संस्कृतदीपिका द्वितीया पाठाभ्यासः ।


॥ संस्कृतदीपिका द्वितीया पाठाभ्यासः ॥


पाठाः
















प्रश्नविधाः


























Go Top
क्रमः प्रश्नः उत्तरम्

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
सदाशिवसमारम्भां … गुरुपरम्पराम् ॥

  01.00.01

श्लोकः (Verse) ---
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

अन्वयः (Prose order) ---
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां गरुपरम्पराम् (अहं) वन्दे ।

अर्थः (Purport) ---
I salute the lineage of Gurus, starting from Sadashiva, Sri Bhavadpadacharya in the middle and upto our Gurus.

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
अगजाननपद्मार्कं … उपास्महे ॥

  01.00.02

श्लोकः (Verse) ---
अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥

अन्वयः (Prose order) ---
(वयम्) अहर्निशम् अगजाननपद्मार्कं गजाननम् एकदन्तं भक्तानाम् अनेकदं तम् उपास्महे ।

अर्थः (Purport) ---
We worship day and night, that Lord, who brightens up the face of His Mother, Parvati (who is the daughter of mountain), as the Sun makes the Lotus expand, who has the face of an elephant, who is one-tusked, and who is the bestower of many boons to His devotees.

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
शारदा … सन्निधिं क्रियात् ॥

  01.00.03

श्लोकः (Verse) ---
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥

अन्वयः (Prose order) ---

अर्थः (Purport) ---

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
विदिताखिलशास्त्रसुधाजलधे … शरणम् ॥

  01.00.04

श्लोकः (Verse) ---
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे ।
हृदये कलये विमलं चरणं भव शङ्करदेशिक मे शरणम् ॥

अन्वयः (Prose order) ---

अर्थः (Purport) ---

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
नारायणाय ... परस्मै नमः ॥

  01.00.05

श्लोकः (Verse) ---
नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय ।
नानाचराचरविधायकजन्मदेश-नाभीपुटाय पुरुषाय नमः परस्मै ॥

अन्वयः (Prose order) ---
नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय नानाचराचरविधायकजन्मदेश-नाभीपुटाय पुरूषाय परस्मै नमः

अर्थः (Purport) ---
Salutations to the Supreme being Narayana, whose eyes are wide like the lotus, who is glorious by retaining the name of king Mahabali among us and from whose naval the creator of various living and non-living beings was born.

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
इन्दुः कदा उदेति ?

  02.01.01
इन्दुः रात्रौ उदेति ।

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
चन्द्रिका कीदृशी वर्तते ?

  02.01.02
चन्द्रिका शीतला आह्लादकरी च वर्तते ।

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कस्य प्रकाशः स्वकीयः ?

  02.01.03
सूर्यस्य प्रकाशः स्वकीयः ।

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कस्य प्रकाशः परकीयः ?

  02.01.04
चन्द्रस्य प्रकाशः परकीयः ।
१०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
भूमिं परितः कः प्रदक्षिणं करोति ?

  02.01.05
भूमिं परितः चन्द्रः प्रदक्षिणं करोति ।
११

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
चन्द्रस्य बिम्बं कदा पूर्णं भवति ?

  02.01.06
चन्द्रस्य बिम्बं पूर्णिमायां पूर्णं भवति ।
१२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
चन्द्रस्य कति कलाः सन्ति ?

  02.01.07
चन्द्रस्य षोडशकलाः सन्ति ।
१३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
ईश्वरः शीर्षे कां वहति ?

  02.01.08
ईश्वरः शीर्षे चन्द्रकलासु एकां कलां वहति ।
१४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
चन्द्रस्य कला कदा न दृश्यते गगने ?

  02.01.09
चन्द्रस्य कला अमावास्यायां न दृश्यते गगने ।
१५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
के परमेश्वरस्य प्रियाः भवन्ति ?

  02.01.10
ये साधु कर्म कुर्वन्ति ते परमेश्वरस्य प्रियाः भवन्ति ।
१६

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
रात्रौ

  02.02.01
रात्रौ →
     इकारान्तः
     स्त्रीलिङ्गः
     रात्रि शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
१७

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
दिने

  02.02.02
दिने →
     अकारान्तः
     नपुंसकलिङ्गः
     दिन शब्दः
     प्रथमा / द्वितीया-विभक्तिः
     द्वि-वचनम्

दिने →
     अकारान्तः
     नपुंसकलिङ्गः
     दिन शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
१८

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
विधोः

  02.02.03
विधोः →
     उकारान्तः
     पुंलिङ्गः
     विधु शब्दः
     पञ्चमी / षष्ठी-विभक्तिः
     एक-वचनम्
१९

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
पूर्णिमायाम्

  02.02.04
पूर्णिमायाम् →
     आकारान्तः
     स्त्रीलिङ्गः
     पूर्णिमा शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
२०

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
गगने

  02.02.05
गगने →
     अकारान्तः
     नपुंसकलिङ्गः
     गगन शब्दः
     प्रथमा / द्वितीया-विभक्तिः
     द्वि-वचनम्

गगने →
     अकारान्तः
     नपुंसकलिङ्गः
     गगन शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
२१

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
नेत्रे

  02.02.06
नेत्रे →
     अकारान्तः
     नपुंसकलिङ्गः
     नेत्र शब्दः
     प्रथमा / द्वितीया-विभक्तिः
     द्वि-वचनम्

नेत्रे →
     अकारान्तः
     नपुंसकलिङ्गः
     नेत्र शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
२२

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
रवेः

  02.02.07
रवेः →
     अकारान्तः
     पुंलिङ्गः
     रवि शब्दः
     पञ्चमी / षष्ठी-विभक्तिः
     एक-वचनम्
२३

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
चन्द्रिकायाः

  02.02.08
चन्द्रिकायाः →
     आकारान्तः
     स्त्रीलिङ्गः
     चन्द्रिका शब्दः
     पञ्चमी / षष्ठी-विभक्तिः
     एक-वचनम्
२४

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
ते

  02.02.09
ते →
     दकारान्तः
     पुंलिङ्गः
     तद् शब्दः
     प्रथमा-विभक्तिः
     बहु-वचनम्

ते →
     दकारान्तः
     स्त्री / नपुंसक-लिङ्गः
     तद् शब्दः
     प्रथमा / द्वितीया-विभक्तिः
     द्वि-वचनम्
२५

समानार्थकपदं लिखत ।
इन्दुः

  02.03.01
अमरकोशः →
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ।
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ॥


१) हिमांशुः (हिमांशु / पुं)
२) चन्द्रमाः (चन्द्रमस् / पुं)
३) चन्द्रः (चन्द्र / पुं)
४) इन्दुः (इन्दु / पुं)
५) कुमुदबान्धवः (कुमुदबान्धव / पुं)
६) विधुः (विधु / पुं)
७) सुधांशुः (सुधांशु / पुं)
८) शुभ्रांशुः (शुभ्रांशु / पुं)
९) ओषधीशः (ओषधीश / पुं)
१०) निशापतिः (निशापति / पुं)
२६

