प्रमुखानि पारिभाषिकपदानि ।
॥ प्रमुखानि पारिभाषिक~पदानि ॥
- पद्यम् । (= verse)
- साहित्यदर्पणे पद्यस्य लक्षणम् इति " छन्दोबद्धपदं पद्यम् " ।
- पादः । (= one quarter of a verse)
- पद्ये चत्वारः भागाः सन्ति । ते भागाः एव पादाः इति कथ्यन्ते ।
- पादाः द्विविधाः भवन्ति । ते --
- समपादाः (समाः पादाः इति) ।
- अक्षराणां संख्या प्रति पादं समानरीत्या भवति ।
- उदाहरणम् --
- अगजाननपद्मार्कम्
- गजाननमहर्निशम् ।
- अनेकदं तं भक्तानाम्
- एकदन्तमुपास्महे ॥
- विषमपादाः (विषमाः पादाः इति) ।
- अक्षराणां संख्या प्रति पादं समानरीत्या न भवति ।
- उदाहरणम् --
- अविनयमपनय विष्णो
- दमय मनः शमय विषयमृगतृष्णाम् ।
- भूतदयां विस्तारय
- तारय संसारसागरतः ॥
- वर्णः । (= a letter, व्याकरण-शास्त्रे । )
- छन्दःशास्त्रे " वर्णः " इति शब्दस्य अर्थः भिन्नः भवति ।
- व्याकरण-शास्त्रे 64 वर्णाः सन्ति । ते --
- स्वराः → 22
- ह्रस्व~स्वराः → 5
- दीर्घ~स्वराः → 8
- प्लुत~स्वराः → 9
- व्यञ्जनानि → 34
- वर्गीय~व्यञ्जनानि → 25
- अवर्गीय~व्यञ्जनानि → 8
- ळ् → 1
- अयोगवाहाः → 4
- अनुस्वारः → 1
- शिक्षाशास्त्रे इति " स्वरम् अनुप्रयुज्यते इति अनुस्वारः " ।
- विसर्गः → 1
- शिक्षाशास्त्रे इति " विविधतां सृजति इति विसर्गः " ।
- जिह्वामूलीयम् → 1
- कखाभ्यां प्राग् अर्धविसर्गसदृशः जिह्वामूलीयः ।
- उपध्मानीयम् → 1
- पफाभ्यां प्राग् अर्धविसर्गसदृशः उपध्मानीयः ।
- यमाः → 4
- प्रथम~यमः → 1
- उदाहरणम् -- पलिक्कनी, असिक्कनी
- द्वितीय~यमः → 1
- उदाहरणम् -- चख्खन्तु
- तृतीय~यमः → 1
- उदाहरणम् -- अग्ग्निः
- चतुर्थ~यमः → 1
- उदाहरणम् -- घ्घ्नन्ति
- Additional notes
- Used in Vedas only
- As mentioned in the ऋग्वेद~प्रातिशाख्यम् → there are 4 यम~वर्णाः only
- When any of the first 4 क-वर्गीय वर्णाः is immediately succeeded by the 5th क-वर्गीय वर्णः, then a letter similar to the previous one is added
- स्वरः । (= vowel)
- ह्रस्व~स्वराः → 5
- दीर्घ~स्वराः → 8
- व्यञ्जनम् । (= consonant)
- वर्गीय~व्यञ्जनानि → 25
- अवर्गीय~व्यञ्जनानि → 8
- ळ् → 1
- संयोगः / सय्ँयुक्तव्यञ्जनम् । (= conjunct consonant)
- संयोगः / सय्ँयुक्तव्यञ्जनम् = व्यञ्जनम् + व्यञ्जनम् + ... + व्यञ्जनम्
- अक्षरम् / वर्णः । (= syllable छन्दःशास्त्रे । )
- अक्षरम् / वर्णः = व्यञ्जनम् / संयोगः + स्वरः
- उदाहरणम् --
- अगजाननपद्मार्कम् = अ + ग + जा + न + न + प + द्मा + र्कम्
- गजाननमहर्निशम् = ग + जा + न + न + म + ह + र्नि + शम्
- लघुः / लघु~अक्षरम् / लघु~वर्णः । (= short syllable)
- एतेषु चिन्हेषु ("U", "।", "L") एकं चिन्हं, लघुत्वं दर्शयितुम् , अक्षरस्य उपरि दीयते ।
- ह्रस्वस्वरः ।
- ते → अ, इ, उ, ऋ, ऌ
- ह्रस्वस्वर~युक्तम् अक्षरम् ।
- उदाहरणानि -- क, गि, पु, धृ
- गुरुः / गुरु~अक्षरम् / गुरु~वर्णः । (= long syllable)
- एतेषु चिन्हेषु ("-", "ऽ", "G") एकं चिन्हं, गुरुत्वं दर्शयितुम् , अक्षरस्य उपरि दीयते ।
