चम्पूकाराः ।



(०५) पञ्चमः पाठः - चम्पूकाराः ।



पदविच्छेदम्
Go Top
॥ भोजदेवः ॥
भोजदेवेन "चम्पूरामायणं" नाम सुप्रसिद्धं चम्पूकाव्यं लिखितम् ।

पदविच्छेदम्

Bhojadeva has written a renowned epic called "Champūrāmāyaṇaṃ".
एषः मालवाधिपतिः । (विदर्भदेशस्य राजा इति केचन वदन्ति ।)

पदविच्छेदम्

He is the ruler of Mālava, although some say he is the king of Vidarbha.
धारानगरं मालवदेशस्य राजधानी ।

पदविच्छेदम्

Dhārānagaraṃ is the capital city of Mālava.
ऐतिहासिकप्रमाणैः ज्ञायते यत् भोजदेवः एकादशे शतके क्रिस्तशक नवदशाधिकसहस्रतमवर्षतः त्रिषष्ट्यधिकसहस्रतमवर्षपर्यन्तम् (क्रि.श. १०१९-१०६३) आसीत्‌ इति ।

पदविच्छेदम्

By historical evidence we know that Bhojadeva lived in the 11th century (1019-1063 AD).
भोजः स्वयं कविः आसीत्‌, बहूनां पण्डितानाम्‌ आश्रयदाता अपि आसीत्‌ ।

पदविच्छेदम्

Bhoja himself was a poet and was also a patron of many scholars.
एतेन सरस्वतीकण्ठाभरणम्‌, शृङ्गारप्रकाशः, शब्दानुशासनम्‌ इत्यादयः अपि रचिताः सन्ति ।

पदविच्छेदम्

Works such as Sarasvatī-kaṇṭha-ābharaṇam, Śṛṅgāra-prakāśaḥ, Śabda-anuśāsanam and others were also authored by him.
चम्पूरामायणे बालकाण्डतः युधकाण्डपर्यन्ता कथा पञ्चसु काण्डेषु निरूपिता अस्ति ।

पदविच्छेदम्

In Champūrāmāyaṇaṃ, the stories from the Bālakāṇḍa to the Yudhakāṇḍa, are narrated in five chapters.
रामायणस्य एव कथा अस्ति अस्मिन् ग्रन्थे ।
Only the story of Rāmāyaṇaṃ is contained in this book.
ललितमनोहरशैली, कोमलः पदविन्यासः, सुन्दराः अलङ्काराः, हृदयहारि भावाविष्करणम्‌ इत्यादीनि एतस्य ग्रन्थस्य वैशिष्ट्यानि ।

पदविच्छेदम्

Elegant and captivating style, graceful arrangement of words, beautiful figures of speech and the revelation of heartfelt emotions are the specialties of this book.
चम्पूरामायणस्य बहूनि व्याख्यानानि उपलभ्यन्ते ।

पदविच्छेदम्

Numerous commentaries of Champūrāmāyaṇaṃ are available.


पदविच्छेदम्
Go Top
॥ अनन्तभट्टः ॥
एषः "चम्पूभारतम्‌" इति ग्रन्थं रचितवान्‌ ।

पदविच्छेदम्

He wrote a book called "Champūbhārataṃ".
ग्रन्थस्य नाम एव कथयति यत्‌ एषः ग्रन्थः महाभारतस्य कथायाः आधारेण रचितः इति ।

पदविच्छेदम्

The name of the book itself states that this book a composition based on the story of the Mahābhārataṃ.
अत्र १२ (द्वादश) स्तबकानि सन्ति ।

पदविच्छेदम्

Here, there are 12 cantos.
अनन्तभट्टस्य देशकालादिविषये अधिकं विवरणं न लभ्यते ।

पदविच्छेदम्

There is not much information available about the place and time of (the author) Anantabhaṭṭa.
षोडशशतकस्य आदिभागे एषः आसीत्‌ इति पण्डितैः ऊहते ।

पदविच्छेदम्

It is speculated by the scholars that he lived in the first half of the 16th century.
चम्पूभारतस्य शैली किञ्चित्‌ प्रौढा ।

पदविच्छेदम्

The style of Champūbhārataṃ is somewhat advanced.
ये व्युत्पत्तिम् इच्छन्ति ते यथा चम्पूरामायणं तथैव चम्पूभारतम्‌ अपि पठन्ति ।

पदविच्छेदम्

Those who desire variations study Champūrāmāyaṇaṃ as well as Champūbhārataṃ.
किन्तु चम्पूरामायणे यावत्‌ माधुर्यं दृश्यते तावत्‌ माधुर्यं चम्पूभारते न दृश्यते ।

