व्याकरणशास्त्रज्ञाः ।



(०२) द्वितीयः पाठः - व्याकरणशास्त्रज्ञाः


Go Top
पाणिनिः
अष्टाध्यायी इति सुविख्यातस्य व्याकरणग्रन्थस्य रचयिता पाणिनिः ।

The author of the very famous grammar book "Aṣṭādhyāyī" is Pāṇini.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
सुविख्यातस्य सुविख्यात / पुं / ष.वि / ए.व

पदविवरणम् :-
सु + वि + ख्या + क्त = सुविख्यात / त्रि (-तः-ता-तं)
(= well-known, very famous)
well-known, very famous
रचयिता रचयितृ / पुं / प्र.वि / ए.व

धातुविवरणम् :-
रच [रच प्रतियत्ने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to create, to craft, to compose)

पदविवरणम् :-
रच + तृच् = रचयितृ / पुं
(= author)
author

अपूर्ववैज्ञानिकरीत्या रचितः ग्रन्थः एषः न केवलं व्याकरणशास्त्रे, अपि तु समग्रे शास्त्रप्रपञ्चे एव अद्वितीयः अस्ति ।

This book, that is written in an unprecedented skillful manner, is second to none in not only the science of grammar, but also in the entire world of science.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
अपूर्ववैज्ञानिकरीत्या अपूर्ववैज्ञानिकरीति / स्त्री / तृ.वि / ए.व

पदविवरणम् :-
अपूर्व / त्रि (-वः-वा-वं)
(= unprecedented)
विज्ञान + ठक् = वैज्ञानिक / त्रि (-कः-की-कं)
(= skillful, clever, proficient)
री + क्तिच् = रीति / स्त्री
(= usage, method)

समासविवरणम् :-
[नञ्तत्पुरुषसमासः]
न पूर्वः = अपूर्वः
(= unprecedented)

[विशेषण-पूर्वपद-कर्मधारयसमासः]
अपूर्वं च तत् वैज्ञानिकं च = अपूर्ववैज्ञानिकम्
(= unprecedented skill, proficiency)

[षष्ठीतत्पुरुषसमासः]
अपूर्ववैज्ञानिकस्य रीतिः = अपूर्ववैज्ञानिकरीतिः
(= unprecedented skillful, clever, proficient method)
unprecedented skillful, clever, proficient method

शालातुरग्रामवासी पाणिनिः "शालातुरीयः" इत्यपि उच्यते ।

Pāṇini, a resident of Śālātura village, was also called Śālāturīya (which means "man from Śālātura").
एषः ग्रामः इदानीं पाकिस्थाने पेशावर्‌जनपदे अस्ति ।

This village is now in Peshawar district of Pakistan.
लाहूर इति तस्य अद्यतनं नाम ।
Lahor (Chota Lahor) is its name today.
शालातुरग्रामे पाणिनेः एका प्रतिमा आसीत्‌ इति चीनायात्रिकः ह्युयेनत्साङ्गः लिखति ।

The Chinese traveller Hiuen Tsang writes that, in Śālātura village, there existed a statue for Pāṇini.
त्रयोदश्यां तिथौ पाणिनिः स्वर्गस्थः जातः इति भाव्यते ।

It is believed that Pāṇini reached heaven on the 13th day.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
स्वर्गस्थः स्वर्गस्थ / पुं / प्र.वि / ए.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
स्वर्ग / पुं
(= heaven)
स्था + क = स्थ / पुं & नपुं
(= stayed)

समासविवरणम् :-
[बहुव्रीहिसमासः]
स्वर्गे स्थः यस्य सः इति स्वर्गस्थः । (-स्थः-स्था-स्थं)
(= one who stayed in heaven)
one who stayed in heaven
भाव्यते भू + णिच् + कर्मणि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)
believe

अतः सा तिथिः वैयाकरणैः अनध्ययनत्वेन परिगण्यते ।
Therefore, that day (the 13th day of the fortnight) is considered not suitable for the study (of grammar), by grammarians.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
अनध्ययनत्वेन अनध्ययनत्व / नपुं / तृ.वि / ए.व

