इतिहासकर्तारौ ।



(०१) प्रथमः पाठः - इतिहासकर्तारौ


Go Top
वाल्मीकिः
रामायणम्‌ आदिकाव्यम्‌ इति प्रसिद्धम्‌ ।

Rāmāyaṇam is popular as the first poem.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
रामायणम्‌ रामायणम्‌ / नपुं / प्र.वि / ए.व

धातुविवरणम् :-
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)
अय् [अयँ गतौ ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to go)

पदविवरणम् :-
रम् + घञ् = राम / पुं
(= Rāma (one who delights))
अय् + ल्युट् = अयन / नपुं
(= road, path, way)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
रामस्य अयनम् = रामायणम्
(= the path of Rāma)
the path of Rāma

इतिहासग्रन्थः इत्यपि भावयते एतत् ।

It is also considered as an epic.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
इतिहासग्रन्थः इतिहासग्रन्थ / पुं / प्र.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
इतिह / अव्ययम्
(= thus indeed, quite in conformity to tradition)
अस् + घञ् = आस / पुं
(= been)
ग्रन्थ / पुं
(= book)

समासविवरणम् :-
[TBD]
TBD
(= traditional accounts of former events,
heroic history, historical evidence)


[षष्ठीतत्पुरुषसमासः]
इतिहासस्य ग्रन्थः = इतिहासग्रन्थः
(= book of traditional accounts of former events,
heroic history, historical evidence)
book of traditional accounts of former events, heroic history, historical evidence

एतस्य ग्रन्थस्य रचयिता वाल्मीकिः ।
This author of the book is Vālmīki.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
रचयिता रचयितृ / पुं / प्र.वि / ए.व

धातुविवरणम् :-
रच [रच प्रतियत्ने ; चुरादिः ; उभयपदी ; सकर्मकः ; सेट्]
(to create, to craft, to compose)

पदविवरणम् :-
रच + तृच् = रचयितृ / पुं
(= author)
author
वाल्मीकिः वाल्मीकि / पुं / प्र.वि / ए.व

पदविवरणम् :-
वल्मीक + इञ् [तद्धित] = वाल्मीकि / पुं
(= Sage Vālmīki)
Sage Vālmīki

किरातकुले उत्पन्नः सः नारदस्य उपदेशात्‌ तपः अकरोत्‌ ।

He, born in a hunter-tribe, performed penance on the instructions of sage Nārada.
तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः ।
His body was covered by ant-hill.
ततः सः बहिः आगतः इत्यतः तस्य नाम "वाल्मीकिः" इति जातम्‌ इति काचित्‌ कथा श्रूयते ।
Since he came out of it, he came to be called "Vālmīki". We have heard some such story.
तमसानदीं स्नानार्थं गच्छन्‌ वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति ।

Vālmīki, while going to Tamasā river for taking bath, saw a crane killed by a hunter.
तदा शोकाकुलः सः व्याधं शपति इति --

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकम् अवधीः काममोहितम् ॥
१.२.१५ [बालकाण्डः - द्वितीयः सर्गः - पञ्चदशः श्लोकः]

[हे निषाद! त्वं यत् (कारणात्) क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः
(तत्) शाश्वतीः समाः प्रतिष्ठां मा अगमः ।]


Then, overcome with sorrow, he cursed the hunter thus - "O fowler! Since you have killed one of the pair of infatuated cranes you will be permanently deprived of your position".
ततः नारदमुखात्‌ रामस्य कथां श्रुत्वा सः "रामायणं" रचयति ।

Then, having heard the story of Rāma from the mouth of Sage Nārada, he authored the "Rāmāyaṇam".
सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु ।

Sītā and Rāma's separation is the plot of Rāmāyaṇam.
महाभारते रामायणस्य कथा वर्णिता दृश्यते ।

In Mahābhāratam, the story of Rāmāyaṇam is seen described.
पाणिनेः अष्टाध्याय्याम्‌ अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते ।

In Pāṇini's Aṣṭādhyāyī also, Kaikeyī, Kausalyā and other words are seen.
अतः रामायणं महाभारतात्‌ पाणिनेः च पूर्वम्‌ आसीत्‌ इति स्पष्टम्‌ ।

