छन्दः प्रभेद ।
॥ छन्दः प्रभेदाः ॥
- वैदिकच्छन्दः ।
- लौकिकच्छन्दः ।
- मात्राच्छन्दः / जातिः ।
- प्रतिपादं कति मात्राः सन्ति इति मात्राणां एव गणना भवति । तत्र अक्षराणां गणना न क्रियते ।
- लघुः = १ मात्रा ।
- गुरुः = २ मात्रा ।
- अक्षरच्छन्दः / वर्णच्छन्दः / वृत्तम् ।
- वृत्ते अक्षराणां लघु~गुरु~क्रम~विन्यासः गणना भवति । अधोदत्तानि प्रश्नानाम् उत्तराणि ददति ।
- कति अक्षराणि प्रतिपादं सन्ति ?
- लघु~अक्षराणि वा गुरु~अक्षराणि वा ?
- केन क्रमेण तस्य विन्यासः भवति ?
- त्रेधा विभागाः सन्ति ।
- सम~वृत्तानि ।
- सर्वेषु पादेषु अक्षराणि तेषाम् क्रमश्च समानरीत्या भवति ।
- अर्ध~सम~वृत्तानि ।
- पूर्वार्धः (पाद~द्वयम्) उत्तरार्धः (पाद~द्वयम्) समानं भवति ।
- प्रथम~पादः भिन्नः, द्वितीय~पादः भिन्नः भवति ।
- परन्तु तृतीय~पादः प्रथम~पाद~सदृशः भवति ।
- चतुर्थ~पादः द्वितीय~पाद~सदृशः भवति ।
- विषम-वृत्तानि ।
- चतुर्षु पादेषु अपि --
- अक्षराणां विन्यासः भिन्नरीत्या भवति ।
- अक्षराणां सङ्ख्या भिन्ना भवितुम् अर्हति ।
- अक्षराणां क्रमः भिन्नः भवितुम् अर्हति ।
- अधिकतया कः दृश्यते ?
- काव्येषु वा पद्य~साहित्येषु वा अक्षरच्छन्दः एव अधिकतया दृश्यते ।
- तत्रापि सम~वृत्त~अक्षरच्छन्दः प्राधान्यं भवति ।
Comments
Post a Comment