परिचयः - अन्वयक्रमः #02


इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
इक्ष्वाकुवंशप्रभवः इक्ष्वाकुवंशप्रभव / पुं / प्र.वि / ए.व One who is born in the race of king Ikshvaaku
रामः रम् + घञ् / पुं / प्र.वि / ए.व Rama (one who delights)
नाम नामन् / नपुं / प्र.वि / ए.व the name
जनैः जन / पुं / तृ.वि / ब.व by the people
श्रुतः श्रु + क्त / पुं / प्र.वि / ए.व heard
नियतात्मा नियत + आत्मन् / पुं / प्र.वि / ए.व

पदविवरणम् :-
नि + यम् + क्त = नियत / पुं & नपुं
one who has a steady, restrained nature
महावीर्यः महावीर्य / पुं / प्र.वि / ए.व

पदविवरणम् :-
महत् / पुं
(= great, incomprehensible)
वीर्य / पुं
(= prowess)

समासविवरणम् :-
[बहुव्रीहिसमासः]
महत् वीर्यं यस्य, सः महावीर्यः
one who has great, incomprehensible prowess

बहुव्रीहिसमासे कर्मधारयसमासे च लिङ्गत्रये अपि महत्-शब्दस्य आत्वम् भवति ।
  • महत् भारतम् = महाभारतम्
  • महत् काव्यम् = महाकाव्यम्
  • महान् कविः = महाकविः
  • महान्तः जनाः = महाजनाः
  • महती देवी = महादेवी
  • महती सेवा = महासेवा

More info
द्युतिमान् द्युतिमत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
द्युत् + क्तिन् = द्युति / स्त्री
द्युति + मतुँप् = द्युतिमत् / पुं
one who possessed radiance, self-effulgence
धृतिमान् धृतिमत् / पुं / प्र.वि / ए.व

पदविवरणम् :-
धृ + क्तिन् = धृति / स्त्री
धृति + मतुँप् = धृतिमत् / पुं
one who possessed courage, self-commanding
वशी वशिन् / पुं / प्र.वि / ए.व one who has subjected his senses (subjecting the entire world under his control)

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (अभूयत) गौणक्रिया 1.1 (श्रुतः)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि नाम श्रुतः रामः इक्ष्वाकुवंशप्रभवः
नियतात्मा
महावीर्यः
द्युतिमान्
धृतिमान्
वशी
स.प्र.वि
द्वि.वि
तृ.वि जनैः
च.वि
प.वि
ष.वि
स.वि
अव्ययम् (इति)
अन्वयः जनैः इक्ष्वाकुवंशप्रभवः नियतात्मा महावीर्यः द्युतिमान् धृतिमान् वशी रामः (इति) नाम श्रुतः (अभूयत) ।
तात्पर्यम् People have heard his name as Rama, who was born in the race of king Ikshvaku, having steady, restrained nature, possessing incomprehensible prowess, self-effulgence, self-commanding and subjecting senses under his control.
अन्वयरचना (अभूयत)
  • किं कृतः अभूयत? = श्रुतः अभूयत
    • किं श्रुतः अभूयत? = नाम श्रुतः अभूयत
      • कः नाम श्रुतः? = रामः नाम श्रुतः
        • कीदृशः रामः? = इक्ष्वाकुवंशप्रभवः रामः
        • पुनः कीदृशः रामः? = नियतात्मा रामः
        • पुनः कीदृशः रामः? = महावीर्यः रामः
        • पुनः कीदृशः रामः? = द्युतिमान् रामः
        • पुनः कीदृशः रामः? = धृतिमान् रामः
        • पुनः कीदृशः रामः? = वशी रामः
    • कैः श्रुतः अभूयत? = जनैः श्रुतः अभूयत

Comments