परिचयः - अन्वयक्रमः #04


तस्याभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकेयी ।
पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्याभिषेचनम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तस्य तद् / पुं / ष.वि / ए.व his (Rama's)
अभिषेकसम्भारान् अभिषेक + संभार = अभिषेकसंभार / पुं / द्वि.वि / ब.व

पदविवरणम् :-
अभि + सिच् + घञ् = अभिषेक / पुं
सम् + भृ + घञ् = संभार / पुं

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
अभिषेकस्य संभार = अभिषेकसंभार / पुं
coronation ceremony preparations
दृष्ट्वा दृश् + क्त्वा = दृष्ट्वा / अव्ययम् having seen
भार्या भार्या / स्त्री / प्र.वि / ए.व wife
अथ अव्ययम् then
कैकेयी कैकेयी / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
केकेय + अण् = कैकेय / पुं
कैकेय + ङीप् = कैकेयी / स्त्री
Kaikeyi (the daughter from the place called केकेय)
पूर्वम् पूर्व / नपुं / द्वि.वि / ए.व earlier
दत्तवरा दत्तवरा / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
दा + क्त = दत्त / पुं & नपुं

समासविवरणम् :-
[बहुव्रीहिसमासः]
दत्तौ वरौ यस्यै सा दत्तवरा ।
the boon that has been granted
देवी देवी / स्त्री / प्र.वि / ए.व queen
वरम् वर / नपुं / द्वि.वि / ए.व boon
एनम् एतद् / पुं / द्वि.वि / ए.व
इदम् / पुं / द्वि.वि / ए.व

एतद् / पुं ए.व द्वि.व ब.व
प्र.वि एषः एतौ एते
द्वि.वि एनम्/एतम् एनौ/एतौ एनान्/एतान्
तृ.वि एनेन/एतेन एताभ्याम् एतैः
च.वि एतस्मै एताभ्याम् एतेभ्यः
प.वि एतस्मात्/एतस्माद् एताभ्याम् एतेभ्यः
ष.वि एतस्य एनयोः/एतयोः एतेषाम्
स.वि एतस्मिन् एनयोः/एतयोः एतेषु

इदम् / पुं ए.व द्वि.व ब.व
प्र.वि अयम् इमौ इमे
द्वि.वि एनम्/इमम् एनौ/इमौ एनान्/इमान्
तृ.वि एनेन/अनेन आभ्याम् एभिः
च.वि अस्मै आभ्याम् एभ्यः
प.वि अस्मात्/अस्माद् आभ्याम् एभ्यः
ष.वि अस्य एनयोः/अनयोः एषाम्
स.वि अस्मिन् एनयोः/अनयोः एषु

him (Dasharatha)
अयाचत याच् + कर्तरि लँङ् / प्र.पु / ए.व

द्विकर्मकः धातुः
  1. वरम्
  2. एनम्
begged
विवासनम् विवासन / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
वि + वस् + णिच् + ल्युट् = विवासन / नपुं
exile
अव्ययम् and
रामस्य राम / पुं / ष.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
Rama's
भरतस्य भरत / पुं / ष.वि / ए.व Bharatha's
अभिषेचनम् अभिषेचन / नपुं / द्वि.वि / ए.व

पदविवरणम् :-
सिच् + ल्युट् = सेचन / नपुं
अभि + सिच् + ल्युट् = अभिषेचन / नपुं
coronation

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अयाचत) गौणक्रिया 1.1 (दृष्ट्वा) प्रधानक्रिया 2.0 (कुरु)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि कैकेयी दत्तवरा
भार्या
देवी
(कैकेयी) (भवान्)
स.प्र.वि
द्वि.वि वरम्
एनम्
पूर्वम् अभिषेकसम्भारान् विवासनम्
अभिषेचनम्
तृ.वि
च.वि
प.वि
ष.वि तस्य (रामस्य) रामस्य
भरतस्य
स.वि
अव्ययम् अथ
अन्वयः अथ पूर्वं दत्तवरा भार्या देवी कैकेयी तस्य (रामस्य) अभिषेकसम्भारान् दृष्ट्वा "रामस्य विवासनं च भरतस्य अभिषेचनं" (इति) वरम् एनम् (or एतम् or दशरथम्) अयाचत ।
तात्पर्यम् Then, having seen the preparations for Rama's coronation, queen Kaikeyi, the wife (of Dasharatha), who had earlier been granted with two boons (by Dasaratha), begged of him (the boons), the exile of Rama and coronation of Bharata.
अन्वयरचना अयाचत
  • का अयाचत? = कैकेयी अयाचत
    • कीदृशी कैकेयी? = भार्या कैकेयी
    • पुनः कीदृशी कैकेयी? = देवी कैकेयी
    • पुनः कीदृशी कैकेयी? = पूर्वं दत्तवरा कैकेयी
  • कम् अयाचत? = एनम् अयाचत
  • पुनः कम् अयाचत? = वरम् अयाचत
    • किम् इति वरम्? = "रामस्य विवासनं च भरतस्य अभिषेचनं" इति वरम्
  • किं कृत्वा अयाचत? = दृष्ट्वा अयाचत
    • कान् दृष्ट्वा? = अभिषेकसम्भारान् दृष्ट्वा
      • कस्य अभिषेकसम्भारान्? = रामस्य अभिषेकसम्भारान्

Comments

Post a Comment