पदविच्छेदम्

However, the sweetness found in Champūrāmāyaṇaṃ is not present in Champūbhārataṃ.
विचित्रकल्पनायां, शब्दचमत्कारे च कवेः विशेषासक्तिः ।

पदविच्छेदम्

The poet's special inclination towards extraordinary imagination and linguistic marvels is exhibited by the book.
आरम्भस्तबकेषु काव्यगुणाः अधिकतया दृश्यन्ते ।

पदविच्छेदम्

The qualities of poetry are more prominent in the initial cantos.
अन्येषु कथासङ्ग्रहस्य एव प्राधान्यं दृश्यते ।

पदविच्छेदम्

In the rest (of the cantos), more significance (is exhibited by the book) to a collection of stories.
चम्पूभारतस्य अपि बहूनि व्याख्यानानि उपलभ्यन्ते ।

पदविच्छेदम्

Several commentaries on Champūbhārataṃ are also available.


पदविच्छेदम्
Go Top
॥ त्रिविक्रमभट्टः ॥
त्रिविक्रमभट्टेन नलचम्पूः मदालसाचम्पूः च लिख्यते ।

पदविच्छेदम्

Nalachampū and Madālasāchampū were written by Trivikramabhaṭṭa.
एतस्य अपरं नाम सिंहादित्यः इति ।
His other name is "Siṃhāditya".
राष्ट्रकूटराजस्य तृतीय-इन्द्रस्य आस्थानकविः आसीत्‌ एषः ।

पदविच्छेदम्

He was the court poet of Indra III, the Rāṣṭrakūṭa king.
दशमशतकस्य पूर्वार्धे एषः आसीत्‌ ।

पदविच्छेदम्

He lived during the first half of the 10th century.
उपलब्धेषु चम्पूग्रन्थषु नलचम्पूः एव आदिमा ।

पदविच्छेदम्

Among the available champu texts, Nalachampū is the first one.
महाभारतस्य वनपर्वणि स्थिता नलदमयन्तीकथा एव एतस्य ग्रन्थस्य कथावस्तु ।

पदविच्छेदम्

The story of Nala and Damayantī, that is found in the Vanaparva of the Mahābhārataṃ, is the theme of the story of this book.
किन्तु स्वयंवरपर्यन्तकथा नास्ति अत्र ।

पदविच्छेदम्

However, the story until the svayamvara (ones own choice of bridegroom) episode is unavailable here.
अतः कथाभागः अपूर्णः इव दृश्यते ।

पदविच्छेदम्

Hence part of the narrative seems incomplete.
त्रिविक्रमः प्रौढकविः ।

पदविच्छेदम्

Trivikrama is an eminent poet.
अतः नलचम्पूग्रन्थे प्रौढा शैली दृश्यते ।

पदविच्छेदम्

Therefore, in Nalachampū, an advanced style is evident.
क्रियापदानां विविधानि रूपाणि कविः विशेषतः प्रयुङ्क्ते ।

पदविच्छेदम्

The poet skillfully employs various forms of verbs.


पदविच्छेदम्
Go Top
॥ नीलकण्ठदीक्षितः ॥
एषः "नीलकण्ठविजयचम्पूः" इति ग्रन्थं रचितवान्‌ अस्ति ।

पदविच्छेदम्

He has composed a text called "Nīla-kaṇṭha-vijaya-campū".
एष प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः ।

पदविच्छेदम्

He is the brother of the famous scholar Appayya Dīkṣita.
एतस्य पितुः नाम नारायणदीक्षितः इति ।

पदविच्छेदम्

His father's name was Nārāyaṇa Dīkṣita.
मातुः नाम भूमिदेवी इति ।

पदविच्छेदम्

(His) mother's name was Bhūmidevī.
नीलकण्ठदीक्षितः स्वग्रन्थे वदति - "अहम्‌ एतं ग्रन्थं अष्टात्रिंशतधिकसप्तशताधिकचतुस्सहस्रतमे (४७३८ तमे) कलिवर्षे (क्रिस्त-शक षट्त्रिंशतोत्तरषोडशशततमे वर्षे (क्रि.श. १६३६ तमे वर्षे)) रचितवान्‌" इति ।

पदविच्छेदम्

Nīlakaṇṭha Dīkṣita states in his own book, "I composed this text in the 4738th year of the current Kali era (1636 AD)".
अतः एतत्‌ तु स्पष्टं यत्‌ एषः सप्तदशे शतके आसीत्‌ इति ।

पदविच्छेदम्

Therefore, it is clear that he lived in the 17th century.
एषः मधुरैपाण्ड्यराजस्य तिरुमलनायकस्य आस्थानपण्डितः आसीत्‌ ।

