कोविदः - सुभाषितम् #05


सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥



Go Top
पदविभागः पदविवरणम् प्रतिपदार्थम्
सुजनः
= सत्पुरुषः
सुजन / पुं / प्र.वि / ए.व

धातुविवरणम् :-
जन् [जनीँ प्रादुर्भावे ; दिवादिः ; आत्मनेपदी ; अकर्मकः ; सेट्]
(to be born, to become, to come to existence)

पदविवरणम् :-
जन् + अच् = जन / पुं
(= people)

समासविवरणम् :-
[प्रादि-समासः]
शोभनः जनः इति सुजनः ।
(= good people)
good people
न याति
= न प्राप्नोति
न / अव्ययम्
या + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
या [या प्रापणे ; अदादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to pass)
does not undergo
विकृतिम्
= विकारम्
विकृति / स्त्री / द्वि.वि / ए.व

धातुविवरणम् :-
कृ [डुकृञ् करणे ; तनादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to do, to act, to make)

पदविवरणम् :-
वि + कृ + क्तिन् = विकृति / स्त्री
(= change)

समासविवरणम् :-
[प्रादि-समासः]
विगता कृतेः, ताम् इति विकृतिम् ।
(= deviate from the work)
object of change
परहितनिरतः
= परोपकारे निमग्नः
परहितनिरत / पुं / प्र.वि / ए.व

धातुविवरणम् :-
हि [हि गतौ वृद्धौ च ; स्वादिः ; परस्मैपदी ; सकर्मकः ; अनिट्]
(to go, to grow)
रम् [रमँ क्रीडायाम् ; भ्वादिः ; आत्मनेपदी ; अकर्मकः ; अनिट्]
(to enjoy, to rejoice, to play)

पदविवरणम् :-
पर / पुं
(= others)
हि + क्त = हित / त्रि (-तः-ता-तं)
(= welfare, benefit)
नि + रम् + क्त = निरत / त्रि (-तः-ता-तं)
(= engaged or interested in, attached or devoted to)

समासविवरणम् :-
[चतुर्थी-तत्पुरुष-समासः]
परेभ्यः हितम् इति परहितम् ।
(= welfare of others)

[उपपद-समासः]
नितान्तं रतः इति निरतः ।
(= always engaged in)

[सप्तमी-तत्पुरुष-समासः]
परहिते निरतः इति परहितनिरतः ।
(= always engaged in the welfare of others)
always devoted to the welfare of others
विनाशकाले
= नाशस्य समये
विनाशकाल / पुं / स.वि / ए.व

धातुविवरणम् :-
नश् [णशँ अदर्शने ; दिवादिः ; परस्मैपदी ; अकर्मकः ; वेट्]
(to disappear, to perish, to get destroyed, to be invisible)

पदविवरणम् :-
वि + नश् + घञ् = विनाश / पुं
(= destruction, loss, annihilation, ruin, decay)
काल / पुं
(= time)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
विनाशस्य कालः, तस्मिन् इति विनाशकाले ।
(= at the time of destruction)
at the time of destruction
अपि अपि / अव्ययम् also
छेदे
= छेदनसमये
छेद / पुं / स.वि / ए.व

धातुविवरणम् :-
छिद् [छिदिँर् द्वैधीकरणे ; रुधादिः ; उभयपदी ; सकर्मकः ; अनिट्]
(to cut, to grind, to truncate, to incise)

पदविवरणम् :-
छिद् + भावे घञ् = छेद / पुं
(= cut, divide)
when being cut or being divided
अपि अपि / अव्ययम् also
चन्दनतरुः
= चन्दनवृक्षः
चन्दनतरु / पुं / प्र.वि / ए.व

पदविवरणम् :-
चन्दन / पुं & नपुं
(= sandalwood)
तरु / पुं
(= tree)

समासविवरणम् :-
[षष्ठी-तत्पुरुष-समासः]
चन्दनस्य तरुः = चन्दनतरुः
(= sandalwood tree)
sandalwood tree
सुरभयति
= सुगन्धयुक्तं करोति
सुरभि (णिजन्तधातुः) + कर्तरि लँट् / प्र.पु / ए.व

धातुविवरणम् :-
रभ् [रभँ राभस्ये ; भ्वादिः ; आत्मनेपदी ; सकर्मकः ; अनिट्]
(to be happy, to be glad)

पदविवरणम् :-
सु + रभ् + इन् (कृत्) = सुरभि / पुं
(= fragrance)
सुरभि (प्रातिपदिकम्) + णिच् (सनादिप्रत्ययः) = सुरभि (णिजन्तधातुः)
(= सुरभि करोति इति सुरभयति ।)
makes fragrant
मुखम्
= अग्रभागम्
मुख / नपुं / द्वि.वि / ए.व face (blade)
कुठारस्य
= परशोः
कुठार / पुं / ष.वि / ए.व of the axe

Go Top
विशयः विवरणम्
अन्वयः विनाशकाले अपि परहितनिरतः सुजनः विकृतिं न याति (यथा) छेदे अपि चन्दनतरुः कुठारस्य मुखं सुरभयति ।
तात्पर्यम् TBD
Purport Even when destruction comes, the good people, who are devoted to the welfare of others, do not undergo change; just as when the sandalwood tree is cut, it still makes the face (blade) of the axe fragrant.

Comments