दुर्जननिन्दा ।



॥ सुभाषित~रत्न~भाण्डागारम् ॥

॥ द्वितीय~प्रकरणम् ॥


Go Top
दुर्जन~निन्दा ।
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ ०२-०३-००१ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
खलः सर्षप~मात्राणि परम्-छिद्राणि पश्यति ।
आत्मनः बिल्व~मात्राणि पश्यन्-अपि न पश्यति ॥ ०२-०३-००१ ॥

A wicked person sees, in others, faults as small as a mustard seed. However, he does not see the faults that can be seen, as big as a wood apple, in himself.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • सर्षप / पुं (-पः) = small measure of weight, usually a mustard seed is considered
  • छिद्र / नपुं (-द्रं) = fault, defect, flaw (moral or physical), weak side
  • बिल्व / नपुं (-वं) = fruit of the बिल्व tree, wood-apple
न विना परवादेन रमते दुर्जनो जनः ।
काकः सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति ॥ ०२-०३-००२ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
न विना पर~वादेन रमते दुर्जनः जनः ।
काकः सर्व~रसान्-भुक्त्वा विना-अमेध्यं न तृप्यति ॥ ०२-०३-००२ ॥

A wicked person does not delight without slandering about others, just like a crow, having enjoyed all good tastes, does not feel satisfied without (tasting) the impure.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • परवाद / पुं (-दः) = the talk of others, popular rumour, slander
  • अमेध्य / त्रि (-ध्यः-ध्या-धयं) = impure, foul
    • मेध् + ण्यत् = मेध्य / नपुं (-धयं) = pure, not defiled, fit for sacrifice
    • न मेध्य = अमेध्य / त्रि (-ध्यः-ध्या-धयं) = impure, foul, defiled, not fit for sacrifice
विशिखव्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः ।
परस्य हरति प्राणान् नैतच्चित्रं कुलोचितम् ॥ ०२-०३-००३ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
विशिख~व्यालयोः अन्त्य-वर्णाभ्यां यः विनिर्मितः ।
परस्य हरति प्राणान् न-एतत्-चित्रं कुल-उचितम् ॥ ०२-०३-००३ ॥

The one who is observed / celebrated as wicked (खल), that is formed by joining the last letter of the words विशिख and व्याल, will take the life out of others. This is no wonder, and is befitting of its tribe, as do both arrow and wicked.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • विशिख / पुं (-खः) = arrow
  • वि + आङ् + अल् + अच् = व्याल / त्रि (-लः-ला-लं) = wicked
विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव ।
जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ०२-०३-००४ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
विषमाः मलिन~आत्मानः द्वि~जिह्वा जिह्मगाः इव ।
जगत्~प्राणहराः नित्यं कस्य न-उद्वेजकाः खलाः ॥ ०२-०३-००४ ॥

The wicked, who are rude, evil-minded, double-tongued are like snakes, taking away lives of people everyday. To whom have they not caused pain and sorrow?
⇒ कठिन-शब्दानाम् अर्थाः ।
  • वि + सम् + अच् = विषमा (-मः-मा-मं) = कुटिल / त्रि (-लः-ला-लं) = bad, mean, rude, dishonest, crooked, fraudulent
  • जिह्मग / पुं (-गः) = going crookedly, snake
  • उत् + विज् + वु = उद्वेजक / त्रि (-कः-का-कं) = agitating, distressing, annoying, causing pain or sorrow
दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयंकरः ॥ ०२-०३-००५ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
दुर्जनः परिहर्तव्यः विद्यया-अलङ्कृतः-अपि सन् ।
मणिना भूषितः सर्पः किम्-असौ न भयंकरः ॥ ०२-०३-००५ ॥

Bad people must be shunned, even if they are well-decorated with knowledge. How is that snake bedecked with a jewel not dangerous?
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ ०२-०३-००६ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
खलानां कण्टकानां च द्विविधा-एव प्रतिक्रिया ।
उपानत्~मुख~भङ्गः वा दूरतः वा विसर्जनम् ॥ ०२-०३-००६ ॥

