भगवद्गीता ॥०१.२४, २५॥


सञ्जय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
एवम् अव्ययम् in this manner
उक्तः ब्रू + क्त / पुं / प्र.वि / ए.व
वच् + क्त / पुं / प्र.वि / ए.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)

पदविवरणम् :-
ब्रू + क्त = उक्त / त्रि (-तः-ता-तं)
वच् + क्त = उक्त / त्रि (-तः-ता-तं)
(= told, spoken, addressed)
having been addressed
हृषीकेशः हृषीकेश / पुं / प्र.वि / ए.व

पदविवरणम् :-
हृषीक / नपुं
(= an organ of sense)
ईश / पुं
(= the lord, ruler, master)

समासविवरणम् :-
[बहुव्रीहिसमासः]
हृषीकाणाम् (इन्द्रियाणाम्) ईशः यस्य सः = हृषीकेशः
(= one who is the Lord of the sense organs)
to Hṛṣīkeśa, Lord Kṛṣṇa, one who is the Lord of the sense organs
गुडाकेशेन गुडाकेश / पुं / तृ.वि / ए.व

पदविवरणम् :-
गुडाका / स्त्री (= निद्रा)
(= sleep)
ईश / पुं
(= the lord, ruler, master)

समासविवरणम् :-
[बहुव्रीहिसमासः]
गुडाकायाः (निद्रायाः) ईशः यस्य सः = गुडाकेशः
(= one who has conquered sleep)
by Arjuna, one who has conquered sleep
भारत भारत / पुं / स.प्र.वि / ए.व

पदविवरणम् :-
भरत + अपत्यार्थे अण् = भारत / पुं
(= भरतस्य गोत्रापत्यं पुमान् ; the son of Bharata)
O! descendant of Bharata (Dhṛtarāṣṭra)
सेनयोः सेना / स्त्री / ष.वि / द्वि.व of the two armies
उभयोः उभा / स्त्री / ष.वि / द्वि.व

सर्वनामपदम्
उभा / स्त्री ए.व द्वि.व ब.व
प्र.वि उभे
सं.प्र.वि उभे
द्वि.वि उभे
तृ.वि उभाभ्याम्
च.वि उभाभ्याम्
प.वि उभाभ्याम्
ष.वि उभयोः
स.वि उभयोः

of the both
मध्ये मध्य / नपुं / स.वि / ए.व in the middle
स्थापयित्वा स्थापयित्वा / अव्ययम्

धातुविवरणम् :-
स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
स्था + णिच् + क्त्वा = स्थापयित्वा / अव्ययम्
(= having established, stayed)
having established
रथोत्तमम् रथोत्तम / पुं / द्वि.वि / ए.व

पदविवरणम् :-
रथ / पुं
(= chariot)
उत्तम / त्रि (-मः-मा-मं)
(= best, chief, principal)

समासविवरणम् :-
[कर्मधारयसमासः]
रथः च असौ उत्तमः च, तम् = रथोत्तमम्
(= the best chariot)

[सप्तमीतत्पुरुषसमासः]
रथेषु उत्तमम्, तम् = रथोत्तमम्
(= the best among the chariots)
the best chariot (or) the best among the chariots
भीष्मद्रोणप्रमुखतः भीष्मद्रोणप्रमुखतः / अव्ययम्

पदविवरणम् :-
भीष्म / पुं
(= Bhīṣma)
द्रोण / पुं
(= Droṇa)
प्रमुख / त्रि (-खः-खा-खं)
(= facing)
भीष्मद्रोणप्रमुख + तस् = भीष्मद्रोणप्रमुखतः / अव्ययम्
(= in front of, opposite to Bhīṣma and Droṇa)

समासविवरणम् :-
[इतरेतर-द्वन्द्वसमासः]
भीष्मः च द्रोणः च = भीष्मद्रोणौ
(= Bhīṣma and Droṇa)

[षष्ठीतत्पुरुषसमासः]
भीष्मद्रोणयोः प्रमुखः = भीष्मद्रोणप्रमुखः
(= facing Bhīṣma and Droṇa)
in front of Bhīṣma and Droṇa
सर्वेषाम् सर्व / पुं / ष.वि / ब.व of all
अव्ययम् and
महीक्षिताम् महीक्षित् / पुं / ष.वि / ब.व

धातुविवरणम् :-
मह् [महँ पूजायाम् ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to worship, to revere)
क्षि [क्षि निवासगत्योः ; तुदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to dwell, to stay, to go)

पदविवरणम् :-
मह् + अच् = मह / पुं
मह + ङीप् = मही / स्त्री
(= the earth)
क्षि + क्विप् = क्षित् / त्रि
(= inhabitant, ruler)

समासविवरणम् :-
[षष्ठीतत्पुरुषसमासः]
महीयाः क्षितः, तेषाम् = महीक्षिताम्
(= ruler of the earth)