धातुविवरणम् :-
[इङ् अध्ययने ; अदादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to study, to learn)

पदविवरणम् :-
इ + ल्युट् = अध्ययन / नपुं
(= the act of studying)
अध्ययन + त्व [तद्धित] = अध्ययनत्व / नपुं
(= suitable for study)

समासविवरणम् :-
[नञ्-तत्-पुरुष-समासः]
न अध्ययनत्व, तेन इति अनध्ययनत्वेन
(= by not being suitable for study)
by not being suitable for study
परिगण्यते परि + गण + कर्मणि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
गण [गण सङ्ख्याने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to count, to enumerate)
considered, stated

एतस्य मातुः नाम दाक्षी ।
His mother's name is Dākṣī.
पितुः नाम शलङ्कुः ।
Father's name is Śalaṅku.
एतस्य कालस्य विषये बहुधा भिन्नाभिप्रायः अस्ति ।

There are various opinions on his lifetime.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
बहुधा बहुधा / अव्ययम्

पदविवरणम् :-
बहु + धाच् = बहुधा / अव्ययम्
(= many, much, various, repeated)
many, much, various, repeated

तथापि क्रि.पू. ६ शतके सः आसीत्‌ इति भाव्यते ।

Even then, it is believed that he lived in the 6th century BC.
पाणिनेः पूर्वम्‌ अपि बहवः व्याकरणग्रन्थाः आसन्‌ ।

Even before Pāṇini, many grammar books existed.
अष्टाध्यायी यदा आगता तदा अन्ये ग्रन्थाः लुप्तप्रायाः जाताः ।

When "Aṣṭādhyāyī" came, other books seem to have disappeared.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
अन्ये अन्य / पुं / प्र.वि / ब.व others
लुप्तप्रायाः लुप्तप्राया / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
लुप् [लुपॢँ छेदने ; तुदादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to cut, to break, to slice)
अय् [अयँ गतौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to go)

पदविवरणम् :-
लुप् + क्त = लुप्त / त्रि (-तः-ता-तं)
(= gone, lost, disappeared)
प्र + अय् + अच् = प्राय / त्रि (-यः-या-यं)
(= resemble, like)

समासविवरणम् :-
[बहुव्रीहि-समासः]
लुप्तः प्रायः यस्य सः इति लुप्तप्रायः । (-यः-या-यं)
(= seem to have disappeared)
seem to have disappeared

इदानीं ते ग्रन्थाः न उपलभ्यन्ते ।
Now, those books are not available.
समग्रः शब्दराशिः सुपरिष्कृततया संक्षेपेण च निरूपितः अस्ति अष्टाध्याय्याम्‌ ।

In Aṣṭādhyāyī, the entire pile of words is ascertained and summarily well-arranged.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
सुपरिष्कृततया सुपरिष्कृतता / स्त्री / तृ.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
सु + परि + कृ + क्त = सुपरिष्कृत / त्रि (-तः-ता-तं)
(= well-arranged)
सुपरिष्कृत + तल् [तद्धित] = सुपरिष्कृतता / स्त्री
(= well-arranged)
well-arranged

पाणिनिः सूत्रक्रमेण व्याकरणविषयान्‌ निरूपितवान्‌ अस्ति ।

Pāṇini has ascertained the rules of grammar methodically by aphorisms.
वैदिकव्याकरणम्‌ अपि अस्ति अष्टाध्याय्याम् ।

Vedic grammar is also available in Aṣṭādhyāyī.

Go Top
कात्यायनः
कात्यायनः वार्तिककारः ।

Kātyāyana was a commentator.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
वार्तिककारः वार्तिककार / पुं / प्र.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
वृत् + क्तिन् = वृत्ति / स्त्री
(= comment, explanation, exposition)
वृत्ति + ठक् = वार्तिक / त्रि (-कः-की-कं)
(= bringing or conveying intelligence, commentatory, explanatory)
कृ + घञ् = कार / त्रि (-कः-की-कं)
(= who or what does any act)

