परिचयः - सुभाषितम् #07


स्वभावं न जहात्येव साधुरापद्गतोऽपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
स्वभावम् स्वभाव / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
स्व / पुं
(= one's own)
भू + घञ् = भाव / पुं
(= natural state of being, innate property, disposition, nature)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
स्वस्य भावः = स्वभावः
(= one's own natural state of being)
one's own character
न जहाति न हा + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
हा [ओँहाक् त्यागे ; जुहोत्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to abandon, to leave, to desert, to omit, to neglect)

सन्धिविवरणम् :-
जहाति + एव
= जहात् + (इ ⇒ य् + ए) + व [यण्सन्धिः ६.१.७७]
= जहात्येव
does not leave
एव अव्ययम् even then
साधुः साधु / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
साधुः + आपद्गतः
= साधु + (: ⇒ र्) + आपद्गतः [विसर्ग-रेफादेशसन्धिः]
= साधुरापद्गतः

साधुरापद्गतः + अपि
= साधुरापद्गत् + (अ + : ⇒ उ + अ) + पि [विसर्ग-उकारादेशसन्धिः]
= साधुरापद्गत् + (अ + उ ⇒ ओ) + अपि [गुणसन्धिः ६.१.८७]
= साधुरापद्गत् + ओ + (अ ⇒ ऽ) + पि [पूर्वरूपसन्धिः ६.१.१०९]
= साधुरापद्गतोऽपि
a pious man
आपद्गतः आपद्गत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
पद् [पदँ गतौ ; दिवादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to go, to attain)
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
आङ् + पद् + क्विप् = आपद् / स्त्री
(= adversity, misfortune, calamity)
गम् + क्त = गत / पुं & नपुं
(= befallen)

सन्धिविवरणम् :-
[द्वितीयातत्पुरुषसमासः]
आपदं गतः = आपद्गतः
(= adversity that has befallen)

आपद् / स्त्री ए.व द्वि.व ब.व
प्र.वि आपत् / आपद् आपदौ आपदः
सं.प्र.वि आपत् / आपद् आपदौ आपदः
द्वि.वि आपदम् आपदौ आपदः
तृ.वि आपदा आपद्भ्याम् आपद्भिः
च.वि आपदे आपद्भ्याम् आपद्भ्यः
प.वि आपदः आपद्भ्याम् आपद्भ्यः
ष.वि आपदः आपदोः आपदाम्
स.वि आपदि आपदोः आपत्सु

adversity that has befallen
अपि अव्ययम् also
सन् सत् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
अस् + शतृँ = सत् / पुं
(= being)

सत् / पुं ए.व द्वि.व ब.व
प्र.वि सन् सन्तौ सन्तः
सं.प्र.वि सन् सन्तौ सन्तः
द्वि.वि सन्तम् सन्तौ सतः
तृ.वि सता सद्भ्याम् सद्भिः
च.वि सते सद्भ्याम् सद्भ्यः
प.वि सतः सद्भ्याम् सद्भ्यः
ष.वि सतः सतोः सताम्
स.वि सति सतोः सत्सु

being / happening
कर्पूरः कर्पूर / पुं / प्र.वि / ए.व camphor
पावकस्पृष्टः पावकस्पृष्ट / पुं / प्र.वि / ए.व

धातुविवरणम् :-
पू [पूङ् पवने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to purify, to cleanse)
स्पृश् [स्पृशँ संस्पर्शने ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to touch)

पदविवरणम् :-
पू + ण्वुल् = पावक / पुं
(= one who renders pure [in this context - fire])
स्पृश् + क्त = स्पृष्ट / पुं
(= touched)

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
पावकेन स्पृष्टः = पावकस्पृष्टः
(= touched by fire)
(that is) touched by fire
सौरभम् सौरभ / द्वि.वि / ए.व

पदविवरणम् :-
सुरभि + अण् = सौरभ / नपुं
(= fragrance)
fragrance
लभतेतराम् लभतेतराम् / अव्ययम्

धातुविवरणम् :-
लभ् [डुलभँष् प्राप्तौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to get, to obtain, to take, to have, to find)

पदविवरणम् :-
लभ् + कर्तरि लँट् + अतिशयेन / प्रकर्षेण तरप् + आमु / अव्ययम्
(= obtain even more than before)
obtain even more than before

Additional notes:
Comparitive degree -- When out of TWO things one has to be separated as possessing some quality in excess over the other, तरप् प्रत्ययः or ईयस् प्रत्ययः are used.
Superlative degree -- When out of MANY things one has to be separated as possessing some quality in excess over the others, तमप् प्रत्ययः or इष्ठ प्रत्ययः are used.

अतिशयेन = excess of one over the other

Though तरप् and तमप् are तद्धितप्रतययs they can also be added to verbs. When added to verbs, आमु (आम्) will be added after तरप् and तमप् प्रतययs, resulting in अव्ययम् । तरप् + आम् always gives an अव्ययम्, irrespective of whom it attaches to. The sutra is तद्धितश्चासर्वविभक्तिः (1.1.38).

Though in theory, and as per the rules, तरप् and तमप् can be added to all तिङन्ताः, in practice, you must see the forms already used in the language and restrict your usage to that. Therefore, one should only stick to शिष्ट प्रयोग (forms of words used by the learned people), which are "acceptable norms of usages". The point is to avoid using forms that you have not seen used by experts.

तराम् is seen attached to only a handful of verb forms (पचतितराम्, लभतेतराम्, मोदतेतराम्, etc ...), and their usages do not go beyond लँट् / प्र.पु / ए.व ।

Refer किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) for details.

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
(यथा) पावकस्पृष्टः कर्पूरः
सौरभम् लभतेतराम्
(तथा) आपद्गतः सन् अपि
साधुः स्वभावम् न जहाति एव ।
(Just as) Camphor (that already gives fragrance) that is touched by fire gives more fragrance than before, (similarly) being in the adversity that has befallen, the pious do not give up their good character (their character gets even better).

Comments

  1. पू (to purify) - पूङ् पवने – भ्वादिः + ण्वुल् = पावकः - here, fire

    ReplyDelete
    Replies
    1. I have updated the post accordingly.

      बहवः धन्यवादाः ।

      Delete

Post a Comment