महाकविः कालिदासः । [ICSE IX]



द्वितीयः पाठः ⇒ महाकविः कालिदासः


Go Top
महा-कविः कालिदासः ।
संस्कृत-कविषु अग्रगण्यः कालिदासः 'कवि-कुल-गुरुः' 'कविता-कामिन्याः विलासः' इति प्रसिद्धः अस्ति । आङ्गलसाहित्ये यथा शेक्सपियर् प्रसिद्धः तथा कालिदासः भारतीय साहित्य क्षेत्रे अनुपम-कविः सर्वश्रेष्ठ-कविः इति गौरवं प्राप्तवान् ।
Among the poets of Sanskrit literature, Kālidāsa, the best, is famous as 'the guru of the clan of poets', 'the gait of the loving or affectionate woman called poetry'. Just as in English literature Shakesphere is popular, in the field of Indian literature Kālidāsa has obtained the reputation as an unparalleled poet, and the most excellent poet.
Toggle for कठिन-शब्दानाम् अर्थाः ।
  • अग्रगण्य / त्रि (-ण्यः-ण्या-ण्यं) = श्रेष्ठ / त्रि (-ष्ठः-ष्ठा-ष्ठं) = best
  • कामिन् / त्रि (-मी-मिनी-मि) = प्रणयिन् / त्रि (-यी-यिनी-यि) = the loving or affectionate woman

तस्य असाधारण प्रतिभाः प्रदर्शयितुम् एकः श्लोकः प्रख्यातोऽस्ति प्रख्यातः + अस्ति
= प्रख्यातो + अस्ति

पुरा कवीनां गणनाप्रसंगे
कनिष्ठिकाधिष्ठितकालिदासः कनिष्ठिका-अधिष्ठित-कालिदासः
अद्यापि अद्य + अपि तत्तुल्यकवेरभावात् तत् + तुल्य + कवेः + अभावात्
अनामिका सार्थवती सा + अर्थवती बभूव ॥


A very popular verse to showcase his extra-ordinary genius is here.

Once upon a time, poets and writers assembled to rank all the great Sanskrit literary giants. At that congress of counting, they ranked Kālidāsa as first and assigned the little finger (कनिष्ठिका), and could not come up with a second one who can come next to Kālidāsa. So they named the next finger as 'अनामिका' (the one without a name).

Toggle for कठिन-शब्दानाम् अर्थाः ।
  • तुल्य / त्रि (-यः-या-यं) = समान / त्रि (-नः-ना-नं) = equal
  • Explanation for words used in the verse
    • पुरा ~ अव्ययम् ~ in the past
    • कवीनाम् ~ कवि / पुं / ष.वि / ब.व ~ of the poets
    • गणनाप्रसंगे ~ गणना-प्रसङ्ग / पुं / स.वि / ए.व ~ in the assembly, to rank (the poets)
    • कनिष्ठिका-अधिष्ठित-कालिदासः ~ कनिष्ठिका-अधिष्ठित-कालिदास / पुं / प्र.वि / ए.व ~ Kālidāsa, who was assigned the little finger
    • अद्यापि ~ अद्य + अपि ~ even today
    • तत्-तुल्य-कवेः ~ तत्-तुल्य-कवि / पुं / ष.वि / ए.व ~ a poet, who is equal to him
    • अभावात् ~ अभाव / पुं / प.वि / ए.व ~ due to the absence of
    • अनामिका ~ अनामिका / स्त्री / प्र.वि / ए.व ~ the one without a name
    • सा ~ तद् / स्त्री / प्र.वि / ए.व ~ she
    • अर्थवती ~ अर्थवत् / स्त्री / प्र.वि / ए.व ~ meant
    • बभूव ~ भू / अस् + लिँट् / प्र.पु / ए.व ~ was