There are only two types of remedies for the wicked people and thorns. One is, to blow on the face with the footwear and the other is, to avoid them from a distance.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • उपानन्मुखभङ्ग / पुं (-ङ्गः) = उपानहा पादस्थचर्मणा मुखभङ्गः = blow on the face with the footwear
    • उप + नह् + क्विप् = उपानह् / स्त्री (-त्) = sandal, shoe
    • मुखभङ्ग / पुं (-ङ्गः) = blow on the face
  • प्रतिक्रिया / स्त्री (-या) = remedying, counteracting
अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च ।
एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य वारितः ॥ ०२-०३-००७ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
अपूर्वः कः-अपि कोप~अग्निः सज्जनस्य खलस्य च ।
एकस्य शाम्यति स्नेहाद्-वर्धते-अन्यस्य वारितः ॥ ०२-०३-००७ ॥

Extraordinary is the (fire of) anger of some, viz., the good and the wicked. For one, the fire (of anger) is doused by oil, and for the other even water flares the fire (of anger).
⇒ कठिन-शब्दानाम् अर्थाः ।
  • स्नेह / पुं (-हः) = oil, grease
  • वारि / नपुं (-रि) = water
ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥ ०२-०३-००८ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टिः नीचः पुनः पुनः ।
कवली~कुरुते स्व~स्थं विधुं दिवि विधुंतुदः ॥ ०२-०३-००८ ॥

Seeing a good man in a distinguished / superior position, a low person hates him again and again. The moon in the sky remains at ease, while the tormentor of moon (Rāhu) swallows him as a morsel.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • ऊर्ज् + क्त = ऊर्जित / त्रि (-तः-ता-तं) = powerful, strong, mighty, distinguished, glorious, superior, noble, spirited
  • कवली + कृ + कर्तरि लँट् / प्र.पु / ए.व = कवलीकुरुते = to swallow, to eat up, to devour
    • कवल + च्वी = कवली + कृ = to swallow that which is not swallowed
  • दिव् / स्त्री = sky
  • विधुंतुद / पुं (-दः) = विधुन्तुद = विधुं तुदति पीडयतीति = Rāhu, tormentor / harasser of moon
    • Rāhu, the personified ascending node
    • Rāhu, the cause of the moon's eclipse
क्वचित्सर्पोऽपि मित्रत्वमीयान्नैव खलः क्वचित् ।
न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः ॥ ०२-०३-००९ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
क्वचित्-सर्पः-अपि मित्रत्वमीयात्-न-एव खलः क्वचित् ।
न शेषशायिनः-अपि-अस्य वशे दुर्योधनः हरेः ॥ ०२-०३-००९ ॥

Even a snake can become one's friend sometime, but never should a wicked person. Even this Hari, who sleeps on the snake, did not desire (to befriend) Duryodhana.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • मित्रत्वम् + छ = मित्रत्वमीय / त्रि (-यः-या-यं) = one's own friend
  • वश / पुं & नपुं (-शः-शं) = wish, desire
उपकारोऽपि नीचानामपकारो हि जायते ।
पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ०२-०३-०१० ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
उपकारः-अपि नीचानाम्-अपकारः हि जायते ।
पयः-पानं भुजंगानां केवलं विष~वर्धनम् ॥ ०२-०३-०१० ॥

Even a help / favour to mean people certainly becomes a misdeed. The milk drunk by snakes, only further increases the poison.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • पयस् / नपुं (-यः) = milk or water
अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैर्धृताः ।
उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥ ०२-०३-०११ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
अलकाः-च खलाः-च-एव मूर्ध्नि भीरु~जनैः-धृताः ।
उपरि-उपरि सत्कारे-अपि-आविष्कुर्वन्ति वक्रताम् ॥ ०२-०३-०११ ॥

Curly hair (tresses) and wicked people, when supported by timid people, disclose their crookedness, though well-treated again and again.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • अलक / पुं & नपुं (-कः-कं) = a curl lock of hair, hair in general
  • धृ + क्त = धृत / त्रि (-तः-ता-तं) = cherished, supported, placed, considered
  • आविष् + कृ + कर्तरि लँट् / प्र.पु / ब.व = आविष्कुर्वन्ति = manifesting, making visible, uncovering, disclosing
नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी ।
परप्रतारणायैव दारुणा केन निर्मिता ॥ ०२-०३-०१४ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
नौः-च दुर्जन~जिह्वा च प्रतिकूल~विसर्पिणी ।
पर~प्रतारणाय-एव दारुणा केन निर्मिता ॥ ०२-०३-०१४ ॥
⇒ अन्वयः ।
परप्रतारणाय एव दारुणा निर्मिता प्रतिकूलविसर्पिणी नौः (भवति) ।
परप्रतारणाय एव प्रतिकूलविसर्पिणी दुर्जनजिह्वा केन निर्मिता (भवति) ?

