परिचयः - अन्वयक्रमः #01


कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
कूजन्तम् कूज् + शतृँ = कूजत् / पुं / द्वि.वि / ए.व that which is cooing
"राम राम" रम् + घञ् = राम / पुं / सं.प्र.वि / ए.व Rāma Rāma!
इति अव्ययम् thus
मधुरम् मधुर / नपुं / द्वि.वि / ए.व sweet
मधुराक्षरम् मधुर + अक्षरम् / नपुं / प्र.वि / ए.व sweet syllable
आरुह्य आङ् + रुह् + ल्यप् / अव्ययम् having climbed
कविताशाखाम् कविता + शाखा = कविताशाखा / स्त्री / द्वि.वि / ए.व the branch of poetry
वन्दे वन्द् + कर्तरि लँट् / उ.पु / ए.व I pray, I salute
वाल्मीकिकोकिलम् वाल्मीकि + कोकिल = वाल्मीकिकोकिल / पुं / द्वि.वि / ए.व the cuckoo which is the sage Vālmīki himself

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया 1.0 (वन्दे) गौणक्रिया 1.1 (आरुह्य) गौणक्रिया 1.2 (कूजन्तम्)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि (अहम्) मधुराक्षरम्
स.प्र.वि "राम राम"
द्वि.वि वाल्मीकिकोकिलम् कूजन्तम् कविताशाखाम् मधुरम्
तृ.वि
च.वि
प.वि
ष.वि
स.वि
अव्ययम् इति
अन्वयः (अहं) कविताशाखाम् आरुह्य "राम राम" इति मधुराक्षरं मधुरं कूजन्तं वाल्मीकिकोकिलं वन्दे ।
तात्पर्यम् I salute the cuckoo, that is verily the sage Vālmīki himself, which having climbled the branch of poetry, and sweetly coos the sweet syllables "Rāma Rāma".
अन्वयरचना वन्दे
  • कः वन्दे? = (अहं) वन्दे
  • कं वन्दे? = वाल्मीकिकोकिलं वन्दे
    • कं कुर्वन्तं वाल्मीकिकोकिलम्? = कूजन्तं वाल्मीकिकोकिलम्
      • किम् इति कूजन्तम्? = "राम राम" इति कूजन्तम्
        • "राम राम" कीदृशं? = "राम राम" मधुराक्षरम्
      • कीदृशं कूजन्तम्? = मधुरं कूजन्तम्
      • किं कृत्वा कूजन्तम्? = आरुह्य कूजन्तम्
        • काम् आरुह्य कूजन्तम्? = कविताशाखाम् आरुह्य कूजन्तम्

Comments