Therefore, it is clear that Rāmāyaṇam is before Mahābhāratam's time and Pāṇini's time.
रामायणं (तत्कर्ता वाल्मीकिः च) कदा आसीत्‌ इति विषये मतभेदाः बहवः सन्ति ।

There are many different opinions on when Rāmāyaṇam happened (and its author Vālmīki existed).
तथापि एतावत्‌ तु वक्तुं शक्यते यत्‌ वाल्मीकिः रामायणं क्रि.पू. पञ्चसहस्रवर्षभ्यः पूर्वम्‌ रचितवान्‌ इति ।

Even then, we shall still be able to say that Vālmīki wrote the Rāmāyaṇam 5000+ years BC.
रामायणे २४००० श्लोकाः सन्ति ।

In Rāmāyaṇam there are 24000 verses.
रामायणस्य प्रतिसहस्रतमश्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम्‌ अक्षरं प्राप्यते ।

When the first letter of every 1000th verse of Rāmāyaṇam is taken, we obtain each syllable of the Gāyatrī mantra.
पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात्‌ कविना ।

With the motive that there should be no difference in the text, this should have been done by the poet.
रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च उपलभ्यते ।

Rāmāyaṇam is available in all Indian languages, and many foreign languages.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
बह्वीषु बह्वी / स्त्री / ष.वि / ब.व

पदविवरणम् :-
बहु = अव्ययम् न ।

बहु / पुं = बहुः, बहू, बहवः
बह्वी / स्त्री = बह्वी, बह्व्यौ, बह्व्यः
बहु / नपुं = बहु, बहुनी, बहूनि
many

एतस्मात्‌ रामायणस्य जनप्रियता ज्ञाता भवति ।

From this, people's love towards Rāmāyaṇam is known.
वाल्मीकेः शैली ललिता, सरला, सुन्दरी च ।
Vālmīki's style (of writing) is cheerful, lucid and beautiful.
श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन ।

Śrī Rāma's devotion to virtue, Sita's goodness of character, Bharata's affection towards his brothers, Lakṣmaṇa's devotion towards what ought to be done (duty), Āñjaneya's cleverness in execution, Sugrīva's friendly nature and other aspects are described very beautifully by him.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
सौशील्यम् सौशील्य / नपुं / प्र.वि / ए.व‌

धातुविवरणम् :-
शील् [शीलँ समाधौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to meditate, to practise, to concentrate, to think, to pray, to worship)

पदविवरणम् :-
शील् + अच् = शील / त्रि (-लः-ला-लं)
(= conduct, behaviour)
सुशील + ष्यञ् = सौशील्य / नपुं
(= goodness of character)

समासविवरणम् :-
[बहुव्रीहिसमासः]
शोभनं शीलः यस्य, सः सुशीलः
(= well-behaved, well-disposed)
goodness of character
भ्रातृवात्सल्यम् भ्रातृवात्सल्य / नपुं / प्र.वि / ए.व

पदविवरणम् :-
भ्रातृ / पुं
(= brother)
वत्स + लच् = वत्सल / त्रि (-लः-ला-लं)
(= affection, fondness)
वत्सल + ष्यञ् = वात्सल्य / नपुं
(= tenderness, affection, fondness)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
भ्रातॄणां वात्सल्यम् = भ्रातृवात्सल्यम्
(= affection towards his brothers)

भ्रातृ / पुं ए.व द्वि.व ब.व
प्र.वि भ्राता भ्रातरौ भ्रातरः
सं.प्र.वि भ्रातः भ्रातरौ भ्रातरः
द्वि.वि भ्रातरम् भ्रातरौ भ्रातॄन्
तृ.वि भ्रात्रा भ्रातृभ्याम् भ्रातृभिः
च.वि भ्रात्रे भ्रातृभ्याम् भ्रातृभ्यः
प.वि भ्रातुः भ्रातृभ्याम् भ्रातृभ्यः
ष.वि भ्रातुः भ्रात्रोः भ्रातॄणाम्
स.वि भ्रातरि भ्रात्रोः भ्रातृषु

affection, fondness towards his brothers
सौहार्दभावः सौहार्दभाव / पुं / प्र.वि / ए.व‌

धातुविवरणम् :-
भू [भू सत्तायाम् ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to exist, to become, to be, to happen)

पदविवरणम् :-
सुहृद् + अण् [तद्धित] = सौहार्द / पुं & नपुं
(= friendliness)
भू + घञ् = भाव / पुं
(= natural state of being, innate nature, disposition)

समासविवरणम् :-
[विषेशण-पूर्वपद-कर्मधारयसमासः]
सौहार्दः च असौ भावः च = सौहार्दभावः
(= friendly nature)
friendly nature

संस्कृतसाहित्यनिर्माणे वाल्मीकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः ।

It is not an extreme assertion to say that Vālmīki is a renowned sovereign individual, in the production of Samskrit literary work.

