ज्योतिश्शास्त्रज्ञाः ।



(०३) तृतीयः पाठः - ज्योतिश्शास्त्रज्ञाः ।



पदविच्छेदम्
Go Top
॥ आर्यभटः ॥
ज्योतिश्शास्त्रस्य शास्त्रीयत्वं परिकल्पितम्‌ आर्यभटेन एव ।

पदविच्छेदम्

Concepts of the science of light (jyoti) were composed / put in order by Āryabhaṭa only.
आर्यभटम्‌ "आर्यभट्टः" इत्यपि निर्दिशन्ति केचन ।

पदविच्छेदम्

Some people point out that Āryabhaṭa is also called "Āryabhaṭṭa".
आर्यभटस्य जन्म क्रिस्तशक षट्सप्तत्युत्तरचतुःशततमे (क्रि.श. ४७६ तमे) वर्षे पाटलीपुत्रनगरे (पाटना) जातम्‌ इति, क्रिस्तशक नवनवत्युत्तरचतुःशततमे (क्रि.श. ४९९ तमे) वर्षे एषः "आर्यभटीयम्‌" इति ग्रन्थं लिखितवान्‌ इति च ज्ञायते ।

पदविच्छेदम्

It is known that the birth of Āryabhaṭa happened in the year 476 AD in Pāṭalīputra (Pāṭanā), and in the year 499 AD he wrote the book "Āryabhaṭīyam".
एषः स्वस्य द्वाविंशतितमे (२३-तमे) वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान्‌ आसीत्‌ ।

पदविच्छेदम्

He, in only his 23rd year, authored this excellent book, that rests on conclusive arguments (or doctrines, or principles) in every step.
एतस्मात्‌ एव वयम्‌ ऊहितुं शक्नुमः यत्‌ एतस्य प्रतिभा कीदृशी आसीत्‌ इति ।
From this itself we could guess the kind of genius that he was.
आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घन-मूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, काल-विभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति ।

पदविच्छेदम्

In the book Āryabhaṭīyam, topics like how to consolidate and write even big numbers as terms (Āryabhaṭa numeration); square, cube, root, triangle and other mathematical concepts; Kaṭapayādi sequence of terms; divisions of time; movement of stars/planets; zodiac (भानां नक्षत्राणां गणः समूहः इति भगणः ।) and aspects of day and night are also explained.
मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम्‌ एव स्फुटतया निरूप्यते इति स्वग्रन्थे उक्तवान्‌ अस्ति एषः ।

पदविच्छेदम्

"Nothing new has been told by me. What has been told by ancestors already, has been clearly stated by me", thus he has mentioned in his book.
पञ्चाङ्गकर्तारः बहवः एतस्य सिद्धान्तम् एव अनुसरन्ति ।

पदविच्छेदम्

Many creators of almanac, follow his principles only.


पदविच्छेदम्
Go Top
॥ वराहमिहिरः ॥
खगोलं, ज्योतिषं, गणितं चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः ।

पदविच्छेदम्

Astronomy, Astrology and Mathematics are the three divisions of astrological science.
खगोलं ग्रहचलनादिकं ज्ञापयति ।

पदविच्छेदम्

Astronomy provides knowledge of movement of planets, etc …
मानवजीवने ग्रहादीनां प्रभावं निरूपयति ज्योतिषम्‌ ।

पदविच्छेदम्

Astrology determines the impact of the planets, etc … in human lives.
एतेषां फलं निर्णयति गणितम्‌ ।
Mathematics determines the fruits of these.
वराहमिहिरः एतान् त्रीन्‌ भागान्‌ अपि अधिकृत्य ग्रन्थं विलिख्य "फलज्योतिश्शास्त्रस्य आद्यप्रवर्तकः" इति ख्यातः अस्ति ।

पदविच्छेदम्

Varāhamihira having written a book, that also comprises of these 3 divisions, is popular as "the pioneer of predictive astrological science".
एषः क्रि.श. ६ शतके आसीत्‌ इति परिगण्यते ।