यद्यपि कालिदासः प्रख्यातः तथापि तथा + अपि तस्य देश-कालादीनां विषये (अस्माभिः) किञ्चिदपि किञ्चित् + अपि न ज्ञायते । इदम् अस्माकं दौर्भाग्यम् । 'कालिदासः अस्माकं कविः' इति भारतदेशस्य सर्वेषां जनपदानां जनाः वदन्ति । सः भारतदेशे सर्वत्र सञ्चारं कृत्वा उज्जयिन्यां दीर्घकालम् अवसत् इति ऊहा अस्ति ।
Though Kālidāsa was very famous, even then in the matter of his country, lifetime, etc ... not even a little is known (by us). This is our misfortune / ill-luck. 'Kālidāsa is our poet' thus say the people of every state of India. It is being guessed that, he having travelled everywhere in India, lived for a long time in Ujjain.
Toggle for कठिन-शब्दानाम् अर्थाः ।
  • प्रख्यात / त्रि (-तः-ता-तं) = प्रसिद्ध / त्रि (-दः-दा-दं) = famous
  • जनपद / पुं (-दः) = Any inhabited country
  • दौर्भाग्य / नपुं (-यं) = misfortune / ill-luck
  • अनन्यतम / त्रि (-मः-मा-मं) = न अन्यतमः / त्रि (-मः-मा-मं) = second to none among many

विक्रम-नृपस्य आस्थाने नव-मौक्तिकेषु अयं कालिदासः अनन्यतमः इति अधोदत्तं अधः + दत्तं पद्यं सूचयति ।

धन्वन्तरि-क्षपणक-अमरसिंह-शंकु
वेतालभट्ट-घटकर्पर-कालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायाम्
रत्नानि वै वररुचिः नव विक्रमस्य ॥

परन्तु विक्रम-नाम अनेके राजानः आसन् । अतः कालिदासेन वर्णितः विक्रम-राजा कः? अस्य निर्धारणं दुष्करम् अस्ति ।
The verse given below indicates that in the assembly of king Vikrama, among the 9 pearls (poets), this Kālidāsa was second to none (among many) / there was no one like this Kālidāsa.

The 9 gems in the court of King Vikrama are Dhanvantari, Kṣapaṇaka, Amarasiṃha, Śaṅku, Vetālabhaṭṭa, Ghaṭakarpara, Kālidāsa, Varāhamihira and Vararuci.

But, there were many kings named Vikrama. Therefore, which king Vikrama is extolled by Kālidāsa? Determining him is difficult.

Toggle for कठिन-शब्दानाम् अर्थाः ।
  • निर्धारण / नपुं (-णं) = determining
Toggle for additional notes ।
  • वैध्य-शास्त्र-निपुणः धन्वन्तरिः (expert in medicine)
  • साहित्य-शास्त्र-प्रसिद्धः क्षपणकः (famous in literature)
  • कोशे व्याकाणे च कुशलः अमरसिंहः (skilled in lexicography and grammar)
  • भूमापन-शास्त्रे कोविदः शङ्कुः (expert in study of geography)
  • मन्त्र-शास्त्र-ज्ञः वेतालभट्टः (expert in the science of magic)
  • शिल्प-शास्त्र-विशारदः घटकर्परः (skilled in arts or crafts)
  • कवि-कुल-गुरुः कालिदासः (hailed as the guru of the clan of poets)
  • ज्योतिश्शास्त्रज्ञः वराहमिहिरः (expert in astrology)
  • वार्तिककारः वररुचिः अथवा कात्यायनः (commentator)

कालिदासः विक्रमादित्यराज्ञः आस्थानकविः इति बहुजनैः कथितं परं विद्वद्भिः कालिदासस्य कालस्य विषये अस्य कथनस्य विविधाः अभिप्रायाः अभिव्यक्ताः । सः क्रि.पू. प्रथमशतमाने क्रि.श. चतुर्थशतमाने वा अभवत् इति अभिप्रायः अस्ति ।
After having been spoken by many people that 'Kālidāsa is a poet in the assembly of Vikramāditya', in the topic / subject of Kālidāsa's living period there are different opinions manifested by the learned on this statement. It is opined that he was in 1st century BC or 4th century AD.
Toggle for कठिन-शब्दानाम् अर्थाः ।
  • विविध / त्रि (-धः-धा-धं) = various, different
  • अभिव्यक्त / त्रि (-क्तः-क्ता-क्तं) = manifested