समानार्थकपदं लिखत ।
रात्रिः

  02.03.02
अमरकोशः →
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
विभावरीतमस्विन्यौ रजनी यामिनी तमी ॥

१) निशा (निशा / स्त्री)
२) निशीथिनी (निशीथिनी / स्त्री)
३) रात्रिः (रात्रि / स्त्री)
४) त्रियामा (त्रियामा / स्त्री -- त्रयो यामाः प्रहरा यस्याः)
५) क्षणदा (क्षणदा / स्त्री)
६) क्षपा (क्षपा / स्त्री)
७) विभावरी (विभावरी / स्त्री)
८) तमस्विनी (तमस्विनी / स्त्री)
९) रजनी (रजनी / स्त्री)
१०) यामिनी (यामिनी / स्त्री)
११) तमी (तमी / स्त्री)
२७

समानार्थकपदं लिखत ।
चन्द्रिका

  02.03.03
अमरकोशः →
चन्द्रिका कौमुदी ज्योत्स्ना ।

१) चन्द्रिका (चन्द्रिका / स्त्री)
२) कौमुदी (कौमुदी / स्त्री)
३) ज्योत्स्ना (ज्योत्स्ना / स्त्री)
२८

समानार्थकपदं लिखत ।
भूमिः

  02.03.04
अमरकोशः →
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।
धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥

१) भूः (भू / स्त्री)
२) भूमिः (भूमि / स्त्री)
३) अचला (अचला / स्त्री)
४) अनन्ता (अनन्ता / स्त्री)
५) रसा (रसा / स्त्री)
६) विश्वम्भरा (विश्वम्भरा / स्त्री)
७) स्थिरा (स्थिरा / स्त्री)
८) धरा (धरा / स्त्री)
९) धरित्री (धरित्री / स्त्री)
१०) धरणिः (धरणि / स्त्री)
११) क्षोणी (क्षोणी / स्त्री)
१२) ज्या (ज्या / स्त्री)
१३) काश्यपी (काश्यपी / स्त्री)
१४) क्षिति (क्षिति / स्त्री)
२९

समानार्थकपदं लिखत ।
शीर्षम्

  02.03.05
शिरस्
३०

समानार्थकपदं लिखत ।
नेत्रम्

  02.03.06
लोचनम्
३१

समानार्थकपदं लिखत ।
गगनम्

  02.03.07
अमरकोशः →
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥

१) द्यौः (द्यो / स्त्री)
२) द्यौः (दिव् / स्त्री)
३) अभ्रः (अभ्र / नपुं)
४) (व्योमन् / नपुं)
५) पुष्करम् (पुष्कर / नपुं)
६) अम्बरम् (अम्बर / नपुं)
७) नभः (नभस् / पुं)
८) अन्तरिक्षम् (अन्तरिक्ष / नपुं)
९) गगनम् (गगन / नपुं)
१०) अनन्तम् (अनन्त / नपुं)
११) (सुरवर्त्मन् / नपुं)
१२) खम् (ख / नपुं)

अमरकोशः →
वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी ।
विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् ॥

१) वियत् (वियत् / नपुं)
२) विष्णुपदम् (विष्णुपद / नपुं)
३) आकाशः (आकाश / पुं)
४) आकाशम् (आकाश / नपुं)
५) (विहायस् / पुं)
६) (विहायस् / नपुं)
७) नाकः (नाक / पुं)
८) द्यु (द्यु / अव्ययम्)

अमरकोशः →
तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ।
विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥

१) तारापथः (तारापथ / पुं)
२) अन्तरिक्षम् (अन्तरिक्ष / नपुं)
३) (मेघाध्वन् / पुं)
४) महाबिलम् (महाबिल / नपुं)
५) शकुनः (शकुन / पुं)
६) गगनम् (गगन / नपुं)
३२

समानार्थकपदं लिखत ।
कर्म

  02.03.08
कार्यम्
३३

विरुद्धार्थकपदं लिखत ।
स्वकीयः

  02.04.01
परकीयः
३४

विरुद्धार्थकपदं लिखत ।
प्रकाशः

  02.04.02
अन्धकारः, ध्वान्तः, तमिस्रः, तिमिरः, तमः

अमरकोशः →
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ।
३५

विरुद्धार्थकपदं लिखत ।
क्षीयते

  02.04.03
वर्धते
३६

विरुद्धार्थकपदं लिखत ।
साधुः

  02.04.04
दुष्टः
३७

विरुद्धार्थकपदं लिखत ।
गुणः

  02.04.05
विगुणः
३८

इतरवचनद्वयं लिखत ।
इन्दोः

  02.05.01

इन्दु / पुं ए.व द्वि.व ब.व
प.वि इन्दोः [इन्दुभ्याम्] [इन्दुभ्यः]
ष.वि इन्दोः [इन्द्वोः] [इन्दूणाम्]

३९

इतरवचनद्वयं लिखत ।
शीर्षे

  02.05.02

शीर्ष / नपुं ए.व द्वि.व ब.व
प्र.वि [शीर्षम्] शीर्षे [शीर्षाणि]
स.प्र.वि [हे शीर्ष] हे शीर्षे [हे शीर्षाणि]
द्वि.वि [शीर्षम्] शीर्षे [शीर्षाणि]
स.वि शीर्षे [शीर्षयोः] [शीर्षेषु]

४०

इतरवचनद्वयं लिखत ।
पूर्णिमायाम्

  02.05.03
पूर्णिमायाम् - [पूर्णिमयोः] [पूर्णिमासु]
४१

इतरवचनद्वयं लिखत ।
सूर्यस्य

  02.05.04
सूर्यस्य - [सूर्ययोः] - [सूर्याणाम्]
४२

इतरवचनद्वयं लिखत ।
शीतला

  02.05.05
शीतला - [शीतले] - [शीतलाः]
४३

इतरवचनद्वयं लिखत ।
कलाम्

  02.05.06
कलाम् - [कले] - [कलाः]
४४

इतरवचनद्वयं लिखत ।
गगने

  02.05.07
[गगनम्] - गगने - [गगनानि]
गगने - [गगनयोः] - [गगनेषु]
४५

इतरवचनद्वयं लिखत ।
ये

  02.05.08

यत् / पुं ए.व द्वि.व ब.व
प्र.वि [यः] [यौ] ये


यत् / स्त्री ए.व द्वि.व ब.व
प्र.वि [या] ये [याः]
द्वि.वि [याम्] ये [याः]


यत् / नपुं ए.व द्वि.व ब.व
प्र.वि [यत्] ये [यानि]
द्वि.वि [यत्] ये [यानि]

