परिचयः - अन्वयक्रमः #06


स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व He
जगाम गम् + लिट् / प्र.पु / ए.व went
वनम् वन / नपुं / द्वि.वि / ए.व to the forest
वीरः वीर / पुं / प्र.वि / ए.व mighty, powerful, strong
प्रतिज्ञाम् प्रतिज्ञा / स्त्री / द्वि.वि / ए.व promise
अनुपालयन् अनुपालयत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
अनु + पल् [चुरादिः = रक्षणे] + शतृँ = अनुपालयत् / पुं
while obeying
पितुः पितृ / पुं / ष.वि / ए.व father's
वचननिर्देशात् वचननिर्देश / पुं / पं.वि / ए.व

समासविवरणम् :-
[कर्मधारयसमासः]
वचनं च तत् निर्देशं च = वचननिर्देश / पुं
(वचनमेव निर्देशः तस्मात्)
due to (father's) word of command
कैकेय्याः कैकेयी / स्त्री / ष.वि / ए.व

पदविवरणम् :-
केकेय + अण् = कैकेय / पुं
कैकेय + ङीप् = कैकेयी / स्त्री
Kaikeyi's (Kaikeyi = the daughter from the place called केकेय)
प्रियकारणात् प्रियकारण / नपुं / पं.वि / ए.व

समासविवरणम् :-
[कर्मधारयसमासः]
प्रियं च तत् कारणं च = प्रियकारण / नपुं
in order to please

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (जगाम) गौणक्रिया 1.1 (अनुपालयन्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि सः वीरः
स.प्र.वि
द्वि.वि वनम् प्रतिज्ञाम्
तृ.वि
च.वि
प.वि वचननिर्देशात्
प्रियकारणात्
ष.वि पितुः
कैकेय्याः
स.वि
अव्ययम्
अन्वयः वीरः सः पितुः वचननिर्देशात् कैकेय्याः प्रियकारणात् (पितुः) प्रतिज्ञाम् अनुपालयन् वनं जगाम ।
तात्पर्यम् The mighty Rama, because of his father's word of command, in order to please Kaikeyi, while obeying/observing (his father's) promise (to Kaikeyi), went to the forest.
अन्वयरचना जगाम
  • कः जगाम? = सः वीरः जगाम
    • किं कुर्वन् जगाम? = अनुपालयन् जगाम
      • काम् अनुपालयन्? = प्रतिज्ञाम् अनुपालयन्
      • कस्मात् अनुपालयन्? = प्रियकारणात् अनुपालयन्
        • कस्याः प्रियकारणात्? = कैकेय्याः प्रियकारणात्
      • पुनः कस्मात् अनुपालयन्? = वचननिर्देशात् अनुपालयन्
        • कस्य वचननिर्देशात्? = पितुः वचननिर्देशात्
  • कुत्र जगाम? = वनं जगाम

Comments