कालिदास-विरचिताः विंशति-त्रिंशत् ग्रन्थाः उपलब्धाः । परन्तु तेषु केवलं षट्-सप्त ग्रन्थाः एव कालिदासेन विरचिताः इति पण्डितैः पुष्टिताः । ते रघुवंशं, कुमारसम्भवम् इति द्वे महाकाव्ये ; मेघदूतम्, ऋतुसंहारं च द्वे खण्डकाव्ये ; मालविकाग्निमित्रं, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलं च त्रीणि नाटकानि । ऋतुसंहारस्य कर्तृत्वं प्रति संदेहमस्ति । विक्रमादित्यस्य सभायां कालिदासस्य नाटकानां मञ्चनं सञ्जातम् ।
We have obtained 20-30 books written by Kālidāsa. But the scholars say that, of those, only 6-7 books are written by Kālidāsa. They are 2 Mahākāvyās (elaborate poetic work) viz., Raghuvaṃśa, Kumārasambhava; 2 Khaṇḍakāvyās (short poetic works) viz., Meghadūtaḥ, Ṛtusaṃhāra; and 3 Nāṭakās (dramas) viz., Mālavikāgnimitram, Vikramorvaśīyam, Abhijñānaśākuntalam. With regard to authorship of Ṛtusaṃhāra, there is some doubt. In the assembly of Vikramāditya, the dramas of Kālidāsa were staged.
कालिदासस्य कृतिषु प्रसाद-माधुर्य-गुणयोः अपूर्व-सम्मिश्रणं वर्तते । रस- परिपाकोऽपि परिपाकः + अपि
= परिपाको + अपि
उत्तमरीत्या अभवत् । कलिदासः नीरसं कथानकमपि सरसं मनोरमं मनः + रमम्
= मनो + रमम्
च करोति । कालिदासस्य लोकप्रियतायाः कारणं तस्य ललिता परिष्कृता शैली अस्ति । अलङ्कारेषु उपमायाः प्रयोगः अद्वितीयः अस्ति । चरित्रचित्रणे कालिदासः अतीव अति + इव
(अव्ययम्)
पटुः अस्ति । भाषा भावश्च भावः + च पात्रानुकूलौ तिष्ठतः । कालिदासस्य प्रकृतिचित्रणम् अतीव रम्यम् अस्ति । कालिदासस्य उपमाप्रयोगः अनुपमोऽस्ति, कथ्यते अपि -- 'उपमा कालिदासस्य' ।
In the creations of Kālidāsa, there exists an unprecedented mix of elegance / clarity, sweetness and quality. The essence and maturity were also of an excellent kind. Kālidāsa transforms even a dry short story, into one with essence, and that is delightful to mind. Kālidāsa's simple and well-decorated style is the reason for people's love for him. In the science of rhetoric (अलङ्कार-शास्त्रम्), the use of similie (उपमा) is second to none. In describing story / history / behaviour / acts / deeds, Kālidāsa is extremely adept. The language and the emotions sits comfortably (commensurate) to the character. Kālidāsa's description of nature is extremely delightful. Kālidāsa's use of similie is uncomparable, hence also hailed as 'similie of Kālidāsa'.
Toggle for कठिन-शब्दानाम् अर्थाः ।
  • प्रसाद / पुं (-दः) = elegance, grace, clarity
  • नीरस / त्रि (-सः-सा-सं) = रसहीन / त्रि (-नः-ना-नं) = dry, without juice
  • कथानक / नपुं (-कं) = a short tale or story
  • मनोरम / त्रि (-मः-मा-मं) = beautiful, lovely, pleasing
  • चरित्र / नपुं (-त्रं) = story, history, behaviour, acts, deeds
  • पटु / त्रि (-टुः-ट्वी-टु) = निपुण / त्रि (-णः-णा-णं) = adept, expert, skillful

Comments