परिचयः - सुभाषितम् #08


गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
गुणेषु गुण / पुं / स.वि / ब.व qualities
क्रियताम् कृ + कर्मणि लोट् / प्र.पु / ए.व let it be done
यत्नः यत् + भावे नङ् / पुं / प्र.वि / ए.व

पदविवरणम् :-
यत् + भावे नङ् = यत्न / पुं
effort
किम् किम् / नपुं / प्र.वि / ए.व what
आटोपैः आटोप / पुं / तृ.वि / ब.व

पदविवरणम् :-
आङ् + टुप + घञ् = आटोप / पुं
by proudly showing off
प्रयोजनम् प्रयोजन / नपुं / प्र.वि / ए.व

पदविवरणम् :-
प्र + युज् + ल्युट् / नपुं
use
न विक्रीयन्ते वि + क्री + कर्मणि लँट् / प्र.पु / ब.व do not sell
घण्टाभिः घण्टा / स्त्री / तृ.वि / ब.व by the bell
गावः गो / पुंस्त्री / प्र.वि / ब.व the cows
क्षीरविवर्जिताः क्षीरविवर्जिता / स्त्री / प्र.वि / ब.व

पदविवरणम् :-
क्षीर / नपुं
वि + वृज् + क्त = वर्जित / पुं & नपुं
वर्जित + टाप् = वर्जिता / स्त्री

समासविवरणम् :-
[बहुव्रीहिसमासः]
यस्याः क्षीरं विवर्जिता सा क्षीरविवर्जिता / स्त्री
one who is devoid of milk

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
गुणेषु यत्नः क्रियताम् ।
आटोपैः किं प्रयोजनम् (भवति) ?
Let the effort by made through the qualities.
What is the use in show off?
क्षीरविवर्जिताः गावः घण्टाभिः न विक्रीयन्ते । Cow that does not give milk, does not sell by its bell (it wears around its neck).

Comments