पदविच्छेदम्

He was a (respected) scholar at the court of the king of Madurai, Tirumalai Nāyaka.
एषः महाकाव्यद्वयम्‌, एकं नाटकं, शतकद्वयं, दर्शनग्रन्थान्‌ च रचितवान्‌ अस्ति ।

पदविच्छेदम्

He has authored two great epics, one play, two poetries of 100 verses each and philosophical treatises (texts that expound upon various schools of Indian philosophy or systems of thought).
एतस्य द्वात्रिंशद् (३२) ग्रन्थाः उपलभ्यन्ते ।

पदविच्छेदम्

32 works attributed to him are available (today).
समुद्रमथनकथा नीलकण्ठविजये वर्णिता अस्ति ।

पदविच्छेदम्

The story of the churning of the ocean is described in Nīla-kaṇṭha-vijaya-campū.
एतस्मिन्‌ ग्रन्थे पञ्च (५) आश्वासाः सन्ति ।
In this text, there are five chapters.
काव्योचितप्रतिभा एतस्य कवेः ।

पदविच्छेदम्

This poet has the appropriate genius (talent, skill) required for crafting poetry.
विडम्बनात्मकचित्रणे एषः निपुणः ।

पदविच्छेदम्

He is skilled in humorous portrayal of people.
मनोहरवर्णनानि एतस्य काव्ये बहूनि ।

पदविच्छेदम्

There are many enchanting depictions in his poetry.
अतः संस्कृतसाहित्ये एतस्य ग्रन्थस्य विशिष्टं स्थानमस्ति ।

पदविच्छेदम्

Therefore, his work holds a prominent place in Sanskrit literature.


पदविच्छेदम्
Go Top
॥ वेङ्कटाध्वरिः ॥
वेङ्कटाध्वरिः प्रसिद्धस्य विश्वगुणादर्शनामकस्य चम्पूग्रन्थस्य रचयिता ।

पदविच्छेदम्

Veṅkaṭādhvari is the author of the famous book called Viśva-guṇa-ādarśa-campū.
हस्तिगिरिचम्पूः, लक्ष्मीसहस्रं, यादवपाण्डवीयं , सुभाषितकौस्तुभः इत्यादयः ग्रन्थाः अपि एतेन रचिताः सन्ति ।

पदविच्छेदम्

His other works also include Hasti-giri-campū, Lakṣmī-sahasraṃ, Yādava-pāṇḍavīyaṃ and Subhāṣita-kaustubhaḥ.
एषः रघुनाथदीक्षितस्य पुत्रः ।

पदविच्छेदम्

He is the son of Raghunātha Dīkṣita.
एतस्य माता सीताम्बा ।

पदविच्छेदम्

His mother's name is Sītāmbā.
एषः नीलकण्ठदीक्षितस्य समकालीनः ।

पदविच्छेदम्

He lived around the same time as Nīlakaṇṭha Dīkṣita.
अतः एषः अपि सप्तदशे शतके आसीत्‌ इति निर्णीतम्‌ अस्ति ।

पदविच्छेदम्

Therefore, it is determined that he also lived in the 17th century.
वेङ्कटाध्वरिः श्रीवैष्णवमतानुयायी ।

पदविच्छेदम्

Veṅkaṭādhvari is a follower of the Śrī-Vaiṣṇava sect.
विश्वगुणादर्शे स्वतन्त्रकल्पनायाः प्राधान्यम्‌ ।

पदविच्छेदम्

In (the book) Viśva-guṇa-ādarśa, the importance of independent imagination (is emphasized).
कृशानुः विश्वावसुः इत्येतौ गन्धर्वौ विश्ववैचित्र्याणि एतस्मिन्‌ ग्रन्थे निरूपयतः ।

पदविच्छेदम्

In this book, two Gandharvas, namely Kṛśānu and Viśvāvasu, portray the diversities of the world.
विमानेन देशपर्यटनं कुर्वन्तौ तौ देश-नगर-नदी-पुण्यस्थलादीनि जनव्यवहारान्‌ च वर्णयतः ।

पदविच्छेदम्

While traveling in an aircraft, they describe the customs and activities of people at different regions, cities, rivers, and sacred places.
एतस्मिन्‌ ग्रन्थे स्तबकादिभागाः न सन्ति ।

पदविच्छेदम्

This text does not have separate chapters.
एकैकः विषयः एकैक-विभागायते ।

पदविच्छेदम्

Each topic is treated separately.
एतस्मिन्‌ ग्रन्थे पद्यभागस्य एव आधिक्यम्‌ ।

पदविच्छेदम्

In this book, the poetic section is the prime focus.
अनुस्यूता कथा अत्र नास्ति चेदपि मनोज्ञा अभिव्यक्तिः चित्तं रञ्जयति ।

पदविच्छेदम्

Although there is no continuous narrative, the pleasing expression captivates the mind.

Comments