परिचयः - सुभाषितम् #19


न सा सभा यत्र न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मो न वै यत्र च नास्ति सत्यम्
सत्यं न तद्यच्छलनानुविद्धम् ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
अव्ययम् not
सा तद् / स्त्री / प्र.वि / ए.व she
सभा सभा / स्त्री / प्र.वि / ए.व assembly
यत्र अव्ययम् where
न सन्ति न अस् / प्र.पु / ब.व is not there
वृद्धाः वृद्ध / पुं / प्र.वि / ब.व elders
वृद्धाः वृद्ध / पुं / प्र.वि / ब.व

सन्धिविवरणम् :-
वृद्धाः + न
= वृद्ध् + आ + (: ⇒ x) + न [विसर्गलोपसन्धिः]
= वृद्धा न
elders
अव्ययम् not
ते तद् / पुं / प्र.वि / ब.व they
ये यद् / पुं / प्र.वि / ब.व who
न वदन्ति न वद् / प्र.पु / ब.व do not speak
धर्मम् धर्म / पुं / द्वि.वि / ए.व righteousness
धर्मः धर्म / पुं / प्र.वि / ए.व

सन्धिविवरणम् :-
धर्मः + न
= धर्म् + अ + (: ⇒ उ) + न [विसर्ग-उकारादेशसन्धिः]
= धर्म् + (अ + उ ⇒ ओ) + न [गुणसन्धिः ६.१.८७]
= धर्मो न
righteousness
अव्ययम् not
वै पादपूर्णारणार्थकम् [no meaning]
यत्र अव्ययम् where
अव्ययम् and
न अस्ति न अस् / प्र.पु / ए.व

सन्धिविवरणम् :-
न + अस्ति
= न् + (अ + अ ⇒ आ) + स्ति [सवर्णदीर्घसन्धिः ६.१.१०१]
= नास्ति
is not there
सत्यम् अव्ययम् truth
सत्यम् अव्ययम् truth
अव्ययम् not
तत् तद् / नपुं / प्र.वि / ए.व

सन्धिविवरणम् :-
तत् + यत्
= तद् + यत् [जश्त्वसन्धिः ८.२.३९]
= तद्यत्

तद्यत् + छलना
= तद्यद् + छलना [जश्त्वसन्धिः ८.२.३९]
= तद्यज् + छलना [श्चुत्वसन्धिः ८.४.४०]
= तद्यच् + छलना [चर्त्वसन्धिः ८.४.५५]
= तद्यच्छलना

तद्यच्छलना + अनुविद्धम्
= तद्यच्छलन् + (आ + अ ⇒ आ) + नुविद्धम् [सवर्णदीर्घसन्धिः ६.१.१०१]
= तद्यच्छलनानुविद्धम्
that
यत् यद् / नपुं / प्र.वि / ए.व which
छलना छलना / स्त्री / प्र.वि / ए.व

पदविवरणम् :-
छल + णिच् + युच् + टाप् = छलना / स्त्री

Steps to create छल :-
1) Add कलच् (उणादि प्रत्ययः) ⇒ छो + कलच् = छल ।
2) Then create नामधातु ⇒ छल + णिच् = छलि । This is नामधातु, which is to be used in the meaning of छलं करोति । On adding तिङ्, it will be छलायति । छलं करोति इति छलायति ।
3) On this छलि, add युच् ⇒ छलि + युच् = छलन ।
4) Add टाप् ⇒ छलन + टाप् = छलना ।
deceit
अनुविद्धम् अनुविद्ध / पुं / द्वि.वि / ए.व

पदविवरणम् :-
अनु + व्यध् + क्त = अनुविद्ध / पुं & नपुं
अनुविद्ध + टाप् = अनुविद्धा / स्त्री
full of

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
सा न सभा यत्र वृद्धाः न सन्ति । It is not an assembly, where there are no elders.
ते न वृद्धाः ये धर्मं न वदन्ति । They are not elders, who do not speak the righteousness.
वै न धर्मः यत्र सत्यं न अस्ति । Those are not righteousness, which do not speak the truth.
तत् न सत्यं यत् छलना अनुविद्धम् (अस्ति) च । And, it is not truth, which is full of deceit.

Comments