४६

व्याकरणविशेषं लिखत ।
भूमिं परितः

  02.06.01
परितः इति अव्ययस्य योगे द्वितीया-विभक्तिः भवति ।

यथा ---
गुरुं परितः छात्राः तिष्ठन्ति ।
भूमिं परितः चन्द्रः भ्रमति ।
४७

वाक्ये योजयत ।
कापि

  02.07.01
तत्र [कापि] भवति वा ?
४८

वाक्ये योजयत ।
परितः

  02.07.02
हिमालयं [परितः] अरण्यानि सन्ति ।
४९

वाक्ये योजयत ।
अत एव

  02.07.03
अद्य रविवासरः [अत एव] गृहे अस्मि ।
५०

वाक्ये योजयत ।
क्रमेण

  02.07.04
चन्द्रः [क्रमेण] वर्धते क्षीयते अपि च ।
५१

वाक्ये योजयत ।
नेत्राभ्याम्

  02.07.05
वयं [नेत्राभ्यां] पश्यामः ।
५२

वाक्ये योजयत ।
पुनः

  02.07.06
एक वारं [पुनः] वदतु ।
५३

वाक्ये योजयत ।
सुखम्

  02.07.07
वयं सर्वे [सुखम्] निवसामः ।
५४

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ रात्रौ ] इन्दुः उदयते ।

  02.08.01
[कदा] इन्दुः उदयते ?
५५

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ विधोः ] प्रकाशः परकीयः ।

  02.08.02
[कस्य] प्रकाशः परकीयः ?
५६

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
विधोः [ अमूल्यम् ] आभरणं रात्रिः ।

  02.08.03
विधोः [कीदृशम्] आभरणं रात्रिः ?
५७

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
परमेश्वरः [ नेत्राभ्यां ] जनानां व्यवहारं पश्यति ।

  02.08.04
परमेश्वरः [केभ्यां] जनानां व्यवहारं पश्यति ?
५८

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
चन्द्रिका [ शीतला ] वर्तते ।

  02.08.05
चन्द्रिका [कीदृशी] वर्तते ?
५९

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ गगने ] विधोः कला न दृश्यते ।

  02.08.06
[कुत्र] विधोः कला न दृश्यते ?
६०

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
चन्द्रस्य [ षोडशकलाः ] सन्ति ।

  02.08.07
चन्द्रस्य [कति कलाः] सन्ति ?
६१

धातु-लकार-पुरुष-वचनानि लिखत ।
उदेति

  02.09.01
उदेति (उत् + इ + कर्तरि लँट् / प्र.पु / ए.व) →
     उत्-उपसर्गः
     इ [इण् गतौ]-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
६२

धातु-लकार-पुरुष-वचनानि लिखत ।
सन्ति

  02.09.02
सन्ति (अस् + कर्तरि लँट् / प्र.पु / ब.व) →
     अस्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     बहु-वचनम्
६३

धातु-लकार-पुरुष-वचनानि लिखत ।
पश्यति

  02.09.03
पश्यति (दृश् + कर्तरि लँट् / प्र.पु / ए.व) →
     दृश्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
६४

धातु-लकार-पुरुष-वचनानि लिखत ।
लभते

  02.09.04
लभते (लभ् + कर्तरि लँट् / प्र.पु / ए.व) →
     लभ्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
६५

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
दधिशङ्खतुषाराभं … शम्भोर्मुकुटभूषणम् ॥

  02.10.01

श्लोकः (Verse) ---
दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥

अन्वयः (Prose order) ---
(अहं) दधि-शङ्ख-तुषार-आभं क्षीर-उद-अर्णव-संभवं शम्भोः-मुकुट-भूषणं शशिनं सोमं नमामि ।

चन्द्रस्य षोडश-कलानां नामानि इति -- (१) अमृता, (२) प्राणदा, (३) पूषा, (४) तुश्ती, (५) पुश्ती, (६) रतिः, (७) धृतिः, (८) शशिनी, (९) चन्द्रिका, (१०) कान्तिः, (११) ज्योत्स्ना, (१२) श्रीः, (१३) प्रीतिः, (१४) अङ्गदा, (१५) पूर्णा, (१६) पूर्णमृता ।

अर्थः (Purport) ---
I prostrate to moon, who resembles the hue of curd, conch and snow, who emerges from the milky ocean, who is the ornament on the crown of Shiva.

Additional note ---
The literal meaning of the sixteen Kalas of Moon (Soma) are --
(1) amṛtā = Ambrosial,
(2) prāṇadā = life-giving,
(3) pūṣā = nourishing growth, pūṣas is a Vedic Deity associated with Soma,
(4) tuśtī = contentment,
(5) puśtī = nourishment,
(6) ratiḥ = attachment,
(7) dhṛtiḥ = constancy,
(8) śaśinī = containing the hare ("Man in the Moon"),
(9) candrikā = beam spreading,
(10) kāntiḥ = effulgence, beauty,
(11) jyotsnā = moonlight,
(12) śrīḥ = prosperity,
(13) prītiḥ = delight,
(14) aṅgadā = body or limb developing,
(15) pūrṇā = full, complete,
(16) pūrṇamṛtā = full of nectar
६६

अमरकोशः ।
रात्रिः

  02.11.01
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
६७

अमरकोशः ।
आकाशः

  02.11.01
नभोऽन्तरिक्षं गगनम् अनन्तं सुवर्त्म खम् ।
६८

अमरकोशः ।
ज्योत्स्ना

  02.11.01
चन्द्रिका कौमुदी ज्योत्स्ना ।
६९

अमरकोशः ।
चन्द्रः

  02.11.01
हिमांशुश्चन्द्रमाश्चन्द्रः इन्दुः कुमुदबान्धवः।
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः॥
७०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
गोः कति पादाः सन्ति ?

  03.01.01
गोः चत्वारः पादाः सन्ति ।
७१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
गौः कीदृशी भवति ?

  03.01.02
गौः परमा साध्वी भवति ।
७२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
वत्सः कुत्र अस्ति ?

  03.01.03
वत्सः समीपे तिष्ठति ।
७३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
गोदोहनकालौ कौ ?

  03.01.04
प्रातः सायं च द्वौ गोदोहनकालौ भवतः ।
७४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
गोपालः कथं दुग्धं दोग्धि ?

  03.01.05
गोपालः वामेन करेण पात्रं धृत्वा, दक्षिणेन हस्तेन दुग्धं दोग्धि ।
७५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
गाव: किं किं खादन्ति ?

  03.01.06
गावः हरितानि तृणानि, पिण्याकं, कार्पासबीजानि, बुसं च खादन्ति ।
७६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
धेनूनां क्षीरं कथं भवति ?

  03.01.07
धेनूनां क्षीरं सर्वेषां पथ्यं भवति ।
७७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
क्षीरेण दधि कथं भवति ?

  03.01.08
क्षीरस्य आतञ्चनात् दधि भवति ।
७८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
तप्तं नवनीतं किं जनयति ?

