भगवद्गीता ॥०१.२३॥


योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥



Go Top
पदविभागः विवर्णम् प्रतिपदार्थम्
योत्स्यमानान् योत्स्यमान / पुं / द्वि.वि / ब.व

धातुविवरणम् :-
युध् [युधँ सम्प्रहारे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to fight)

पदविवरणम् :-
युध् + कर्तरि लृँट् = योत्स्य
(= will fight)
योत्स्य + शानच् = योत्स्यमान / त्रि (-नः-ना-नं)
(= those who will be fighting)
யுத்தம் செய்யப்போகின்ற
those who will be fighting
अवेक्षे अव + ईक्ष् + कर्तरि लँट् / उ.पु / ए.व

धातुविवरणम् :-
ईक्ष् [ईक्षँ दर्शने ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; सेट्]
(to see, to perceive)
see
अहम् अस्मद् / त्रि / प्र.वि / ए.व I
ये यद् / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
ये + एते
= य् + ए + एते
= य् + अय् + एते (यान्तवान्तादेशदेशसन्धिः)
= य् + अ + एते (प्रकृतिभाव-यकारवकारलोपसन्धिः)
= य + एते
who
एते एतद् / पुं / प्र.वि / ब.व those
अत्र अव्ययम् here
समागताः समागत / पुं / ष.वि / ब.व

धातुविवरणम् :-
गम् [गमॢँ गतौ ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go)

पदविवरणम् :-
सम् + आङ् + गम् + क्त = समागत / त्रि (-तः-ता-तं)
(= assembled)
assembled
धार्तराष्ट्रस्य धार्तराष्ट्र / पुं / ष.वि / ए.व

पदविवरणम् :-
धृतराष्ट्र + अपत्यार्थे अण् = धार्तराष्ट्र / पुं (-ष्ट्रः)
(= धृतराष्ट्रस्य अपत्यं पुमान् ; the son of Dhṛtarāṣṭra)
of the son of Dhṛtarāṣṭra
दुर्बुद्धेः दुर्बुद्धि / स्त्री / ष.वि / ए.व

धातुविवरणम् :-
बुध् [बुधँ अवगमने ; भ्वादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to know, to understand, to be awakened with knowledge,
to be restored to senses, to think, to learn)


पदविवरणम् :-
दुर् + बुध् + क्तिन् = दुर्बुद्धि / स्त्री (-द्धिः)
(= evil-minded)
of the evil-minded
युद्धे युद्ध / पुं / स.वि / ए.व

धातुविवरणम् :-
युध् [युधँ सम्प्रहारे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to fight)

पदविवरणम् :-
युध् + क्त = युद्ध / त्रि (-द्धः-द्धा-द्धं)
(= war, battle)
in the fight
प्रियचिकीर्षवः प्रियचिकीर्षु / पुं / प्र.वि / ब.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
कृ + सन् = चिकीर्ष + उ = चिकीर्षु / पुं (-र्षुः)
(= one who wishes to please)

समासविवरणम् :-
[द्वितीया-तत्-पुरुष-समासः]
प्रियं चिकीर्षुः इति प्रियचिकीर्षुः, ते = प्रियचिकीर्षवः
(= they, who wish to please)
they, who wish to please (here, to please Duryodhana by fighting for him)

Go Top
विवरणानि क्रियापदानि
प्रधानक्रिया #1 (सन्ति) प्रधानक्रिया #2 (अवेक्षे)
विशेष्यम् विशेषणम् विशेष्यम् विशेषणम्
प्र.वि एते
ये
समागताः
प्रियचिकीर्षवः
अहम्
स.प्र.वि
द्वि.वि (तान्) योत्स्यमानान्
तृ.वि
च.वि
प.वि
ष.वि धार्तराष्ट्रस्य दुर्बुद्धेः
स.वि युद्धे
अव्ययम् अत्र
अन्वयः 1) अत्र युद्धे दुर्बुद्धेः धार्तराष्ट्रस्य प्रियचिकीर्षवः ये (सन्ति), एते समागताः (सन्ति) । योत्स्यमानान् (तान्) अहं अवेक्षे ।
2) अत्र युद्धे ये समागताः (सन्ति), एते दुर्बुद्धेः धार्तराष्ट्रस्य प्रियचिकीर्षवः (सन्ति) । योत्स्यमानान् (तान्) अहं अवेक्षे ।
तात्पर्यम् Assembled here are those wishing to please the evil-minded son of Dhṛtarāṣṭra, desirous to fight. I see those who will be fighting.
अन्वयरचना (सन्ति)
  • के सन्ति? = एते सन्ति
    • कीदृशाः एते? = प्रियचिकीर्षवः एते
      • कस्य प्रियचिकीर्षवः? = धार्तराष्ट्रस्य प्रियचिकीर्षवः
        • कीदृशस्य धार्तराष्ट्रस्य? = दुर्बुद्धेः धार्तराष्ट्रस्य
    • पुनः कीदृशाः एते? = समागताः एते
      • कुत्र समागताः? = युद्धे समागताः
      • पुनः कुत्र समागताः? = अत्र समागताः
अवेक्षे
  • कः अवेक्षे? = अहम् अवेक्षे
  • कान् अवेक्षे? = (तान्) अवेक्षे
    • किं करिष्यमाणान् (तान्)? = योत्स्यमानान् (तान्)

Comments