भगवद्गीता ॥०१.२९॥


वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्रंसते हस्तात्त्वक्च‍ैव परिदह्यते ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
वेपथुः वेप् + अथुच् / पुं / प्र.वि / ए.व trembling
अव्ययम् and
शरीरे शरीर / पुं / स.वि / ए.व in body
मे अस्मद् / त्रि / ष.वि / ए.व my
रोमहर्षः रोमहर्ष / पुं / प्र.वि / ए.व hair-raising
अव्ययम् and
जायते जन् + कर्तरि लँट् / प्र.पु / ए.व happens
गाण्डीवम् गाण्डीव / पुं / द्वि.वि / ए.व Gandhiva (Arjuna's bow)
स्रंसते स्रंस् + कर्तरि लँट् / प्र.पु / ए.व falls off
हस्तात् हस्त / पुं / पं.वि / ए.व from the hand
त्वक् त्वक् / स्त्री / प्र.वि / ए.व skin
अव्ययम् and
एव अव्ययम् even, too
परिदह्यते परि + दह् + कर्मणि लँट् / प्र.पु / ए.व burns

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया #1 (जायते) प्रधानक्रिया #2 (स्रंसते) प्रधानक्रिया #3 (परिदह्यते)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि वेपथुः
रोमहर्षः
गाण्डीवम् त्वक्
स.प्र.वि
द्वि.वि
तृ.वि
च.वि
प.वि हस्तात्
ष.वि मे
स.वि शरीरे
अव्ययम्
एव
अन्वयः मे शरीरे वेपथुः च रोमहर्षः च जायते । हस्तात् गाण्डीवम् स्रंसते च । त्वक् एव परिदह्यते ।
तात्पर्यम् My body is trembling, my hair is standing on end, my bow Gāṇḍīva is slipping from my hand, and my skin too is burning.
अन्वयरचना जायते
  • कः जायते? = वेपथुः जायते
  • पुनः कः जायते? = रोमहर्षः जायते
  • कस्य जायते? = मे (मम) जायते
  • कस्मिन् जायते? = शरीरे जायते
स्रंसते
  • किं स्रंसते? = गाण्डीवं स्रंसते
  • कस्मात् स्रंसते? = हस्तात् स्रंसते
परिदह्यते
  • का परिदह्यते? = त्वक् एव परिदह्यते

Comments