  03.01.09
तप्तं नवनीतं घृतं जनतयति ।
७९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
क्षीरेण किं किं भवति ?

  03.01.10
दधि, तक्रं, नवनीतं च घृतं क्षीरेण भवति ।
८०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
गौः अस्माभिः कथं रक्षणीया ?

  03.01.11
गौः अस्माभिः निधिः इव रक्षणिया ।
८१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
लोकस्य मातरः काः ?

  03.01.12
लोकस्य मातरः गावः सन्ति ।
८२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
पञ्चगव्ये किं किम् अस्ति ?

  03.01.13
पञ्चगव्ये गोमयं, गोमूत्रं, गोघृतं, दघि, क्षीरं - एतानि सन्ति ।
८३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कस्य प्राशनं सकलपापक्षयकारकम् ?

  03.01.14
पञ्चगव्यस्य प्राशनं सकलपापनिवारकम् ।
८४

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
गौः

  03.02.01
गौः →
     ओकारान्तः
     पुं / स्त्री-लिङ्गः
     गो शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
८५

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
अस्याः

  03.02.02
अस्याः →
     मकारान्तः
     स्त्रीलिङ्गः
     इदम् शब्दः
     पञ्चमी / षष्ठी-विभक्तिः
     एक-वचनम्
८६

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
करेण

  03.02.03
करेण →
     अकारान्तः
     नपुंसकलिङ्गः
     कर शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
८७

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
प्रीत्या

  03.02.04
प्रीत्या →
     इकारान्तः
     स्त्रीलिङ्गः
     प्रीति शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
८८

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
तृणानि

  03.02.05
तृणानि →
     अकारान्तः
     नपुंसकलिङ्गः
     तृण शब्दः
     प्रथमा / द्वितीया-विभक्तिः
     बहु-वचनम्
८९

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
तक्रेण

  03.02.06
तक्रेण →
     अकारान्तः
     नपुंसकलिङ्गः
     तक्र शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
९०

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
भोजनाय

  03.02.07
भोजनाय →
     अकारान्तः
     नपुंसकलिङ्गः
     भोजन शब्दः
     चतुर्थी-विभक्तिः
     एक-वचनम्
९१

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
अस्माभिः

  03.02.08
अस्माभिः →
     दकारान्तः
     त्रिलिङ्गः
     अस्मद् शब्दः
     तृतीया-विभक्तिः
     बहु-वचनम्
९२

इतरवचनद्वयं लिखत ।
शृङ्गे

  03.03.01
[शृङ्गम्] - शृङ्गे - [शृङ्गाणि]
शृङ्गे - [शृङ्गयोः] - [शृङ्गेषु]
९३

इतरवचनद्वयं लिखत ।
पादाः

  03.03.02
[पादः] - [पादौ] - पादाः
९४

इतरवचनद्वयं लिखत ।
गौः

  03.03.03
गौः - [गावौ] - [गावः]
९५

इतरवचनद्वयं लिखत ।
हस्तेन

  03.03.04
हस्तेन - [हस्ताभ्याम्] - [हस्तैः]
९६

इतरवचनद्वयं लिखत ।
तानि

  03.03.05
[तत्] - [ते] - तानि
९७

इतरवचनद्वयं लिखत ।
धेनूनाम्

  03.03.06
[धेन्वाः / धेनोः] - [धेन्वोः] - धेनूनाम्
९८

इतरवचनद्वयं लिखत ।
भोजनाय

  03.03.07
भोजनाय - [भोजनाभ्याम्] - [भोजनेभयः]
९९

इतरवचनद्वयं लिखत ।
ताः

  03.03.08
[सा] - [ते] - ताः
[ताम्] - [ते] - ताः
१००

इतरवचनद्वयं लिखत ।
बुद्धिः

  03.03.09
बुद्धिः - [बुद्धी] - [बुद्धयः]
१०१

इतरवचनद्वयं लिखत ।
जलाशयात्

  03.03.10
जलाशयात् - [जलाशयाभ्याम्] - [जलाशयेभ्यः]
१०२

समानार्थकपदं लिखत ।
गौः

  03.04.01
धेनुः
१०३

समानार्थकपदं लिखत ।
करः

  03.04.02
हस्तः
१०४

समानार्थकपदं लिखत ।
पादः

  03.04.03
चरणम्
१०५

समानार्थकपदं लिखत ।
क्षीरम्

  03.04.04
दुग्धम्
१०६

समानार्थकपदं लिखत ।
तोयम्

  03.04.05
अमरकोशः →
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥

१) कबन्धम् (कबन्ध / नपुं)
२) उदकम् (उदक / नपुं)
३) पाथम् (पाथ / नपुं)
४) पुष्करम् (पुष्कर / नपुं)
५) सर्वतोमुखम् (सर्वतोमुख / नपुं)
६) अम्भः (अम्भस् / नपुं)
७) अर्णः (अर्णस् / नपुं)
८) तोयम् (तोय / नपुं)
९) पानीयम् (पानीय / नपुं)
१०) नीरम् (नीर / नपुं)
११) क्षीरम् (क्षीर / नपुं)
१२) अम्बु (अम्बु / नपुं)
१३) शम्बरम् (शम्बर / नपुं)

अमरकोशः →
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।
पयः कीलालममृतं जीवनं भुवनं वनम् ॥

१४) आपः (अप् / स्त्री-बहु)
१५) वाः (वार् / नपुं)
१६) वारि (वारि / नपुं)
१७) सलिलम् (सलिल / नपुं)
१८) कमलम् (कमल / नपुं)
१९) जलम् (जल / नपुं)
२०) पयः (पयस् / नपुं)
२१) कीलालम् (कीलाल / नपुं)
२२) अमृतम् (अमृत / नपुं)
२३) जीवनम् (जीवन / नपुं)
२४) भुवनम् (भुवन / नपुं)
२५) वनम् (वन / नपुं)
१०७

समानार्थकपदं लिखत ।
बुद्धिः

  03.04.06
अमरकोशः →
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना ॥

१) बुद्धिः (बुद्धि / स्त्री)
२) मनीषा (मनीषा / स्त्री)
३) धिषणा (धिषणा / स्त्री)
४) धीः (धी / स्त्री)
५) प्रज्ञा (प्रज्ञा / स्त्री)
६) मतिः (मति / स्त्री)
७) शेमुषी (शेमुषी / स्त्री)
८) प्रेक्षा (प्रेक्षा / स्त्री)
९) उपलब्धिः (उपलब्धि / स्त्री)
०) चित् (चित् / स्त्री)
११) संविद् (संविद् / स्त्री)
१२) प्रतिपत् (प्रतिपत् / स्त्री)
१३) ज्ञप्तिः (ज्ञप्ति / स्त्री)
१४) चेतना (चेतना / स्त्री)
१०८