समासविवरणम् :-
[उपपद-समासः]
वार्तिकं करोति इति वार्तिककारः
(= a commentator)
a commentator who provides supplementary explanation to a grammatical or philosophical aphorism, conveys the intelligence contained therein and its immediate elucidation, supplying or illustrating both text and comment

वररुचिः इति एतस्य अपरं नाम ।
Vararuci was his other name.
एषः कौशाम्बीनिवासी ।

He was a resident of the place Kauśāmbī.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
कौशाम्बीनिवासी कौशाम्बीनिवासीन् / पुं / प्र.वि / ए.व

धातुविवरणम् :-
वस् [वसँ निवासे ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to dwell, to live, to stay)

पदविवरणम् :-
कौशाम्बी / स्त्री
(= Kauśāmbī)
नि + वस् + णिनि = निवासीन् (-सी-सिनी-सि) / त्रि
(= residing in, dwelling in, abiding in, inhabiting in)

समासविवरणम् :-
[सप्तमीतत्पुरुषसमासः]
कौशाम्ब्यां निवासी = कौशाम्बीनिवासी
(= a resident of Kauśāmbī)
a resident of Kauśāmbī

सोमदत्तः एतस्य पिता ।
Somadatta was his father.
एषः दाक्षिणात्यः आसीत्‌ ।
He was born in the south.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
दाक्षिणात्यः दाक्षिणात्य / पुं / प्र.वि / ए.व

पदविवरणम् :-
दक्षिण + त्यक् = दाक्षिणात्य / पुं
दक्षिणापश्चात्पुरसस्त्यक् (४.२.९८)
(= in / will be in the south)
in / will be in the south

भाष्यकारः पतञ्जलिः एतं "भगवान्‌" इति, "आचार्यः" इति च आदरेण निर्दिशति ।

The writer of commentaries, Patañjali, respectfully proclaims him as "Bhagavān" and "Ācārya".
एतस्य कालः क्रि.पू. ४ शतकं स्यात्‌ इति पण्डिताः भावयन्ति ।

Scholars believe that his time could be around 4th century BC.
वार्तिकानि नाम सूत्राणां व्याख्यानरूपाणि ।

Explanation forms of aphorisms are named "commentaries".
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
व्याख्यानरूपाणि व्याख्यानरूप / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
ख्या [ख्या प्रकथने ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to explain, to make famous, to elocute)

पदविवरणम् :-
वि + आङ् + ख्या + ल्युट् = व्याख्यान / नपुं (-नं)
(= explanation, interpretation, exposition, narration, speech)
रूप् + क = रूप / त्रि (-पः-पा-पं)
(= form, figure)

समासविवरणम् :-
[षष्ठी-तत्-पुरुष-समासः]
व्याख्यानां रूपाणि इति व्याख्यानरूपाणि । (-पः-पा-पं)
(= forms of explanations)
forms of explanations

सूत्रेषु युक्तानां पदानां प्रयोजनचिन्तनम्‌, अनुक्तानां पदानां योजनं, दुरुक्तानां पदानां समीकरणं च करोति वार्तिकम्‌ ।

Commentary provides (a) thoughts on usages of the words enjoined in the aphorisms, (b) addition of words not mentioned (in the aphorisms) and (c) levels out improperly stated words.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
समीकरणम् समीकरण / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
ख्या [ख्या प्रकथने ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to explain, to make famous, to elocute)

पदविवरणम् :-
सम् + च्वि = समी / स्त्री (-मी)
(= equalize, level)
कृ + ल्युट् = करण / नपुं (-णं)
(= the act of doing)

समासविवरणम् :-
[गति-समासः]
असमं समं करणम् इति समीकरणम् । (-णं)
(= equal / level out that which is not equal / level)
equal / level out that which is not equal / level

वार्तिकानि पृथग्ग्रन्थरूपेण न उपलभ्यन्ते ।

Commentaries are not available as a separate book.
महाभाष्ये (पतञ्जलिकृते) तानि सम्मिलितानि सन्ति ।

They are available together in the Mahābhāṣyam (authored by Patañjali).
कात्यायनस्य वार्तिकशैली सूत्रशैलीम्‌ एव अनुकरोति ।

