परिचयः - अन्वयक्रमः #05


स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
सः तद् / पुं / प्र.वि / ए.व He
सत्यवचनात् सत्यवचन / पुं / पं.वि / ए.व

समासविवरणम् :-
[कर्मधारयसमासः]
सत्यं च तत् वचनं च = सत्यवचन / नपुं
due to being truthful to his word
राजा राजन् / पुं / प्र.वि / ए.व the king
धर्मपाशेन धर्मपाश / पुं / तृ.वि / ए.व

समासविवरणम् :-
[कर्मधारयसमासः]
धर्मः च असौ पाशः च = धर्मपाश / पुं
by the bond of righteousness
संयतः संयत / पुं / प्र.वि / ए.व

पदविवरणम् :-
सं + यम् + क्त = संयत / पुं & नपुं
restrained
विवासयामास वि + वस् [चुरादिः] + णिच् + लिट् / प्र.पु / ए.व sent (to the forest)
सुतम् सुत / पुं / द्वि.वि / ए.व him, the son
रामम् राम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
him, Rama
दशरथः दशरथ / पुं / प्र.वि / ए.व Dasaratha
प्रियम् प्रिय / पुं / द्वि.वि / ए.व him, the beloved

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (विवासयामास) गौणक्रिया 1.1 (संयतः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि दशरथः सः
राजा
स.प्र.वि
द्वि.वि रामम् प्रियम्
सुतम्
तृ.वि धर्मपाशेन
च.वि
प.वि सत्यवचनात्
ष.वि
स.वि
अव्ययम्
अन्वयः सत्यवचनात् धर्मपाशेन संयतः सः राजा दशरथः प्रियं सुतं रामं विवासयामास ।
तात्पर्यम् He, the king Dasaratha, true to his word and restrained by the bond of righteousness, sent his beloved son Rama to the forest.
अन्वयरचना विवासयामास
  • कः विवासयामास? = सः दशरथः विवासयामास
    • कीदृशः दशरथः? = राजा दशरथः
    • पुनः कीदृशः दशरथः? = संयतः दशरथः
      • केन संयतः? = धर्मपाशेन संयतः
      • कस्मात् संयतः? = सत्यवचनात् संयतः
  • कं विवासयामास? = रामं विवासयामास
    • कीदृशं रामम्? = सुतं रामम्
    • पुनः कीदृशं रामम्? = प्रियं रामम्

Comments