समानार्थकपदं लिखत ।
पुच्छम्

  03.04.07
लाङ्गूलम्
१०९

समानार्थकपदं लिखत ।
समीपम्

  03.04.08
पार्श्वम्
११०

समानार्थकपदं लिखत ।
माता

  03.04.09
अमरकोशः →
अम्बा माताथ ।
जनयित्री प्रसूर्माता जननी ।

१) अम्बा (अम्बा / स्त्री)
२) माता (मातृ / स्त्री)
३) जनयित्री (जनयित्री / स्त्री)
४) प्रसूः (प्रसू / स्त्री)
५) जननी (जननी / स्त्री)
१११

समानार्थकपदं लिखत ।
शृङ्गम्

  03.04.10
विषाणम्
११२

विरुद्धार्थकपदं लिखत ।
प्रातः

  03.05.01
सायम्
११३

विरुद्धार्थकपदं लिखत ।
वामः

  03.05.02
दक्षिणः
११४

विरुद्धार्थकपदं लिखत ।
मधुरम्

  03.05.03
मधुः [मधुरम्] अस्ति ।
११५

विरुद्धार्थकपदं लिखत ।
पथ्यम्

  03.05.04
वृद्धाय [पथ्यं] भोजनं मिलति चेत् सम्यक् ।
११६

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
पिबति

  03.06.01

पा + कर्तरि लँट् ए.व द्वि.व ब.व
प्र.पु पिबति पिबतः पिबन्ति
म.पु पिबसि पिबथः पिबथ
उ.पु पिबामि पिबावः पिबामः

११७

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
प्राप्यते

  03.06.02

प्र + आप् + कर्तरि लँट् ए.व द्वि.व ब.व
प्र.पु प्राप्यते प्राप्येते प्राप्यन्ते
म.पु प्राप्यसे प्राप्येथे प्राप्यध्वे
उ.पु प्राप्ये प्राप्यावहे प्राप्यामहे

११८

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
ददाति

  03.06.03

दा + कर्तरि लँट् ए.व द्वि.व ब.व
प्र.पु ददाति दत्तः ददति
म.पु ददासि दत्थः दत्थ
उ.पु ददामि दद्वः दद्मः

११९

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
अस्ति

  03.06.04

अस् + कर्तरि लँट् ए.व द्वि.व ब.व
प्र.पु अस्ति स्तः सन्ति
म.पु असि स्थः स्थ
उ.पु अस्मि स्वः स्मः

१२०

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
विद्यते

  03.06.05

विद् + कर्तरि लँट् ए.व द्वि.व ब.व
प्र.पु विद्यते विद्येते विद्यन्ते
म.पु विद्यसे विद्येथे विद्यध्वे
उ.पु विद्ये विद्यावहे विद्यामहे

१२१

वाक्ये योजयत ।
धृत्वा

  03.07.01
सा शाटिकां [धृत्वा] आपणं गच्छति ।
१२२

वाक्ये योजयत ।
द्विवारम्

  03.07.02
अहम् पाठं [द्विवारं] अपठम् ।
१२३

वाक्ये योजयत ।
नवनीतम्

  03.07.03
श्रीकृष्णाय [नवनीतं] बहु रोचते ।
१२४

वाक्ये योजयत ।
रक्षणीया

  03.07.04
गौः माता इव [रक्षणीया]
१२५

वाक्ये योजयत ।
भुक्त्वा

  03.07.05
अहं [भुक्त्वा] निद्रां करोमि ।
१२६

वाक्ये योजयत ।
विना

  03.07.06
जलं [विना] जीवनं नास्ति ।
१२७

वाक्ये योजयत ।
लम्बम्

  03.07.07
गोः पुच्छं [लम्बम्] अस्ति ।
१२८

वाक्ये योजयत ।
समीपे

  03.07.08
मम गृहस्य [समीपे] मन्दिरम् अस्ति ।
१२९

विजातीयपदं लिखत ।
पादः, करः, मस्तकम्, काष्ठम्

  03.08.01
काष्ठम्
१३०

विजातीयपदं लिखत ।
दधि, तक्रम्, मधु, घृतम्,

  03.08.02
मधु
१३१

विजातीयपदं लिखत ।
गौः, मयूरः, गर्दभः, महिषी

  03.08.03
मयूरः
१३२

विजातीयपदं लिखत ।
गोमयम्, गोमूत्रम्, घृतम्, नवनीतम्

  03.08.04
नवनीतम्
१३३

बहुवचने लिखत ।
एषा गौः ।

  03.09.01
एताः गावः ।
१३४

बहुवचने लिखत ।
गौः लोकस्य माता ।

  03.09.02
गावः लोकस्य मातारः ।
१३५

बहुवचने लिखत ।
प्रत्यहं गोपालः गां क्षीरं दोग्धि ।

  03.09.03
प्रत्यहं गोपालाः गां क्षीरं दुहन्ति ।
१३६

बहुवचने लिखत ।
धेनुः तृणं खादति ।

  03.09.04
धेनवः तृणं खादन्ति ।
१३७

बहुवचने लिखत ।
अहं क्षीरं पिबामि ।

  03.09.05
वयं क्षीरं पिबामः ।
१३८

बहुवचने लिखत ।
तत् भोजनाय उपयुज्यते ।

  03.09.06
तानि भोजनाय उपयुज्यन्ते ।
१३९

व्याकरणविशेषं लिखत ।
विना

  03.10.01
"पृथक्-विना-नानाभिः तृतीया अन्यतरस्याम्" इति सूत्रेण विना इति अव्ययस्य योगे द्वितीया-तृतीया-पञ्चमी-विभक्तयः भवन्ति ।
१४०

व्याकरणविशेषं लिखत ।
पृथक्

  03.10.02
"पृथक्-विना-नानाभिः तृतीया अन्यतरस्याम्" इति सूत्रेण पृथक् इति अव्ययस्य योगे द्वितीया-तृतीया-पञ्चमी-विभक्तयः भवन्ति ।
१४१

व्याकरणविशेषं लिखत ।
नाना

  03.10.03
"पृथक्-विना-नानाभिः तृतीया अन्यतरस्याम्" इति सूत्रेण नाना इति अव्ययस्य योगे द्वितीया-तृतीया-पञ्चमी-विभक्तयः भवन्ति ।
१४२

व्याकरणविशेषेण रिक्तस्थानं पूरयत ।
वयं [ x ] / [ x ] / [ x ] विना न जीवामः । (वायु)

  03.11.01
वयं [वायुं] / [वायुना] / [वायोः] विना न जीवामः ।
१४३

व्याकरणविशेषेण रिक्तस्थानं पूरयत ।
शिशुः [ x ] / [ x ] / [ x ] पृथक् रोदिति । (कारण)

  03.11.02
शिशुः [कारणं] / [कारणेन] / [कारणात्] पृथक् रोदिति ।
१४४

व्याकरणविशेषेण रिक्तस्थानं पूरयत ।
जनाः [ x ] / [ x ] / [ x ] नाना नदीं तर्तुं न शक्नुवन्ति । (उडुप)