To ferry over alone (परप्रतारणाय एव), a ship, made of wood, gently slides (making its way) in unfavourable conditions. And, to decieve others alone (परप्रतारणाय एव), the tongue of a wicked (split tongue of a snake is used as a metaphor to the tongue of a wicked, which is indicated by the use of सर्पिणी, a female snake) gently glides (making its way) in unfavourable conditions. By what is it (the tongue of a wicked) made?
⇒ कठिन-शब्दानाम् अर्थाः ।
  • नौ / स्त्री (-नौः) = a boat, a vessel in general
  • प्रतिकूल~विसर्पिन् / त्रि (-र्पी-र्पिणी-र्पि) = gently getting along in unfavourable condition
    • प्रतिकूल / त्रि (-लः-ला-लं) = adverse, unfavourable, contrary, opposite, cross, perverse, inauspicious, unpleasant, disagreeable, inimical
    • वि + सृप् + इनि = विसर्पिन् / त्रि (-र्पी-र्पिणी-र्पि) = gliding, sliding, going gently, creeping
  • प्र + तॄ + ल्युट् = प्रतारण / नपुं (-णं)
    • [1] (context of a ship) ferrying over, carrying across, passing over
    • [2] (context of a wicked) fraud, cheating, deceit, deception, knavery, trickery, roguery, hypocrisy
  • दारु / पुं & नपुं (-रुः-रु) = wood, timber
यस्मिन्वंशे समुत्पन्नस्तमेव निजचेष्टितैः ।
दूषयत्यचिरेणैव घुणकीट इवाधमः ॥ ०२-०३-०१५ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
यस्मिन्-वंशे समुत्पन्नः-तम्-एव निजचेष्टितैः ।
दूषयति-अचिरेण-एव घुण~कीटः इव-अधमः ॥ ०२-०३-०१५ ॥

Very soon, a vile, by his behaviour, will cause disrepute to the clan in which he was born; just as a wood-worm destroys the timber in which it was born.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • निजचेष्टित / त्रि (-तः-ता-तं) = one's own perpetual behaviour
    • नि + जन् + ड = निज / त्रि (-जः-जा-जं) = नितरां जायते = own, inborn, indigenous, native, perpetual, eternal
    • चेष्ट् + क्त = चेष्टित / त्रि (-तः-ता-तं) = behaviour, action, done with effort, exerted
  • दूष् + णिच् + कर्तरि लँट् / प्र.पु / ए.व = दूषयति = cause evil or misfortune or dishonour or disrepute
  • अचिर / त्रि (-रः-रा-रं) = न चिरम् = अल्पकाले = brief, momentary, not long
  • घुण / पुं (-णः) = an insect that is found in timber, wood-worm
  • अधम / त्रि (-मः-मा-मं) = inferior, low, mean, vile (in quality, worth, position, etc ...), despicable
स्वभावकठिनस्यास्य कृत्रिमां बिभ्रतो नतिम् ।
गुणोऽपि परहिंसायै चापस्य च खलस्य च ॥ ०२-०३-०१६ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
स्व~भाव~कठिनस्य-अस्य कृत्रिमां बिभ्रतः नतिम् ।
गुणः-अपि पर~हिंसायै चापस्य च खलस्य च ॥ ०२-०३-०१६ ॥
⇒ अन्वयः ।
बिभ्रतः स्वभावकठिनस्य अस्य चापस्य च खलस्य च गुणः कृत्रिमां नतिम् अपि परहिंसायै (भवति) ।