पदविच्छेदम्

He is considered to have lived in 6th century AD.
विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत्‌ एषः इत्यपि प्रतिपादयन्ति केचन ।

पदविच्छेदम्

Some also propound / expound that "He was among the 9 gems of the court of Vikramāditya".
एषः अवन्तिनिवासी आसीत् इति, आदित्यदासः एतस्य पिता आसीत्‌ इति च ज्ञायते ।

पदविच्छेदम्

It is known that he was a resident of Avanti and his father was Ādityadāsa.
पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम्‌ इत्येते ग्रन्थाः एतेन रचिताः सन्ति ।

पदविच्छेदम्

Pañcasiddhāntikā, Laghusaṃhitā, Vārāhīsaṃhitā, Bṛhajjātakam‌ -- these books were written by him.
तत्र बृहज्जातकं सुप्रसिद्धम्‌ ।

पदविच्छेदम्

Therein, Bṛhajjātakam is very popular.
बृहज्जातके चतुःसहस्रं (४०००) श्लोकाः, शतं (१००) अध्यायाः च सन्ति ।

पदविच्छेदम्

In Bṛhajjātakam, 4000 verses and 100 chapters are there.
ज्योतिषिकलक्षणम्‌, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः बहवः विषयाः निरूपिताः सन्ति अत्र ।

पदविच्छेदम्

Characteristics / attributes of an astronomer, star constellation, rain, the science of dwelling place, characteristics of horses, diamond examination, cooking lessons, etc ... and many others topics seen there.
अतः एषः ग्रन्थः "लघुविश्वकोषः" इत्येव परिगण्यते ।

पदविच्छेदम्

Therefore, this book considered as a "Mini Encyclopedia" itself.
पर्वकृतीनाम्‌ आधारेण ग्रन्थं रचितवान्‌ एषः तत्र तत्र आधारग्रन्थान्‌ अपि उल्लिखति ।

पदविच्छेदम्

He, who has written his book based on prior works, has also mentioned the reference books here and there.
जातकस्वरूपज्ञापके ग्रीक्होराशास्त्रविभागे ग्रीक्पद्धतेः विवरणं, ग्रीक्पारिभाषिकशब्दानां प्रयोगः च विशेषतः दृष्यते अत्र ।

पदविच्छेदम्

While teaching native astrological calculations, the hora-science of Greeks, the description of Greek methodology and the use of Greek technical terms are especially seen there.


पदविच्छेदम्
Go Top
॥ ब्रह्मगुप्तः ॥
भास्कराचार्येण "गणकचक्रचूडामणिः" इति श्लाघितः ब्रह्मगुप्तः ज्योतिश्शास्त्रे प्रसिद्धः पण्डितः ।

पदविच्छेदम्

Bramhagupta, who is praised by Bhāskarācārya as "crest jewel among an army of mathematicians", is a very renowned scholar in the (field of) science of light.
"ब्रह्मस्फुटसिद्धान्तः" "खण्डखाद्यकं" चेति ग्रथद्वयं रचितवान् अस्ति एषः ।

पदविच्छेदम्

He has authored two books namely Brahma-sphuṭa-siddhānta ("Correctly established doctrine of Brahma") and Khaṇḍa-khādyakaṃ ("Edible bite", "Morsel of food").
ब्रह्मस्फुटसिद्धान्ते दृश्यमानात्‌ उल्लेखात्‌ ज्ञायते यत्‌ एषः क्रिस्तशक अष्टानवत्युत्तरपञ्चशततमे (क्रि.श. ५९८ तमे) वर्षे जन्म प्राप्तवान्‌ इति, विष्णुगुप्तः इति एतस्य पितुः नाम इति, आश्रयदाता राजा व्याघ्रमुखनामकः इति, त्रिंशत्तमे (३० तमे) वयसि तेन स च ग्रन्थः रचितः इति च ।

पदविच्छेदम्

From the inscriptions seen in Brahma-sphuṭa-siddhānta we know that he was born in the year 598 AD, his father's name was Viṣṇugupta, the giver of patronage / protection was a king by the name Vyāghramukha, and in his 30th year this book (Brahma-sphuṭa-siddhānta) was authored by him.
ब्रह्मस्फुटसिद्धान्ते ग्रहगणितम्‌, पाटीगणितम्‌, क्षेत्रगणितम्‌ इत्यादयः विभागाः सन्ति ।

पदविच्छेदम्

Planetary (astronomical) calculations, arithmetic calculations, geometrical calculations are constituent parts in Brahma-sphuṭa-siddhānta.