Go Top
व्यासः
महाभारतस्य रचनाकारः भगवान्‌ व्यासः ।

The author of Mahābhāratam is Bhagavan Vyāsa.
वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम ।

The segregation (and compilation) of Vedas was done by him, hence his name Veda-Vyāsa.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
वेदव्यासः‌ वेदव्यास / पुं / प्र.वि / ए.व

धातुविवरणम् :-
अस् [असँ भुवि ; अदादिः ; परस्मैपदी ; अकर्मकः ; सेट्]
(to be, to exist)

पदविवरणम् :-
वि + अस् + घञ् = व्यास / पुं
(= separation, division, extension)

समासविवरणम् :-
[बहुव्रीहिसमासः]
वेदानां व्यासः येन सः वेदव्यासः
(= one by whom the division of Vedas was done)
one by whom the division of Vedas was done, he is Veda-Vyāsa

द्वीपे अस्य जन्म अभवत्‌ इत्यतः "कृष्णद्वैपायनः" इत्यपि एतस्य नाम ।

His was born in an island, hence his name is Kṛṣṇadvaipāyana also.
एतस्य पिता पराशरमुनिः माता च सत्यवती ।

His father is sage Parāśara and his mother is Satyavatī.
महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः ।

The elaborate book of Mahābhāratam is composed of 1,00,000 verses.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
लक्षश्लोकात्मकः‌ लक्षश्लोकात्मक / पुं / प्र.वि / ए.व

धातुविवरणम् :-
श्लोक् [श्लोकृँ सङ्घाते ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to compose, to write poem)

पदविवरणम् :-
लक्ष / नपुं
(= one lakh, or one hundred thousand)
श्लोक् + अच् = श्लोक / पुं
(= verse, stanza)
आत्मन् + क = आत्मक / पुं
(= having the nature of, consisting of, composed of)

समासविवरणम् :-
[समाहारद्विगुसमासः]
लक्षाणां श्लोकानां समाहारः = लक्षश्लोकी / स्त्री
(= collection of one hundred thousand verses)

[तृतीयातत्पुरुषसमासः]
लक्षश्लोक्या आत्मकः = लक्षश्लोकात्मकः
(= consisting of a collection of one hundred thousand verses)
consisting of a collection of one hundred thousand verses
विस्तृतः‌ विस्तृत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
स्तृ [स्तृञ् आच्छादने ; स्वादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to cover, to eclipse, to spread, to expand)

पदविवरणम् :-
वि + स्तृ + क्त = विस्तृत / पुं
(= elaborated, expanded)
elaborate, numerous, broad, expanded

व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान्‌ ।

Vyāsa made known the story of Bhāratam to his son, sage Śuka and to his student, sage Vaiśampāyana.
वैशम्पायनः जनमेजयं तां कथाम्‌ अवदत्‌ ।
Sage Vaiśampāyana told this story to the king Janamejaya.
जनमेजयेन उक्ता भारतकथा एव इदानीम्‌ उपलभ्यते ।

The story of Bhāratam told by the king Janamejaya is the one available now.
रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति ।

Like in Rāmāyaṇam, here as well, Brahmā encourages sage Vyāsa to write the story of Bhāratam.
व्यासः योग्यस्य लेखकस्य अभावं वदति ।
Sage Vyāsa states the non-existence of a fit/suitable scribe.
ततः गणेशः भारतकथालेखनकार्यम्‌ अङ्गीकरोति ।

Then Gaṇeśa agreed to the task of writing the story of Bhāratam.
व्यासेन उक्तां भारतकथां सः लिखति च ।

And, he wrote the story of Bhāratam told by sage Vyāsa.
आर्यभटः (ज्योतिश्शास्त्रज्ञः) वदति - क्रि.पू. ३१०१-तमे वर्षे कलियुगस्य आरम्भः अभवत्‌ इति ।