  03.11.03
जनाः [उडुपं] / [उडुपेन] / [उडुपात्] नाना नदीं तर्तुं न शक्नुवन्ति ।
१४५

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
भुक्त्वा तृणानि … मातरः ॥

  03.12.01

श्लोकः (Verse) ---
भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात् ।
दुग्धं ददति लोकेभ्यः गावो लोकस्य मातरः ॥

अन्वयः (Prose order) ---
(गावः) शुष्काणि तृणानि भुक्त्वा, जलाशयात् तोयं पीत्वा, लोकेभ्यः दुग्धं ददति । गावः लोकस्य मातरः ।

अर्थः (Purport) ---
Having eaten the dry grass, having drunk water from the pond, the cows give milk to the world. Cows are the mother to the world.
१४६

संस्कृतेन अर्थं लिखत ।
horn

  03.13.01
शृङ्गम् , विषाणम्
१४७

संस्कृतेन अर्थं लिखत ।
tail

  03.13.02
पुच्छः, लाङ्गूलम्
१४८

संस्कृतेन अर्थं लिखत ।
calf

  03.13.03
वत्सः
१४९

संस्कृतेन अर्थं लिखत ।
everyday

  03.13.04
प्रत्यहम्
१५०

संस्कृतेन अर्थं लिखत ।
milks

  03.13.05
दोग्धि
१५१

संस्कृतेन अर्थं लिखत ।
butter

  03.13.06
नवनीतम् , हैयङ्गवीयम् , नवोद्धृतम्
१५२

संस्कृतेन अर्थं लिखत ।
ghee

  03.13.07
घृतम् , आज्यम्
१५३

संस्कृतेन अर्थं लिखत ।
curd

  03.13.08
दधि
१५४

संस्कृतेन अर्थं लिखत ।
water

  03.13.09
तोयम् , जलम् , सलिलम्
१५५

संस्कृतेन अर्थं लिखत ।
wealth

  03.13.10
निधिः
१५६

संस्कृतेन अर्थं लिखत ।
curdling

  03.13.11
आतञ्चनम्
१५७

आङ्ग्लभाषया अर्थं लिखत ।
शृङ्गम् , विषाणम्

  03.14.01
horn
१५८

आङ्ग्लभाषया अर्थं लिखत ।
पुच्छः, लाङ्गूलम्

  03.14.02
tail
१५९

आङ्ग्लभाषया अर्थं लिखत ।
वत्सः

  03.14.03
calf
१६०

आङ्ग्लभाषया अर्थं लिखत ।
प्रत्यहम्

  03.14.04
everyday
१६१

आङ्ग्लभाषया अर्थं लिखत ।
दोग्धि

  03.14.05
milks
१६२

आङ्ग्लभाषया अर्थं लिखत ।
नवनीतम् , हैयङ्गवीयम् , नवोद्धृतम्

  03.14.06
butter
१६३

आङ्ग्लभाषया अर्थं लिखत ।
घृतम् , आज्यम्

  03.14.07
ghee
१६४

आङ्ग्लभाषया अर्थं लिखत ।
दधि

  03.14.08
curd
१६५

आङ्ग्लभाषया अर्थं लिखत ।
तोयम् , जलम् , सलिलम्

  03.14.09
water
१६६

आङ्ग्लभाषया अर्थं लिखत ।
निधिः

  03.14.10
wealth
१६७

आङ्ग्लभाषया अर्थं लिखत ।
आतञ्चनम्

  03.14.11
curdling
१६८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
रामायणस्य रचयिता कः ?

  04.01.01
रामायणस्य रचयिता महर्षिः वाल्मीकिः ।
१६९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
दशरथस्य वंशः कः ?

  04.01.02
दशरथस्य वंशः सूर्यवंशः अस्ति ।
१७०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
दशरथस्य कति भार्याः? ताः काः?

  04.01.03
दशरथस्य तिस्रः भार्याः आसन् । ताः कौसल्या, सुमित्रा, कैकेयी च ।
१७१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सुमित्रायाः तनयौ कौ?

  04.01.04
सुमित्रायाः तनयौ लक्ष्मणशत्रुघ्नौ ।
१७२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
भरतस्य माता का ?

  04.01.05
भरतस्य माता कैकेयी ।
१७३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
काभ्यां सह रामः वनम् अगच्छत् ?

  04.01.06
सीतालक्ष्मणाभ्यां सह रामः दण्डकारण्यम् अगच्छत् ।
१७४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कः समुद्रस्य उल्लङ्घनम् अकरोत् ?

  04.01.07
आञ्जनेयः समुद्रस्य उल्लङ्घनम् अकरोत् ।
१७५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
श्रीरामस्य के गुणाः अनुसरणयोग्याः सन्ति ?

  04.01.08
श्रीरामस्य पितृवाक्यपरिपालन-शौर्य-भ्रातृवात्सल्यादिगुणाः अनुसरणयोग्याः सन्ति ।
१७६

समानार्थकपदं लिखत ।
माता

  04.02.01
अमरकोशः →
अम्बा माताथ ।
जनयित्री प्रसूर्माता जननी ।

१) अम्बा (अम्बा / स्त्री)
२) माता (मातृ / स्त्री)
३) जनयित्री (जनयित्री / स्त्री)
४) प्रसूः (प्रसू / स्त्री)
५) जननी (जननी / स्त्री)
१७७

समानार्थकपदं लिखत ।
सह

  04.02.02
साकम्, सार्धम्, समम्, सुमत्
१७८

समानार्थकपदं लिखत ।
वानरः

  04.02.03
अमरकोशः →
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।
मर्कटो वानरः कीशो वनौकाः ।


१) कपिः (कपि / पुं)
२) प्लवङ्गः (प्लवङ्ग / पुं)
३) प्लवगः (प्लवग / पुं)
४) शाखामृगः (शाखामृग / पुं)
५) वलीमुखः (वलीमुख / पुं)
६) मर्कटः (मर्कट / पुं)
७) वानरः (वानर / पुं)
८) कीशः (कीश / पुं)
९) वनौकः (वनौक / पुं)
१७९

समानार्थकपदं लिखत ।
समुद्र:

  04.02.04
अमरकोशः →
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥

१) समुद्रः (समुद्र / पुं)
२) अब्धिः (अब्धि / पुं)
३) अकूपारः (अकूपार / पुं)
४) पारावारः (पारावार / पुं)
५) सरित्पतिः (सरित्पति / पुं)
६) उदन्वान् (उदन्वत् / पुं)
७) उदधिः (उदधि / पुं)
८) सिन्धुः (सिन्धु / पुं)
९) सरस्वान् (सरस्वत् / पुं)
१०) सागरः (सागर / पुं)
११) अर्णवः (अर्णव / पुं)
१८०