पदविच्छेदम्
Go Top
॥ भास्कराचार्यः ॥
भास्कराचार्यस्य नाम्नः श्रवणात् एव सर्वे "लीलावती" इति ग्रन्थं स्मरन्ति ।

पदविच्छेदम्

No sooner we hear the name of Bhāskarācārya, we all are reminded of the book called "Līlāvatī".
किन्तु लीलावती इति स्वतन्त्रः ग्रन्थः न ।

पदविच्छेदम्

But Līlāvatī is not a book by itself.
सिद्धान्त शिरोमणिः इत्येतस्य ग्रन्थस्य कश्चन भागः सः ।

पदविच्छेदम्

It (Līlāvatī) is some part of this book called "Siddhānta śiromaṇi" (Crown of treatises).
भास्कराचार्यस्य लीलावतीनामिका विधवा पुत्री आसीत्‌ । तस्याः खेदस्य निवारणार्थं यत्‌ गणितं बोधितं तत्‌ लीलावती इति नाम्ना एव ख्यातम्‌ अभवत्‌ इति कथा श्रूयते ।

पदविच्छेदम्

We must have heard an anecdote that -- There was a daughter of Bhāskarācārya by name Līlāvatī, who was a widow. The math that he taught her in order to alleviate her pain, is renowned by the name "Līlāvatī".
लीलावती भागः पाटीगणितं (अङ्कगणितं) निरूपयति ।

पदविच्छेदम्

The portion, "Līlāvatī", ascertains the arithmetic calculations.
सङ्कलन-व्यवकलनादीनि, गणितस्य सर्वाणि अङ्गानि च प्रतिपादयति लीलावतीभागः ।

पदविच्छेदम्

Addition, subtration, etc ...; and every limb of mathematics is stated in the portion called "Līlāvatī".
भास्काराचार्यस्य अपरः ग्रन्थः "करणकुतूहलम्‌" इति ।

पदविच्छेदम्

Bhāskarācārya's yet another book is "Karaṇakutūhalam" (Calculation of Astronomical Wonders).
अत्र पञ्चाङ्गनिर्माणार्थम्‌ आवश्यकाः विषयाः निरूपिताः सन्ति ।

पदविच्छेदम्

Topics that are essential for the purpose of creating an almanac are stated herein.
भास्कराचार्यः कर्णाटकदेशीयः ।

पदविच्छेदम्

Bhāskarācārya is from Karnataka state.
सह्यपर्वतसमीपस्थः ग्रामः एतस्य जन्मस्थलम्‌ ।

पदविच्छेदम्

A village near Sahyadri (Mountain of patience, aka Western ghats) range of mountains is his birth place.
पितुः नाम महेश्वरः इति ।
(His) father's name is Maheśvara.
पिता एव एतस्य विद्यागुरुः आसीत्‌ ।

पदविच्छेदम्

(His) father himself was his teacher.
एषः क्रिस्तशक एकादशस्य (क्रि.श. ११) शतकस्य पूर्वार्धे आसीत्‌ इति विदुषाम्‌ अभिप्रायः ।

पदविच्छेदम्

The learned opine that he lived in the first half of the 11th century AD.
भास्कराचार्यस्य कृतीनां व्याख्यानानि यावन्ति सन्ति तावन्ति व्याख्यानानि ज्योतिश्शास्त्रस्य अन्यस्य कस्यापि ग्रन्थस्य न सन्ति ।

पदविच्छेदम्

How many ever commentaries of Bhāskarācārya's works are available, as many commentaries of no one else's work is available in the (field of) astronomy (science of light).

Comments