Āryabhaṭa (expert in the science of Jyotiśa) states that Kaliyuga started in the year 3101 BC.
कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान्‌ ।

On the first day of Kaliyuga, Śrīkṛṣṇa left for his supreme abode.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
धाम‌ धा + मनिँन् = धामन् / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
धा [डुधाञ् धारणपोषणयोः ; जुहोत्यादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to wear, to obey, to bear, to support, to nourish, to protect)

पदविवरणम् :-
धा + मनिँन् = धामन् / नपुं
(= abode)

धामन् / नपुं ए.व द्वि.व ब.व
प्र.वि धाम धाम्नी / धामनी धामानि
सं.प्र.वि धाम / धामन् धाम्नी / धामनी धामानि
द्वि.वि धाम धाम्नी / धामनी धामानि
तृ.वि धाम्ना धामभ्याम् धामभिः
च.वि धाम्ने धामभ्याम् धामभ्यः
प.वि धाम्नः धामभ्याम् धामभ्यः
ष.वि धाम्नः धाम्नोः धाम्नाम्
स.वि धाम्नि / धामनि धाम्नोः धामसु

abode

ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम्‌ ।

Then, 37 years before, the great war of Bhārata took place.
अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्यम्‌ ।

Thus, we are able to determine that the time of Mahābhāratam and time when Vyāsa lived, are probably the same.
महाभारते बह्व्यः उपकथाः उपलभ्यन्ते ।

In Mahābhāratam, many sub-stories are available.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
बह्व्यः बह्वी / स्त्री / प्र.वि / ब.व

पदविवरणम् :-
बहु = अव्ययम् न ।

बहु / पुं = बहुः, बहू, बहवः
बह्वी / स्त्री = बह्वी, बह्व्यौ, बह्व्यः
बहु / नपुं = बहु, बहुनी, बहूनि
many

अतः भारतकथाम्‌ अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः ।

Therefore, based on the story of Bhārata, many prose (गद्यम्), poetry (पद्यम्), prose and verse mixed (चम्पूः), poetical composition (काव्यम्) and other (literary works) are written by various poets.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
बहूनि बहु / नपुं / प्र.वि / ब.व

पदविवरणम् :-
बहु = अव्ययम् न ।

बहु / पुं = बहुः, बहू, बहवः
बह्वी / स्त्री = बह्वी, बह्व्यौ, बह्व्यः
बहु / नपुं = बहु, बहुनी, बहूनि
many

भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।

Bhagavadgītā, Harivaṃśa (the race/lineage of Hari) and others are also contained in Mahābhāratam.
Toggle for विवरणम्
The following 6 are उपसर्गसमानाकाराणि अव्ययानि --

क्रमः उपसर्गाः धातवः Verbs with उपसर्गाः
1 अन्तर्
within, away, etc.
भू
to be
अन्तर्भवति
is within
2 आविः
out of, up
भू
to be
आविर्भवति
appears
3 तिरस्
disappearance
धा
to hold
तिरोधत्ते
disappears
4 अस्तम्
away, down
गम्
to go
अस्तं गच्छति
goes down, sets
5 अलम्
well
कृ
to do
अलंकरोति
decorates
6 ऊरी
assert
कृ
to do
ऊरीकरोति
accepts

More info

व्यासस्य शैली अपि वाल्मीकेः इव सरला एव ।
The (writing) style of Vyāsa, similar to Vālmīki, is also lucid.
महाभारतम्‌ अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम्‌ अस्ति ।

To a high degree, Mahābhāratam also, hangs onto / sticks to anuṣṭup meter too.
Toggle for विवरणम्
पदम् पदविवरणम् पदार्थम्
आधिक्येन आधिक्य / नपुं / तृ.वि / ए.व

पदविवरणम् :-
अधिक + ष्यञ् = आधिक्य / नपुं
(= to a high degree)
to a high degree
उपनिबद्धम् उपनिबद्ध / पुं / द्वि.वि / ए.व

धातुविवरणम् :-
बन्ध् [बन्धँ बन्धने ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to tie, to bind)

पदविवरणम् :-
उप + नि + बन्ध् + क्त = उपनिबद्ध / त्रि (-द्धः-द्धा-द्धं)
(= hanging onto, sticking to)
hanging onto, sticking to

Comments