The virtue of the bow as well as the wicked, both of whom naturally possess hardness, though bent artificially, will only harm others.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • कृत्रिम / त्रि (-मः-मा-मं) = made, factitious, artificial, the reverse of what is naturally or spontaneously produced
  • वि + भृ + शतृँ = विभ्रत् / त्रि (-भ्रन्-भ्रती-भ्रत्) = having, possessing
    • बिभ्रत् is an alternate of विभ्रत्
  • नम् + क्तिन् = नति / स्त्री (-तिः) = bending, bowing, stooping, curvature, crookedness
अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात् ।
पतितापि नेक्ष्यन्ते गुणास्तोयकणा इव ॥ ०२-०३-०१७ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
अयःपिण्डः इव-उत्तप्ते खलानां हृदये क्षणात् ।
पतिता-अपि न-ईक्ष्यन्ते गुणाः-तोय~कणाः इव ॥ ०२-०३-०१७ ॥

Even if good qualities enter into the heart of wicked they will not last a moment, just as a drop of water that falls on a red-hot piece of iron will disappear in no time.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • अयःपिण्ड / पुं & नपुं (-ण्डः-ण्डं) = a lump of iron
    • अयस् / नपुं (-यः) = iron, metal
    • पिण्ड / पुं & नपुं (-ण्डः-ण्डं) = a lump, a heap, a cluster, a quantity or collection
  • उत् + तप् + क्त = उत्तप्त / त्रि (-तः-ता-तं) = heated, made red-hot
वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः ।
श्वा भवत्यपकाराय लिहन्नपि दशन्नपि ॥ ०२-०३-०१८ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
वर्जनीयः मतिमता दुर्जनः सख्य~वैरयोः ।
श्वा भवति-अपकाराय लिहन्-अपि दशन्-अपि ॥ ०२-०३-०१८ ॥

Just like both licking or biting of a dog cause harm, both friendship or enemity of a wicked person should be avoided by an intelligent person.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • मति + मतुँप् = मतिमत् / त्रि (-मान्-मती-मत्) = person endowed with intelligence
  • लिह् + शतृँ = लिहत् / त्रि (न्-ती-त्) = licking
  • दंश् + शतृँ = दशत् / त्रि (न्-न्ती-त्) = biting
वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते ।
कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः ॥ ०२-०३-०१९ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
वक्रतां बिभ्रतः यस्य गुह्यम्-एव प्रकाशते ।
कथं खलु समः न स्यात्-पुच्छेन पिशुनः शुनः ॥ ०२-०३-०१९ ॥
⇒ अन्वयः ।
वक्रतां बिभ्रतः यस्य गुह्यम् एव प्रकाशते । पुच्छेन शुनः पिशुनः कथं समः स्यात् ? न खलु ?

For the one who is possessed of crookedness, even his solitude is conspicuous. How could a wicked, with a tail, who is grown, be straight? Isn't it?
⇒ कठिन-शब्दानाम् अर्थाः ।
  • गुह्य / त्रि (-ह्यः-ह्या-ह्यं) = secret, conceal, hidden, solitary, retired
  • प्र + काश् + अच् = प्रकाश / त्रि (-शः-शा-शी-शं) = visible, open, manifest, public, shining, renowned, expanded
  • पिशुन / त्रि (-नः-ना-नं) = cruel, wicked, vile, low, contemptible
  • शुन / त्रि (-नः-ना-नं) = grown, thriven, prosperous, fortunate
स्नेहेन भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः ।
दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा ॥ ०२-०३-०२० ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
स्नेहेन भूतिदानेन कृतः स्वच्छः-अपि दुर्जनः ।
दर्पणः-च-अन्तिके तिष्ठन्-करोति-एकम्-अपि द्विधा ॥ ०२-०३-०२० ॥
⇒ अन्वयः ।
स्नेहेन भूतिदानेन स्वच्छः कृतः अपि तिष्ठन् दुर्जनः, स्नेहेन भूतिदानेन स्वच्छः कृतः अपि तिष्ठन् दर्पणः, अन्तिके एकं (पुरुषम्) अपि द्विधा करोति ।