- दीर्घस्वरः ।
- ते → आ, ई, ऊ, ॠ, ए, ऐ, ओ, औ
- दीर्घस्वर~युक्तम् अक्षरम् ।
- उदाहरणानि -- का, गी, पू, धॄ, मे, जै, रो, हौ
- ह्रस्वस्वरः (→ गुरुः) + अनुस्वारः / विसर्गः / संयोगः ।
- उदाहरणम् --
- अनुस्वारः → अं, रुं, चृं, आं, रूं, चॄं
- विसर्गः → अः, रुः, चृः, आः, रूः, चॄः
- संयोगः →
- कृष्ण
-
कृ → गुरुः ।
(since कृ is followed by a संयोगः ष्णः ।) - ष्ण → लघुः ।
- भिक्षा
-
भि → गुरुः ।
(since भि is followed by a संयोगः क्षा (क् + ष् + आ) ।) - क्षा → गुरुः ।
- पादस्य अन्ते ह्रस्वस्वरः (→ गुरुः) ।
- वृत्तस्य नियमम् आश्रित्य लघुः अपि गुरुः इति कदाचित् (विरलः एव) वक्तुं शक्यते ।
- प्रस्तारः । (= marking symbols for the verse)
- लघु-गुरु-चिन्हैः अङ्कनम् इति प्रस्तारः ।
- मात्रा । (= time interval)
- मात्रा अक्षरस्य परिमाणम् उच्यते ।
- मात्राच्छन्देषु एव मात्रायाः उपयोगः भवति ।
- अक्षरच्छन्देषु / वर्णच्छन्देषु मात्रायाः उपयोगः न भवति ।
- लघुः = १ मात्रा ।
- गुरुः = २ मात्रा ।
- यतिः । (= pause)
- यतिः → श्लोकानां उच्चारणे यत्र एकः लघु-विरामः दीयते, तस्य यतिः इति उच्यते ।
- पादस्य मध्ये → दीर्घवृत्तेषु पादस्य मध्येऽपि विरामः दीयते ।
- पादस्य अन्ते → सामान्यतः पादस्य अन्ते विरामः दीयते एव ।
- वृत्तस्य लक्षणे कुत्र यतिः भवेत् इति कदाचित् दीयते ।
- उदाहरणम् #१ --
-
वटविटपिसमीपे, भूमिभागे निषण्णम्
सकलमुनिजनानां, ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं, दक्षिणामूर्तिदेवं
जननमरणदुःख, ~च्छेददक्षं नमामि । - उदाहरणम् #२ --
-
दोर्भिर्युक्ता चतुर्भिः, स्फटिकमणिमयीम्, अक्षमालां दधाना
हस्तेनैकेन पद्मं, सितमपि च शुकं, पुस्तकं चापेरण ।
भासा कुन्देन्दुशङ्ख, ~स्फटिकमणिनिभा, भासमानाऽसमाना
सा मे वाग्देवतेयं, निवसतु वदने, सर्वदा सुप्रसन्ना ॥ - गणाः । (= a group of 3 syllables)
- अक्षर~त्रयाणां समूहः गणः इति कथ्यते ।
- अष्ट~विधाः गणाः सन्ति । ते --
-
लघुः (U, ।, L)
गुरुः (-, ऽ, G)गणः गण~लक्षणम् य U-- ।ऽऽ LGG र -U- ऽ।ऽ GLG त --U ऽऽ। GGL भ -UU ऽ।। GLL ज U-U ।ऽ। LGL स UU- ।।ऽ LLG म --- ऽऽऽ GGG न UUU ।।। LLL - गणनां स्मरणम् #१ ।
- श्लोकः ।
-
आदि-मध्य-अवसानेषु यरता यान्ति लाघवम् ।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् ॥ - विवरणम् ।
- आदि-मध्य-अवसानेषु लघुः - यरत ।
- आदि-मध्य-अवसानेषु गुरुः - भजस ।
- गुरुलाघवम् - मन ।
- गणनां स्मरणम् #२ ।
- य मा ता रा ज भा न स ल गम् ।
-
लघुः (U, ।, L)
गुरुः (-, ऽ, G)गणः स्मृति~सहायः ।
यऽ
माऽ
ताऽ
रा।
जऽ
भा।
न।
स।
लऽ
गम्य-गणः U - - म-गणः - - - त-गणः - - U र-गणः - U - ज-गणः U - U भ-गणः - U U न-गणः U U U स-गणः U U - लघुः U गुरुः - - वृत्त-लक्षणम् । (= definition of a poetic/prosodic metre)
- वृत्ते के के गणाः भवन्ति इति उच्यते ।
- वृत्ते यतिः अस्ति चेत् , कुत्र अस्ति इति उच्यते ।
Comments
Post a Comment