्रवालम् कैरवचक्रवाल / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
कैरव / नपुं
(= WHITE lotus)
चक्रवाल / पुं & नपुं
(= collection / multitude)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
कैरवाणां चक्रवालः = करवचक्रवालः
(= collection of WHITE lotus / water lily)
collection of WHITE lotus / water lily.

कैरव / कुमुद bloom under the influence of moonlight, but पद्म / पङ्कज bloom under the influence of sunlight.
न अभ्यर्थितः न अभ्यर्थित / पुं / प्र.वि / ए.व

धातुविवरणम् :-
अर्थ [अर्थ उपयाच्ञायाम् ; चुरादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to beg, to request)

पदविवरणम् :-
अभि + अर्थ + क्त = अभ्यर्थित / त्रि (-तः-ता-तं)
(= unsolicited, though not asked)

सन्धिविवरणम् :-
न + अभ्यर्थितः
= न् + (अ + अ ⇒ आ) + भ्यर्थितः [सवर्णदीर्घसन्धिः ६.१.१०१]
= नाभ्यर्थितः

अभ्यर्थितः + जलधरः
= अभ्यर्थित् + अ + (: ⇒ उ) + जलधरः [विसर्ग-उकारादेशसन्धिः]
= अभ्यर्थित् + (अ + उ ⇒ ओ) + जलधरः [गुणसन्धिः ६.१.८७]
= अभ्यर्थितो जलधरः
though not asked, uninvited, unsolicited
जलधरः जलधर / पुं / प्र.वि / ए.व

धातुविवरणम् :-
धृ [धृञ् धारणे ; भ्वादिः ; उभयपदी ; द्विकर्मकः ; अनिट्]
(to wear, to support, to possess, to hold)

पदविवरणम् :-
जल / नपुं (-लं)
(= water)
धृ + अच् = धर / पुं (-रः)
(= who or what has or holds)

समासविवरणम् :-
[बहुव्रीहिसमासः]
जलं धरं यस्य सः जलधरः ।
(= one who holds water)

सन्धिविवरणम् :-
जलधरः + अपि
= जलधर् + अ + (: ⇒ उ) + अपि [विसर्ग-उकारादेशसन्धिः]
= जलधर् + (अ + उ ⇒ ओ) + अपि [गुणसन्धिः ६.१.८७]
= जलधर् + ओ + (अ ⇒ ऽ) + पि [पूर्वरूपसन्धिः ६.१.१०९]
= जलधरोऽपि
holding or having water, cloud
अपि अव्ययम् also
जलम् जल / नपुं / द्वि.वि / ए.व

सन्धिविवरणम् :-
जलम् + ददाति
= जल + (म् ⇒ ं) + ददाति [अनुस्वारसन्धिः ८.३.२३]
= जलं ददाति
water
ददाति दा + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
दा [डुदाञ् दाने ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to give, to provide, to donate, to handover)
gives
सन्तः सत् / पुं / प्र.वि / ब.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
अस् + शतृँ = सत् / त्रि (-न्-ती-त्)

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

the good people
स्वयम् अव्ययम्

सन्धिविवरणम् :-
स्वयम् + परहिते
= स्वय + (म् ⇒ ं) + परहिते [अनुस्वारसन्धिः ८.३.२३]
स्वयं परहिते
on one's own accord
परहिते परहित / पुं / स.वि / ए.व

धातुविवरणम् :-
हि [हि गतौ वृद्धौ च ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to grow)

पदविवरणम् :-
पर / त्रि (-रः-रा-रं)
(= other)
हि + क्त = हित / त्रि (-तः-ता-तं)
(= welfare, benefit)

समासविवरणम् :-
[चतुर्थी-तत्पुरुष-समासः]
परेभ्यः हितम् इति परहितम् , तस्मिन् इति परहिते ।
(= in the welfare of others)
in the welfare of others
निहिताभियोगाः निहिताभियोग / पुं / प्र.वि / ब.व

धातुविवरणम् :-
धा [डुधाञ् धारणपोषणयोः ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to wear, to obey, to bear, to support, to nourish, to protect)
युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to bind, to restrain, to join, to unite, to apply, to combine)

पदविवरणम् :-
नि + धा + क्त = निहित / पुं
(= situated, placed, fixed)
अभि + युज् + घञ् = अभियोग / पुं
(= perseverance, energetic effort / application)

समासविवरणम् :-
[तृतीयार्थ-समानाधिकरण-बहुव्रीहि-समासः]
निहितः अभियोगः यैः, ते निहिताभियोगाः ।
(= they, who are perseveringly fixed)
they, who are perseveringly fixed

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
दिनकरः (न अभ्यर्थितः) पद्माकरं विकचीकरोति । The sun, (even though not asked,) opens a collection of पद्म / पङ्कज lotuses.
चन्द्रः (न अभ्यर्थितः) कैरवचक्रवालं विकासयति । The moon, (even though not asked,) opens a collection of कैरव / कुमुद lotuses.
जलधरः अपि न अभ्यर्थितः जलं ददाति । The clouds as well, even though not asked, gives water.
सन्तः स्वयम् (न अभ्यर्थितः) परहिते निहिताभियोगाः । The good, on their own accord, (even though not asked,) are perseveringly fixed in the welfare of others.

Comments