Kātyāyana's style of commentaries imitates the style of aphorisms.
कात्यायनेन व्याकरणस्य समृद्धिः विशेषतः वर्धिता अस्ति ।
The perfection/excellence of grammar has been particularly strengthened by Kātyāyana.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
समृद्धिः समृद्धि / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
ऋध् [ऋधुँ वृद्धौ ; दिवादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to increase, to grow, to prosper)

पदविवरणम् :-
सम् + ऋध् + क्तिन् = समृद्धि / स्त्री
(= increased, grown, expanded, augmented, strengthened, promoted, gladdened)
strengthened, promoted
वर्धिता वर्धिता / स्त्री / प्र.वि / ए.व

धातुविवरणम् :-
वृध् [वृधुँ वृद्धौ ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to increase, to grow, to prosper)

पदविवरणम् :-
वृध् + क्त = वर्धित / त्रि (-तः-ता-तं)
(= grown, increased, enlarged, magnified)
grown, increased, enlarged, magnified

Go Top
पतञ्जलिः
महाभाष्यकारः इति प्रसिद्धः अस्ति पतञ्जलिः ।

Patañjali is famous as "Mahābhāṣyakāra".
पाणिनिना कृतायाः अष्टाध्याय्याः विस्तृतं भाष्यम्‌ एतेन रचितम्‌ अस्ति इत्यतः एतस्य एतादृशं नाम ।

Elaborate commentary has been written by him on Pāṇini's Aṣṭādhyāyī, hence this name for him.
पतञ्जलिः क्रि.पू. २ शतके आसीत्‌ इति पण्डिताः ऊहां कृतवन्तः सन्ति ।

Scholars are guessing that Patañjali lived around 2nd century BC.
एषः काश्मीरवासी आसीत्‌ इति इतिहासकाराणाम्‌ अभिप्रायः ।

Historian's opine that he was a resident of Kāśmīr.
"पतञ्जलिः प्राच्यदेशीयः आसीत्‌" इत्यपि केचन वदन्ति ।

Some people also say that "Patañjali was from an eastern country".
पाणिनिना रचितानां सूत्राणाम्‌ अर्थनिर्णयः कृतः अस्ति पतञ्जलिना ।

Meanings of aphorisms written by Pāṇini have been ascertained by Patañjali.
उदाहरणप्रत्युदाहरणैः शङ्कासमाधानादिभिः च पतञ्जलिः सरलया शैल्या विषयं निरूपयति ।

Patañjali, in simple style, has ascertained responses / clarifications to doubts, etc ... through examples and counter-examples.
लौकिकैः उदाहरणैः, लघुकथाभिः, विनोदवचनैः च सः विषये रोचकताम्‌ उत्पादयति ।

He, by practical real-life examples, short stories and humorous sentences, creates interest in the subject.
छात्रान्‌ बोधयतः गुरोः सम्भाषणशैली आदृता अस्ति पतञ्जलिना ।

The conversational style of teacher teaching the students, is observed by Patañjali.
शास्त्रक्षेत्रे महाभाष्यसदृशी अन्या कृतिः सुदुर्लभा एव ।

In the field of science, another creation similar to Mahābhāṣyaṃ is certainly very difficult to obtain.
अतः एव भाष्यविषये एका प्रशंसोक्तिः श्रूयते - "महाभाष्यं वा पठनीयं, महाराज्यं वा पालनीयम्‌" इति ।

And therefore, we have heard of a quote praising the commentary thus - "Mahābhāṣyaṃ should be read or an empire should be governed".

Go Top
भट्टोजिदीक्षितः
सुप्रसिद्धस्य "सिद्धान्तकौमुदी" इत्यस्य ग्रन्थस्य रचयिता भट्टोजिदीक्षितः ।

Bhaṭṭojidīkṣita is the author of the very famous book called "Siddhāntakaumudī".
एषः महाराष्ट्रदेशीयः ।

He is a native of Mahārāṣṭra.
एतस्य पिता लक्ष्मीधरः ।
His father is Lakṣmīdhara.
शब्दकौस्तुभः, प्रौढमनोरमा इत्यादयः ग्रन्थाः अपि एतेन लिखिताः ।

Śabdakaustubha, Prauḍhamanoramā** and other books were also written by him.
** Prauḍhamanoramā is a commentary on Siddhāntakaumudī, written by Bhaṭṭojidīkṣita himself.

