शिक्षा - सुभाषितम् #01


दम्भेन लोभेन भिया ह्रिया वा
प्रायो विनीतो जन एष सर्वः ।
वैराग्यतस्त्वाहृदयं विनीतम्
नरं वरं दुर्लभमेव मन्ये ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
दम्भेन दम्भ / पुं / तृ.वि / ए.व

पदविवरणम् :-
दम्भ् + भावे घञ् = दम्भ / पुं
by hypocrisy
लोभेन लोभ / पुं / तृ.वि / ए.व

पदविवरणम् :-
लुभ् + भावे घञ् = लोभ / पुं
by greed
भिया भी + क्विप् = भी / स्त्री / तृ.वि / ए.व

पदविवरणम् :-
भी [धातुः] + क्विप्
= भी [प्रातिपदिकम्] + टा [तृ.वि/ए.व]
= भ् + ई + आ (4.1.2)
= भ् + इय् (6.4.77) + आ
= भिया
by fear
ह्रिया ह्री + क्विप् = ह्री / स्त्री / तृ.वि / ए.व

पदविवरणम् :-
ह्री [धातुः] + क्विप्
= ह्री [प्रातिपदिकम्] + टा [तृ.वि/ए.व]
= ह्र् + ई + आ (4.1.2)
= ह्र् + इय् (6.4.77) + आ
= ह्रिया
by shame
वा अव्ययम् or
प्रायः अव्ययम् mostly / perhaps
विनीतः विनीत / पुं / प्र.वि / ए.व

पदविवरणम् :-
नी + क्त = नीत / पुं & नपुं
वि + नीत = विनीत / पुं & नपुं
विनीत + टाप् = विनीता / स्त्री

विनीतः - विनीतौ - विनीताः ( विनीत / पुं )
विनीता - विनीते - विनीताः ( विनीता / स्त्री )
विनीतम् - विनीते - विनीतानि ( विनीत / नपुं )
humbled
जनः जन / पुं / प्र.वि / ए.व people
एषः एतद् / पुं / प्र.वि / ए.व this
सर्वः सर्व / पुं / प्र.वि / ए.व all
वैराग्यतः वैराग्य / नपुं / पं.वि / ए.व

पदविवरणम् :-
वि + रञ्ज + भावे करणे वा घञ् = विराग / पुं
विराग + भावे ष्यञ् = वैराग्य / नपुं
due to renouncing worldly pleasures
तु पादपूर्णारणार्थकम् on the other hand
आहृदयम् ??? sincerely
विनीतम् विनीत / पुं / द्वि.वि / ए.व

पदविवरणम् :-
नी + क्त = नीत / पुं & नपुं
वि + नीत = विनीत / पुं & नपुं
विनीत + टाप् = विनीता / स्त्री

विनीतः - विनीतौ - विनीताः ( विनीत / पुं )
विनीता - विनीते - विनीताः ( विनीता / स्त्री )
विनीतम् - विनीते - विनीतानि ( विनीत / नपुं )
modest
नरम् नर / पुं / द्वि.वि / ए.व man
वरम् वर / पुं / द्वि.वि / ए.व best
दुर्लभम् दुर्लभ / पुं / द्वि.वि / ए.व

पदविवरणम् :-
दुर् + लभ + खल् = दुर्लभ / पुं
hard to get
एव अव्ययम् only
मन्ये मन् / उ.पु / ए.व I think

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
प्रायः एषः जनः सर्वः दम्भेन लोभेन भिया ह्रिया वा विनीतः (आसीत्) । Mostly, all these people are modest, by hypocrisy or by greed or by fear or by shame.
(अहं) तु वैराग्यतः आहृदयं विनीतं वरं नरं दुर्लभम् एव (इति) मन्ये । On the other hand, I think that, due to renouncing wordly pleasures, who is sincerely modest, the best man, is definitely rare.

Comments

  1. THANKS A lot for sharing this with all of us. Will really be a good reference at all times .Keep It up!!

    ReplyDelete
  2. Nice. Good reference material as it contains व्याकरणांशः.

    ReplyDelete

Post a Comment