परिचयः - सूक्तिः #02


आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।



Go Top
पदविभागः पदविवर्णम् प्रतिपदार्थम्
आलस्यम् आलस्य / नपुं / द्वि.वि / ए.व

धातुविवरणम् :-
लस् [लसँ शिल्पयोगे ; चुरादिः ; उभयपदी ; अकर्मकः ; सेट्]
(to be skilled, to be expert, to know art)

पदविवरणम् :-
लस् + अच् = लस / त्रि (-सः-सा-सं)
(= to work, to be skillful)
अलस + स्वार्थे ष्यञ् [तद्धित] = आलस्य / नपुं (-स्यं)
(= laziness)

समासविवरणम् :-
[नञ्-तत्-पुरुष-समासः]
न लसः इति अलसः ।
(= lazy)
laziness
हि हि / अव्ययम् certainly
मनुष्याणाम् मनुष्य / पुं / ष.वि / ब.व of the people, people's
शरीरस्थः शरीरस्थ / पुं / प्र.वि / ए.व

धातुविवरणम् :-
शॄ [शॄ हिंसायाम् ; क्र्यादिः ; परस्मैपदी ; सकर्मकः ; सेट्]
(to kill, to destroy)

स्था [ष्ठा गतिनिवृत्तौ ; भ्वादिः ; परस्मैपदी ; अकर्मकः ; अनिट्]
(to stay, to stand)

पदविवरणम् :-
शॄ + ईरन् (उणादिः 4.030) = शरीर / नपुं (-रं)
(= body)

स्था + घञर्थे कः = स्थ / त्रि (-थः-था-थं)
(= standing, staying, abiding)

समासविवरणम् :-
[सप्तमी-तत्-पुरुष-समासः]
शरीरे स्थः इति शरीरस्थः ।
(= residing in the body)
he, who resides in the body
महान् महत् / पुं / प्र.वि / ए.व

महत् / पुं ए.व द्वि.व ब.व
प्र.वि महान् महान्तौ महान्तः
सं.प्र.वि महन् महान्तौ महान्तः
द्वि.वि महान्तम् महान्तौ महतः
तृ.वि महता महद्भ्याम् महद्भिः
च.वि महते महद्भ्याम् महद्भ्यः
प.वि महतः महद्भ्याम् महद्भ्यः
ष.वि महतः महतोः महताम्
स.वि महति महतोः महत्सु

great
रिपुः रिपु / पुं / प्र.वि / ए.व enemy

Go Top
विषयः विवरणम्
अन्वयः मनुष्याणां शरीरस्थः महान् रिपुः आलस्यं हि (भवति) ।
Purport Laziness, that resides in people's body, certainly is a great enemy.

Comments