शिक्षा - सुभाषितम् #04


व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत् ।
काषायरसमासाद्य स्वाद्वतीवाम्बु विन्दते ॥



Go Top
पदविभागः विवरणम् प्रतिपदार्थम्
व्यसनानतरम् व्यसन + अनन्तरम् / अव्ययम्

पदविवरणम् :-
वि + अस् + ल्युट् = व्यसन / नपुं
अनन्तरम् (अव्ययम्)

समासविवरणम् :-
[षष्ठीतत्पुरूषसमासः]
व्यसनस्य अनन्तरम् = व्यसनानन्तरम्
after a sad event / after experiencing sorrow
सौख्यम् सौख्य / नपुं / प्र.वि / ए.व

पदविवरणम् :-
सुख + ष्यञ् = सौख्य / नपुं
comfort
स्वल्पम् स्वल्प / नपुं / प्र.वि / ए.व little
अपि अव्ययम् also
अधिकम् अव्ययम् more
भवेत् भू + विधिलिङ् / प्र.पु / ए.व be
काषायरसम् काषायरस / पुं / द्वि.वि / ए.व astringent flavour (eg. Gooseberry)
आसाद्य आसाद्य / अव्ययम्

पदविवरणम् :-
आङ् + सद् + ल्यप् = आसद्य or आसाद्य / अव्ययम्
after tasting
स्वादु स्वादु / नपुं / द्वि.वि / ए.व sweet
अतीव अव्ययम् very
अम्बु अम्बु / नपुं / प्र.वि / ए.व water
विन्दते विद् + लट् / प्र.पु / ब.व feels

Go Top
अन्वयः (Prose order) तात्पर्यम् (Purport)
(यथा) काषायरसम् आसाद्य अम्बु अतीव स्वादु विन्दते, (तथा) व्यसनानन्तरं स्वल्पं सौख्यम् अपि अधिकं भवेत् । (Just as), after tasting astringent flavour the water tastes very sweet, (similarly), after experiencing sorrow even a little comfort seems big.

Comments