A wicked who is made pure with affection and donation of wealth and a mirror which is made clean using oil and ashes, splits / shows the one nearby as two.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • स्निह् + घञ् = स्नेह / पुं (-हः)
    • [1] (context of a wicked) affection, kindness
    • [2] (context of a mirror) oil, grease
  • भू + क्तिन् = भूति / स्त्री (-तिः)
    • [1] (context of a wicked) wealth, riches
    • [2] (context of a mirror) ash
  • स्वच्छ / त्रि(-च्छः-च्छा-च्छं) = pure, clear, transparent
  • अन्तिक / त्रि (-कः-का-कं) = near, proximate
आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च ।
सोढुं तयोर्मुखाक्षेपमलमेकैव सा क्षमा ॥ ०२-०३-०२१ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
आ~जन्म~सिद्धं कौटिल्यं खलस्य च हलस्य च ।
सोढुं तयोः-मुख-आक्षेप-मलम्-एका-एव सा क्षमा ॥ ०२-०३-०२१ ॥
⇒ अन्वयः ।
खलस्य हलस्य च आजन्मसिद्धं कौटिल्यं (भवति) । सा क्षमा एका एव तयोः मुखाक्षेपमलं सोढुं (शक्नोति) ।

Crookedness is there ever since birth, in both the wicked person (crookedness in behaviour) and the ploughshare (crookedness in shape). The only one to tolerate the onslaught (filthy abuses) by their mouths, is patience (in the context of a wicked) / earth (in the context of ploughshare).
⇒ कठिन-शब्दानाम् अर्थाः ।
  • आजन्मसिद्ध / पुं & नपुं (-द्धः-द्धं) = since birth
    • आङ् मर्यादावचने ।
      • आ will remain in आङ् ... after ङ् gets लोपः ।
    • There are two ways आङ् (आ) is used :-
      • [१] विना तेन मर्यादा -- "upto (but excluding) a limit" is termed as मर्यादा ।
      • [२] सह तेन इति अभिविधिः -- "upto (and including) a limit" is termed as अभिविधिः ।
    • उदाहरणानि :-
      • [१] आ मुक्तेः संसारः ।
        • मुक्तिं मर्यादीकृत्य संसारः इति अर्थः ।
        • मुक्तेः (मुक्ति / स्त्री / प.वि / ए.व) ।
        • Upto (but excluding) liberation, is the circuit of worldly life.
      • [२] आ सकलाद् ब्रह्म ।
        • सकलम् अभिव्याप्य ब्रह्मन् इति अर्थे ।
        • सकलाद् (सकल / पुं / प.वि / ए.व) ।
        • Upto (and including) everything, is the Supreme Being.
      • [३] आ सेतुः हिमाचलं भारतम् ।
        • सेतुम् अभिव्याप्य भारतम् इति अर्थे ।
        • सेतुः (सेतुः / पुं / प.वि / ए.व) ।
        • Himalayas, upto (and including) Setu, is India.
      • [४] आ बालात् हरिभक्तिः आसीत् ।
        • बालात् (बाल / पुं / प.वि / ए.व) ।
        • Since childhood, devotion to Hari has been there.
      • [५] आ पञ्चभ्यः वर्षेभ्यः सः संस्कृतसेवां करोति ।
        • पञ्चभ्यः (पञ्च / - / प.वि / ब.व) ।
        • Since 5 years, he is in service to संस्कृतम् ।
  • कुटिल + ष्यञ् = कौटिल्य / नपुं (-यं) = crookedness, dishonest
  • सह् + तुमुँन् = सहितुम् वा सोढुम् / अव्ययम् = to tolerate
  • आङ् + क्षिप् + घञ् = आक्षेप / पुं (-पः) = abuse, censure, blame, reproach
  • क्षमा / स्त्री (-मा)
    • [1] (context of a wicked) patience, forbearance, forgiveness
    • [2] (context of the ploughshare) earth
यथा यथैव स्नेहेन भूयिष्ठमुपचर्यते ।
धत्ते तथा तथा तापं महावैश्वानरः खलः ॥ ०२-०३-०२२ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
यथा यथा-एव स्नेहेन भूयिष्ठम्-उपचर्यते ।
धत्ते तथा तथा तापं महा~वैश्वानरः खलः ॥ ०२-०३-०२२ ॥
⇒ अन्वयः ।
यथा यथा स्नेहेन महावैश्वानरः भूयिष्ठम् उपचर्यते, तथा तथा एव तापं धत्ते ।
यथा यथा स्नेहेन महा-वै-श्वा-नरः खलः भूयिष्ठम् उपचर्यते, तथा तथा तापं एव धत्ते ।