समानार्थकपदं लिखत ।
सूर्यः

  04.02.05
अमरकोशः →
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥१-३-२८॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥१-३-२९॥
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥१-३-३०॥
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।

पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ।
कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।
प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ।
इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।
माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥१-३-३१॥

१) सूरः (सूर / पुं)
२) सूर्यः (सूर्य / पुं)
३) अर्यमा (अर्यमन् / पुं)
४) आदित्यः (आदित्य / पुं)
५) द्वादशात्मा (द्वादशात्मन् / पुं)
६) दिवाकरः (दिवाकर / पुं)
७) भास्करः (भास्कर / पुं)
८) अहस्करः (अहस्कर / पुं)
९) ब्रध्नः (ब्रध्न / पुं)
१०) प्रभाकरः (प्रभाकर / पुं)
११) विभाकरः (विभाकर / पुं)
१२) भास्वान् (भास्वत् / पुं)
१३) विवस्वान् (विवस्वत् / पुं)
१४) सप्ताश्वः (सप्ताश्व / पुं)
१५) हरिदश्वः (हरिदश्व / पुं)
१६) उष्णरश्मिः (उष्णरश्मि / पुं)
१७) विकर्तनः (विकर्तन / पुं)
१८) अर्कः (अर्क / पुं)
१९) मार्तण्डः (मार्तण्ड / पुं)
२०) मिहिरः (मिहिर / पुं)
२१) अरुणः (अरुण / पुं)
२२) पूषा (पूषन् / पुं)
२३) द्युमणिः (द्युमणि / पुं)
२४) तरणिः (तरणि / पुं)
२५) मित्रः (मित्र / पुं)
२६) चित्रभानुः (चित्रभानु / पुं)
२७) विरोचनः (विरोचन / पुं)
२८) विभावसुः (विभावसु / पुं)
२९) ग्रहपतिः (ग्रहपति / पुं)
३०) त्विषाम्पतिः (त्विषाम्पति / पुं)
३१) अहर्पतिः (अहर्पति / पुं)
३२) भानुः (भानु / पुं)
३३) हंसः (हंस / पुं)
३४) सहस्रांशुः (सहस्रांशु / पुं)
३५) तपनः (तपन / पुं)
३६) सविता (सवितृ / पुं)
३७) रविः (रवि / पुं)
३८) पद्माक्षः (पद्माक्ष / पुं)
३९) तेजसांराशिः (तेजसांराशि / पुं)
४०) छायानाथः (छायानाथ / पुं)
४१) (तमिस्रहन् / पुं)
४२) कर्मसाक्षी (कर्मसाक्षिन् / पुं)
४३) (जगच्चक्षुष् / पुं)
४४) लोकबन्धुः (लोकबन्धु / पुं)
४५) त्रयीतनुः (त्रयीतनु / पुं)
४६) प्रद्योतनः (प्रद्योतन / पुं)
४७) दिनमणिः (दिनमणि / पुं)
४८) खद्योतः (खद्योत / पुं)
४९) लोकबान्धवः (लोकबान्धव / पुं)
५०) इनः (इन / पुं)
५१) भगः (भग / पुं)
५२) धामनिधिः (धामनिधि / पुं)
५३) अंशुमाली (अंशुमालिन् / पुं)
५४) अब्जिनीपतिः (अब्जिनीपति / पुं)
५५) चण्डांशुः (चण्डांशु / पुं)
१८१

समानार्थकपदं लिखत ।
अयोध्या

  04.02.06
साकेतम्, कोसला
१८२

समानार्थकपदं लिखत ।
भार्या

  04.02.07
अमरकोशः →
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ।
भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ॥


१) पत्नी (पत्नी / स्त्री)
२) पाणिगृहीती (पाणिगृहीती / स्त्री)
३) द्वितीया (द्वितीया / स्त्री)
४) सहधर्मिणी (सहधर्मिणी / स्त्री)
५) भार्या (भार्या / स्त्री)
६) जाया (जाया / स्त्री)
७) दाराः (दार / पुं-बहु)
१८३

समानार्थकपदं लिखत ।
आञ्जनेयः

  04.02.08
हनुमन्तः, हनूमान्, कपीश्वरः, मरुदात्मजः, मारुतिः
१८४

वाक्ये योजयत ।
सह

  04.03.01
रामेण [सह] सीता वनम् अगच्छत् ।
१८५

वाक्ये योजयत ।
रामस्य

  04.03.02
[रामस्य] पिता दशरथः अस्ति ।
१८६

वाक्ये योजयत ।
भङ्क्त्वा

  04.03.03
रामः रावणं [भङ्क्त्वा] सीतायाः विमोचनं कृतवान् ।
१८७

वाक्ये योजयत ।
नमः

  04.03.04
गुरवे [नमः]
१८८

वाक्ये योजयत ।
आसीत्

  04.03.05
सा छात्रा [आसीत्]
१८९

वाक्ये योजयत ।
अगच्छत्

  04.03.06
सः शीघ्रमेव [अगच्छत्]
१९०

वाक्ये योजयत ।
हत्वा

  04.03.07
रामः रावणं [हत्वा] सीतायाः विमोचनं कृतवान् ।
१९१

वाक्ये योजयत ।
अकरोत्

  04.03.08
सः कार्यम् [अकरोत्]
१९२

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
तस्य [ तिस्रः ] भार्याः आसन् ।

  04.04.01
तस्य [कति] भार्याः आसन् ?
१९३

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ कौसल्यायाः ] सुतः श्रीरामः ।

  04.04.02
[कस्याः] सुतः श्रीरामः ?
१९४

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ भरतस्य ] माता कैकेयी ।

  04.04.03
[कस्य] माता कैकेयी ?
१९५

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
रावणः [ सीताम् ] अपाहरत् ।

  04.04.04
रावणः [काम्] अपाहरत् ?
१९६

धातु-लकार-पुरुष-वचनानि लिखत ।
अपाहरत्

  04.05.01
अपाहरत् (अप + हृ + कर्तरि लँङ् / प्र.पु / ए.व) →
     अप-उपसर्गः
     हृ-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
१९७

धातु-लकार-पुरुष-वचनानि लिखत ।
अलभत

  04.05.02
अलभत (लभ् + कर्तरि लँङ् / प्र.पु / ए.व) →
     लभ्-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
१९८

धातु-लकार-पुरुष-वचनानि लिखत ।
स्मः

  04.05.03
स्मः (अस् + कर्तरि लँट् / उ.पु / ब.व) →
     अस्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     उत्तम-पुरुषः
     बहु-वचनम्
१९९

धातु-लकार-पुरुष-वचनानि लिखत ।
निवसामः

  04.05.04
निवसामः (नि + वस् + कर्तरि लँट् / उ.पु / ब.व) →
     नि-उपसर्गः
     वस्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     उत्तम-पुरुषः
     बहु-वचनम्
२००