एषः क्रि.श. १६ शतकस्य उत्तरार्धे आसीत्‌ इति विद्वद्भिः निर्णीतम्‌ अस्ति ।

It has been ascertained by the learned that he lived in the latter half of 16th century AD.
एतस्य सिद्धान्तकौमुदी व्याकरणलोके सुप्रसिद्धा ।

His Siddhāntakaumudī is very famous in the world of grammar.
प्रक्रियाक्रमेण सर्वेषां पाणिनीयसूत्राणाम् अर्थः उदाहरणसहितं निरूपितः अस्ति अत्र ।

Etymological formation in due order, meanings of all the aphorisms of Pāṇini, along with examples are ascertained here.
भाष्यादीनां गभीराध्ययनं कृत्वा महता परिश्रमेण परिष्कृततया निरूपितः अस्ति एषः ग्रन्थः ।

This book is found to be well-prepared with great effort, after an in-depth study of commentaries.
सिद्धान्तकौमुद्यां यत्‌ उक्तं तत्‌ प्रमाणरूपेण अङ्गीक्रियते शास्त्रज्ञैः ।

That which is stated in Siddhāntakaumudī, is accepted as authoritative by the experts.
ज्ञानेन्द्रसरस्वतीविरचिता "तत्वबोधिनी", वासुदेवदीक्षितविरचिता "बालमनोरमा" इत्यादीनि सिद्धान्तकौमुद्याः व्याख्यानानि सुप्रसिद्धानि ।

Tatvabodhinī authored by Jñānendrasarasvatī, "Bālamanoramā" authored by Vāsudevadīkṣita are very famous commentaries of Siddhāntakaumudī.

Go Top
नागेशभट्टः
व्याकरणशास्त्रे सुविख्यातस्य नागेशभट्टस्य अपरं नाम नागोजिभट्टः इति ।

Nāgojibhaṭṭa is the other name of Nāgeśabhaṭṭa, who is very famous in the (field of) science of grammar.
शिवभट्टः एतस्य पिता ।
Śivabhaṭṭa is his father.
माता सतीदेवी ।
Satīdevī is his mother.
शृङ्गवेरपुरस्य राज्ञः रामसिंहस्य आस्थाने आसीत्‌ एषः ।
He was in the assembly of Rāmasiṃha, the king of Śṛṅgaverapura.
क्रि.श. १६६०-१७३० एतस्य जीवितकालः इति पण्डिताः मन्यन्ते ।

Scholars think that his life time is 1660-1730 AD.
लघुशब्देन्दुशेखरः, परिभाषेन्दुशेखरः, लघुमञ्जूषा, परमलघुमञ्जूषा इत्यादयः ग्रन्थाः एतस्य सुप्रसिद्धाः ।

His very famous books are Laghuśabdenduśekhara, Paribhāṣenduśekhara, Laghumañjūṣā and Paramalaghumañjūṣā.
व्याकरणशास्त्रस्य सिद्धान्तभागः प्रक्रियाभागः च एतेन सुपरिष्कृततया निरूपितः अस्ति ।

The principle side and etymology side of the science of grammar has been found to be beautifully prepared / arranged by him.
एषः न केवलं व्याकरणशास्त्रे, अपि तु अलङ्कार-योग-वेदान्तादिशास्त्रेषु अपि निष्णातः आसीत्‌ ।

He was conversant not only in the science of grammar, but also in aesthetics, yoga, Veda and in other sciences as well.
एतेन ४५-तः अधिकाः ग्रन्थाः लिखिताः इति श्रूयते ।

It is heard that more than 45 books have been written by him.
व्याकरणशास्त्रे नागेशभट्टस्य अभिप्रायस्य विशेषमहत्त्वम्‌ अस्ति ।

In the (field of) science of grammar, the opinion of Nāgojibhaṭṭa has special importance.

Comments