परिचयः - अन्वयक्रमः #07


तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तम् तद् / पुं / द्वि.वि / ए.व him
व्रजन्तम् व्रजत् / पुं / द्वि.वि / ए.व

पदविवरणम् :-
व्रज् + शतृँ = व्रजत् / पुं
departing (to the forest)
प्रियः प्रिय / पुं / प्र.वि / ए.व with affection
भ्राता भ्रातृ / पुं / प्र.वि / ए.व

भ्रातृ / पुं ए.व द्वि.व ब.व
प्र.वि भ्राता भ्रातरौ भ्रातरः
सं.प्र.वि भ्रातः भ्रातरौ भ्रातरः
द्वि.वि भ्रातरम् भ्रातरौ भ्रातॄन्
तृ.वि भ्रात्रा भ्रातृभ्याम् भ्रातृभिः
च.वि भ्रात्रे भ्रातृभ्याम् भ्रातृभ्यः
प.वि भ्रातुः भ्रातृभ्याम् भ्रातृभ्यः
ष.वि भ्रातुः भ्रात्रोः भ्रातॄणाम्
स.वि भ्रातरि भ्रात्रोः भ्रातृषु
brother
लक्ष्मणः लक्ष्मण / पुं / प्र.वि / ए.व Lakshmana
अनुजगाम अनु + गम् + लिट् / प्र.पु / ए.व followed
पादपूर्णारणार्थकम् -
स्नेहात् स्नेह / पुं / पं.वि / ए.व

पदविवरणम् :-
स्निह् + घञ् = स्नेह / पुं
due to affection
विनयसम्पन्नः विनयसम्पन्न / पुं / प्र.वि / ए.व

पदविवरणम् :-
वि + नी + अच् = विनय / पुं
सम् + पद् + क्त = सम्पन्न / पुं & नपुं

समासविवरणम् :-
[तृतीयातत्पुरुषसमासः]
विनयेन सम्पन्नः = विनयसम्पन्न / पुं & नपुं
endowed with modesty
सुमित्रानन्दवर्धनः सुमित्रानन्दवर्धन / पुं / प्र.वि / ए.व

पदविवरणम् :-
आङ् + नन्द + घञ् = आनन्द / पुं
वर्ध् + ल्युट् = वर्धन / नपुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
सुमित्रायाः आनन्दः = सुमित्रानन्द / पुं

[षष्ठीतत्पुरुषसमासः]
सुमित्रानन्दस्य वर्धनः = सुमित्रानन्दवर्धन / नपुं
one who enhances the joy of Sumitra

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अनुजगाम)
विशेष्यम् विशेषणम्
प्र.वि लक्ष्मणः प्रियः
भ्राता
विनयसम्पन्नः
सुमित्रानन्दवर्धनः
स.प्र.वि
द्वि.वि तम् व्रजन्तम्
तृ.वि
च.वि
प.वि स्नेहात्
ष.वि
स.वि
अव्ययम्
अन्वयः प्रियः भ्राता विनयसम्पन्नः सुमित्रानन्दवर्धनः लक्ष्मणः स्नेहात् (वनं) व्रजन्तं तम् (रामम्) अनुजगाम ह ।
तात्पर्यम् Lakshmana, the affectionate, the brother, who was endowed with modesty, who enhances the joy of Sumitra, with affection, followed him (Rama), who was leaving (to the forest).
अन्वयरचना अनुजगाम
  • कः अनुजगाम? = लक्ष्मणः अनुजगाम
    • कीदृशः लक्ष्मणः? = प्रियः लक्ष्मणः
    • पुनः कीदृशः लक्ष्मणः? = भ्राता लक्ष्मणः
    • पुनः कीदृशः लक्ष्मणः? = विनयसम्पन्नः लक्ष्मणः
    • पुनः कीदृशः लक्ष्मणः? = सुमित्रानन्दवर्धनः लक्ष्मणः
  • कम् अनुजगाम? = तम् (रामम्) अनुजगाम
    • किं कुर्वन्तं तम्? (वनं) व्रजन्तं तम् (रामम्)
  • कस्मात् अनुजगाम? = स्नेहात् अनुजगाम

Comments