When more and more oil is added while worshipping the God of fire, the flames flare further. Similarly, the more we show respect and extend courtesy towards the mean and the wicked (dog of a man), the agony alone increases.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • स्निह् + घञ् = स्नेह / पुं (-हः)
    • [1] (context of Agni) oil, grease
    • [2] (context of a wicked) affection, kindness, courtesy
  • महावैश्वानर / पुं (-रः)
    • [1] (context of Agni) विश्वः च असौ नरः च इति वैश्वानरः = Agni, the God of fire, the digestive fire
    • [2] (context of a wicked) श्वा च असौ नरः च इति वै श्वानरः = dog of a man
  • बहु + इष्ठन् = भूयिष्ठ / त्रि (-ष्ठः-ष्ठा-ष्ठं) = very many, much, very abundant, most numerous, most important, chief principal
  • धा + कर्तरि लँट् / प्र.पु / ए.व = धत्ते = increases
  • तप् + अच् = ताप / पुं (-पः)
    • [1] (context of Agni) heat, burning, glow
    • [2] (context of a wicked) pain, sorrow, distress, torment, affliction, misery, agony
खलो न साधुतां याति सद्भिः संबोधितोऽपि सन् ।
सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरायते ॥ ०२-०३-०२९ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
खलः न साधुतां याति सद्भिः संबोधितः-अपि सन् ।
सरित्~पूर~प्रपूर्णः-अपि क्षारः न मधुरायते ॥ ०२-०३-०२९ ॥

Just as the ocean is not sweetened though it is full of water from the river streams, so also a wicked person does not attain goodness in spite of being well advised by the good people.
⇒ कठिन-शब्दानाम् अर्थाः ।
  • साधु + तल् = साधुता / स्त्री (-ता) = goodness
  • अस् + शतृँ = सत् / त्रि (-न्-ती-त्) = good people
    • सत् / पुं / तृ.वि / ब.व = सद्भिः
  • सरित्पूरप्रपूर्ण / त्रि (-णः-णा-णं) = full of water from the river streams
    • सरित्पूर / पुं (-रः) = stream of river
      • सरित् / स्त्री (-त्) = a river
      • पूर / पुं (-रः) = a stream
    • प्र + पूर् + क्त = प्रपूर्ण / त्रि (-णः-णा-णं) = filled, full
  • क्षार / पुं (-रः) = salt (here ocean)
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ०२-०३-०३० ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
सर्पदुर्जनयोः-मध्ये वरं सर्पः न दुर्जनः ।
सर्पः दशति कालेन दुर्जनः तु पदे पदे ॥ ०२-०३-०३० ॥

Between a snake and a wicked person, snake is best, not the wicked person. Snake bites in course of time, but the wicked bite at every step.
विद्यया विमलयाप्यलङ्कृतो दुर्जनः सदसि मास्तु कश्चन ।
साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः ॥ ०२-०३-२१२ ॥
⇒ सन्धिं विभज्य सुभाषितम् ।
विद्यया विमलया-अपि-अलङ्कृतः दुर्जनः सदसि मा-अस्तु कश्चन ।
साक्षराः हि विपरीततां गताः केवलं जगति ते-अपि राक्षसाः ॥ ०२-०३-२१२ ॥

A wicked person, even if he is an erudite scholar, he should be avoided in an assembly / meeting. Erudite scholars (साक्षराः) who are in opposition (contrariety) are merely only demons upon this earth. Literally, the word सा-क्ष-राः (erudite scholars) in reverse reads as रा-क्ष-साः (demons).
⇒ कठिन-शब्दानाम् अर्थाः ।
  • विमल / त्रि (-लः-ला-लं) = impeccable, pristine
  • साक्षर / त्रि (-रः-रा-रं) = erudite scholar, eloquent

Comments