भगवद्गीता ॥०१.१४॥


ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
ततः ततः / अव्ययम् then
श्वेतैः श्वेत / पुं / तृ.वि / ब.व by white
हयैः हय / पुं / तृ.वि / ब.व by horses
युक्ते युज् + क्त = युक्त / पुं / स.वि / ए.व

धातुविवरणम् :-
युज् [युजिँर् योगे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to bind, to restrain, to join, to unite, to apply, to combine)

पदविवरणम् :-
युज् + क्त = युक्त / त्रि (-तः-ता-तं)
(= yoked, joined, combined, united)
yoked, joined
महति महत् / पुं / स.वि / ए.व in the magnificient
स्यन्दने स्यन्दन / पुं / स.वि / ए.व

धातुविवरणम् :-
स्यन्द् [स्यन्दूँ प्रस्रवणे ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; वेट्]
(to ooze, to drip, to trickle)

पदविवरणम् :-
स्यन्द् + युच् = स्यन्दन / पुं
(= chariot)
chariot
स्थितौ स्थित / पुं / प्र.वि / द्वि.व

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
स्था + क्त = स्थित / त्रि (-तः-ता-तं)
(= situated)
the two, who are situated
माधवः माधव / पुं / प्र.वि / ए.व

पदविवरणम् :-
मा / स्त्री
(= Goddess Lakṣmī)
धव / पुं
(= husband)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
मायाः (लक्ष्म्याः) धवः = माधवः
(= Husband of Goddess Lakṣmī)
Mādhava / Śrī Kṛṣṇa, the husband of Goddess Lakṣmī
पाण्डवः पाण्डव / पुं / प्र.वि / ए.व

पदविवरणम् :-
पाण्डु + अण् = पाण्डव / पुं
(= पाण्डोः अपत्यं पुमान् ; son of Pāṇḍu)
the son of Pāṇḍu (here Arjunā)
च / अव्ययम् and
एव एव / अव्ययम् also
दिव्यौ दिव्य / पुं / द्वि.वि / द्वि.व (the two) divine
शङ्खौ शङ्ख / पुं / द्वि.वि / द्वि.व (the two) conches
प्रदध्मतुः प्र + ध्मा + कर्तरि लिँट् / प्र.पु / द्वि.व

धातुविवरणम् :-
ध्मा [ध्मा शब्दाग्निसंयोगयोः ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to blow, to breathe out, to produce sound by blowing, to blow a fire,
to manufacture by blowing, to play a conch)
blew in a splendid manner

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (प्रदध्मतुः) गौणक्रिया 1.1 (स्थितौ)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि माधवः
पाण्डवः
स्थितौ
स.प्र.वि
द्वि.वि शङ्खौ दिव्यौ
तृ.वि हयैः श्वेतैः
च.वि
प.वि
ष.वि
स.वि स्यन्दने युक्ते
महति
अव्ययम् ततः

एव
अन्वयः ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ।
Purport Then, Madhava and Arjuna too, standing on the magnificient chariot yoked with white horses, spendidly blew their divine conches.
अन्वयरचना प्रदध्मतुः
  • कौ प्रदध्मतुः? = माधवः पाण्डवः च प्रदध्मतुः
    • कीदृशौ तौ? = स्थितौ तौ
      • कुत्र स्थितौ? = स्यन्दने स्थितौ
        • कीदृशे स्यन्दने? = महति स्यन्दने
        • पुनः कीदृशे स्यन्दने? = युक्ते स्यन्दने
          • कैः युक्ते? = हयैः युक्ते
            • कीदृशैः हयैः? = श्वेतैः हयैः
  • कौ प्रदध्मतुः? = शङ्खौ प्रदध्मतुः
    • कीदृशौ शङ्खौ? = दिव्यौ शङ्खौ
  • कदा प्रदध्मतुः? = ततः प्रदध्मतुः

Comments