परिचयः - अन्वयक्रमः #03


तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
तम् तद् / पुं / द्वि.वि / ए.व him
एवंगुणसम्पन्नम् एवंगुणसम्पन्न / पुं / द्वि.वि / ए.व

पदविवरणम् :-
गुण / पुं
सम् + पद् + क्त = सम्पन्न / पुं & नपुं

समासविवरणम् :-
[कर्मधारयसमासः]
एवं ये गुणाः = एवंगुण / पुं

[तृतीयातत्पुरुषसमासः]
एवंगुणैः सम्पन्नः = एवंगुणसंपन्न / पुं & नपुं
him, who was possessing all such good qualities (as mentioned before)
रामम् राम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रम् + घञ् = राम / पुं
him, Rama (one who delights)
सत्यपराक्रमम् सत्यपराक्रम / पुं / द्वि.वि / ए.व

समासविवरणम् :-
[बहुव्रीहिसमासः]
सत्यं पराक्रमः यस्य सः सत्यपराक्रमः
him, who had true prowess
यौवराज्येन यौवराज्य / पुं / तृ.वि / ए.व

पदविवरणम् :-
युवराजा + भावे ष्यञ् = यौवराज्य / नपुं

समासविवरणम् :-
[कर्मधारयसमासः]
युवा च सः राजा च = युवन् + राजा = युवराजा / पुं
heir apparent
संयोक्तुम् संयोक्तुम् / अव्ययम्

पदविवरणम् :-
सम् + युज् [युजिँर् योगे] + तुमुँन् = संयोक्तुम् / अव्ययम्
to install
ऐच्छत् इष् + कर्तरि लँङ् / प्र.पु / ए.व wished
प्रीत्या प्रीति / स्त्री / तृ.वि / ए.व

पदविवरणम् :-
प्री + क्तिन् = प्रीति / स्त्री
with affection
महीपति: मही + पति = महीपति / पुं / प्र.वि / ए.व lord of earth, Dasaratha

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (ऐच्छत्) गौणक्रिया 1.1 (संयोक्तुम्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि महीपति:
स.प्र.वि
द्वि.वि रामम् तम्
एवंगुणसम्पन्नम्
सत्यपराक्रमम्
तृ.वि प्रीत्या यौवराज्येन
च.वि
प.वि
ष.वि
स.वि
अव्ययम्
अन्वयः एवंगुणसम्पन्नं सत्यपराक्रमं तं रामं यौवराज्येन संयोक्तुं महीपति: प्रीत्या ऐच्छत् ।
तात्पर्यम् The lord of the earth, Dasaratha, wished with affection, to install him, Rama, who was possessing all such good qualities, who had true prowess, as the hier apparent.
अन्वयरचना ऐच्छत्
  • कः ऐच्छत्? = महीपतिः ऐच्छत्
  • कथम् ऐच्छत्? = प्रीत्या ऐच्छत्
  • किं कर्तुम् ऐच्छत्? = संयोक्तुम् ऐच्छत्
    • कं संयोक्तुम्? = रामं संयोक्तुम्
      • कीदृशं रामम्? = तं रामम्
      • पुनः कीदृशं रामम्? = एवंगुणसम्पन्नं रामम्
      • पुनः कीदृशं रामम्? = सत्यपराक्रमं रामम्
    • केन संयोक्तुम्? = यौवराज्येन संयोक्तुम्

Comments