महीक्षित् / पुं ए.व द्वि.व ब.व
प्र.वि महीक्षित् / महीक्षिद् महीक्षितौ महीक्षितः
सं.प्र.वि महीक्षित् / महीक्षिद् महीक्षितौ महीक्षितः
द्वि.वि महीक्षितम् महीक्षितौ महीक्षितः
तृ.वि महीक्षिता महीक्षिद्भ्याम् महीक्षिद्भिः
च.वि महीक्षिते महीक्षिद्भ्याम् महीक्षिद्भ्यः
प.वि महीक्षितः महीक्षिद्भ्याम् महीक्षिद्भ्यः
ष.वि महीक्षितः महीक्षितोः महीक्षिताम्
स.वि महीक्षिति महीक्षितोः महीक्षित्सु

the rulers of the earth
उवाच ब्रू + लिँट् / प्र.पु / ए.व
वच् + लिँट् / प्र.पु / ए.व

धातुविवरणम् :-
ब्रू [ब्रूञ् व्यक्तायां वाचि ; अदादिः ; उभयपदी ; द्विकर्मकः ; सेट्]
(to speak, to tell, to explain)
वच् [वचँ परिभाषणे ; अदादिः ; परस्मैपदी ; द्विकर्मकः ; अनिट्]
(to speak, to tell, to talk)
spoke
पार्थ पार्थ / पुं / सं.प्र.वि / ए.व

पदविवरणम् :-
पृथा + अपत्यार्थे अण् = पार्थ / पुं
(= पृथायाः अपत्यं पुमान् ; the son of Pṛthā / Kuntī)
O! son of Pṛthā / Kuntī (here Arjuna)
पश्य दृश् + लोँट् / प्र.पु / ए.व

धातुविवरणम् :-
दृश् [दृशिँर् प्रेक्षणे ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to see, to look)
see
एतान् एतद् / पुं / द्वि.वि / ब.व those
समवेतान् समवेत / पुं / द्वि.वि / ब.व

धातुविवरणम् :-
[इण् गतौ ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
सम् + अव + इ + क्त = समवेत / त्रि (-तः-ता-तं)
(= assembled)
those, who have assembled
कुरून् कुरु / पुं / द्वि.वि / ब.व members of the Kuru dynasty
इति अव्ययम् thus

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया #1.0 (उवाच) गौणक्रिया #1.1 (उक्तः) गौणक्रिया #1.2 (स्थापयित्वा) प्रधानक्रिया #2.0 (पश्य)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि हृषीकेशः (हृषीकेशः)
स.प्र.वि (हे) भारत (हे) पार्थ
द्वि.वि रथोत्तमम् कुरून् एतान्
समवेतान्
तृ.वि गुडाकेशेन
च.वि
प.वि
ष.वि महीक्षिताम्
सेनयोः
उभयोः
सर्वेषाम्
स.वि मध्ये
अव्ययम् इति एवम्
भीष्मद्रोणप्रमुखतः
अन्वयः गुडाकेशेन एवं उक्तः (पश्चात्), (हे) भारत!, सेनयोः उभयोः मध्ये सर्वेषां महीक्षितां भीष्मद्रोणप्रमुखतः च रथोत्तमं स्थापयित्वा "(हे) पार्थ! एतान् समवेतान् कुरून् पश्य" इति हृषीकेशः उवाच ।
तात्पर्यम् (After being) addressed by Arjuna in this manner, O! descendent of Bharata (Dhṛtarāṣṭra), having established the best chariot in the midst of the armies of both sides, and in front of all the rulers of the earth, Bhīṣma and Droṇa, Krishna spoke thus "O! son of Pṛthā (Arjuna), look at the members of the Kuru dynasty, who have assembled here".
अन्वयरचना उवाच
  • कः उवाच? = हृषीकेशः उवाच
  • कथम् उवाच? = इति उवाच
  • कः पश्चात् उवाच? = उक्तः पश्चात् उवाच
    • केन उक्तः? = गुडाकेशेन उक्तः
    • कीदृशम् उक्तः? = एवम् उक्तः
  • किं कृत्वा उवाच? = स्थापयित्वा उवाच
    • किं स्थापयित्वा? = रथोत्तमं स्थापयित्वा
    • कुत्र स्थापयित्वा? = मध्ये स्थापयित्वा
      • कयोः मध्ये? = उभयोः मध्ये
      • कयोः उभयोः? = सेनयोः उभयोः
    • पुनः कुत्र स्थापयित्वा? = प्रमुखतः स्थापयित्वा
      • कस्य प्रमुखतः? = भीष्मद्रोणप्रमुखतः
      • पुनः केषां प्रमुखतः? = महीक्षितां प्रमुखतः
        • केषां महीक्षिताम्? = सर्वेषां महीक्षिताम्
पश्य
  • कः पश्य? = पार्थ! पश्य
  • कान् पश्य? = कुरून् पश्य
    • कीदृशान् कुरून्? = एतान् कुरून्
    • पुनः कीदृशान् कुरून्? = समवेतान् कुरून्

Comments