धातु-लकार-पुरुष-वचनानि लिखत ।
अमारयताम्

  04.05.05
अमारयताम् (मृ + णिच् + कर्तरि लँङ् / प्र.पु / द्वि.व) →
     मृ-धातुः
     णिच्-प्रत्ययः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     द्वि-वचनम्
२०१

धातु-लकार-पुरुष-वचनानि लिखत ।
अकरोत्

  04.05.06
अकरोत् (कृ + कर्तरि लँङ् / प्र.पु / ए.व) →
     कृ-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
२०२

धातु-लकार-पुरुष-वचनानि लिखत ।
अगच्छताम्

  04.05.07
अगच्छताम् (गम् + कर्तरि लँङ् / प्र.पु / द्वि.व) →
     गम्-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     द्वि-वचनम्
२०३

धातु-लकार-पुरुष-वचनानि लिखत ।
प्रत्यागच्छत्

  04.05.08
प्रत्यागच्छत् (प्रति + आङ् + गम् + कर्तरि लँङ् / प्र.पु / ए.व) →
     प्रति+आङ्-उपसर्गः
     गम्-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
२०४

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
रचयिता

  04.06.01
रचयिता →
     ऋकारान्तः
     पुंलिङ्गः
     रचयितृ शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
२०५

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
संस्कृतिः

  04.06.02
संस्कृतिः →
     इकारान्तः
     स्त्रीलिङ्गः
     संस्कृति शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
२०६

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
सुमित्रायाः

  04.06.03
सुमित्रायाः →
     आकारान्तः
     स्त्रीलिङ्गः
     सुमित्रा शब्दः
     पञ्चमी / षष्ठी-विभक्तिः
     एक-वचनम्
२०७

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
आज्ञया

  04.06.04
आज्ञया →
     आकारान्तः
     स्त्रीलिङ्गः
     आज्ञा शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
२०८

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
लङ्काम्

  04.06.05
लङ्काम् →
     आकारान्तः
     स्त्रीलिङ्गः
     लङ्का शब्दः
     द्वितीया-विभक्तिः
     एक-वचनम्
२०९

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
सीतया

  04.06.06
सीतया →
     आकारान्तः
     स्त्रीलिङ्गः
     सीता शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
२१०

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
श्रीरामस्य

  04.06.07
श्रीरामस्य →
     अकारान्तः
     पुंलिङ्गः
     श्रीराम शब्दः
     षष्ठी-विभक्तिः
     एक-वचनम्
२११

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
वेधसे

  04.06.08
वेधसे →
     सकारान्तः
     पुंलिङ्गः
     वेधस् शब्दः
     चतुर्थी-विभक्तिः
     एक-वचनम्
२१२

अन्यलिङ्गं परिवर्तयत ।
तिस्रः

  04.07.01
त्रयः (त्रि / पुं)
त्रीणि (त्रि / नपुं)
२१३

अन्यलिङ्गं परिवर्तयत ।
भार्या

  04.07.02
पतिः (पति / पुं)
भर्ता (भर्तृ / पुं)
२१४

अन्यलिङ्गं परिवर्तयत ।
पतिः

  04.07.03
भार्या (भार्या / स्त्री)
पत्नी (पत्नी / स्त्री)
जाया (जाया / स्त्री)
कलत्रम् (कलत्र / नपुं)
२१५

अन्यलिङ्गं परिवर्तयत ।
अस्य

  04.07.04
अस्याः (इदम् / स्त्री / ष.वि / ए.व)
अस्य (इदम् / नपुं / ष.वि / ए.व)
२१६

अन्यलिङ्गं परिवर्तयत ।
भ्राता

  04.07.05
भगिनी (भगिनी / स्त्री)
२१७

अन्यलिङ्गं परिवर्तयत ।
राक्षसः

  04.07.06
राक्षसी (राक्षसी / स्त्री)
२१८

अन्यलिङ्गं परिवर्तयत ।
तनयः

  04.07.07
तनया (तनया / स्त्री)
२१९

अन्यलिङ्गं परिवर्तयत ।
ताः

  04.07.08
ते (तद् / पुं)
तानि (तद् / नपुं)
२२०

व्याकरणविशेषं लिखत ।
सीतया समम्

  04.08.01

२२१

व्याकरणविशेषं लिखत ।
श्रीरामाय नमः

  04.08.02

२२२

व्याकरणविशेषं लिखत ।
सीतालक्ष्मणाभ्यां सह

  04.08.03

२२३

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
रामाय … पतये नमः ॥

  04.09.01

श्लोकः (Verse) ---
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

अन्वयः (Prose order) ---
रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः ।

अर्थः (Purport) ---
Salutations to Rāma (the one who delights), to the one who is auspicious, to the one who is like the moon, to the wise one, to the chief of the Raghu race, to the lord (husband) of Sītā.
२२४

संस्कृतेन अर्थं लिखत ।
source

  04.11.01
आकरः
२२५

संस्कृतेन अर्थं लिखत ।
wife

  04.11.02
भार्या, पत्नी, जाया
२२६

संस्कृतेन अर्थं लिखत ।
son

  04.11.03
सुतः, पुत्रः, आत्मजः
२२७

संस्कृतेन अर्थं लिखत ।
bow

  04.11.04
चाप:, धनुः, शरासनम्
२२८

संस्कृतेन अर्थं लिखत ।
with

  04.11.05
समम् , सह , सार्धम् , साकम्
२२९

संस्कृतेन अर्थं लिखत ।
creator

  04.11.06
वेधाः
२३०

आङ्ग्लभाषया अर्थं लिखत ।
आकरः

  04.12.01
source
२३१

आङ्ग्लभाषया अर्थं लिखत ।
भार्या, पत्नी, जाया

  04.12.02
wife
२३२

आङ्ग्लभाषया अर्थं लिखत ।
सुतः, पुत्रः, आत्मजः

  04.12.03
son
२३३

आङ्ग्लभाषया अर्थं लिखत ।
चाप:, धनुः, शरासनम्

  04.12.04
bow
२३४

आङ्ग्लभाषया अर्थं लिखत ।
समम् , सह , सार्धम् , साकम्

  04.12.05
with
२३५

आङ्ग्लभाषया अर्थं लिखत ।
वेधाः

  04.12.06
creator
२३६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कीदृशं राजकुमारं मन्त्री उपादिशत् ?

  05.01.01
सिम्हासनम् आरोढुं सिद्धं राजकुमारं मन्त्री उपादिशत् ।
२३७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कीदृशेषु कठोरता आचरणीया ?

  05.01.02
अधीनेषु नियमपालनविशये कठोरता आचरणीया ।
२३८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कान् निवारय इति वदति मन्त्री ?

  05.01.03
स्वार्थसम्पादकान् जनान् उपायेन निवारय इति वदति मन्त्री ।
२३९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
अधिकारमदः धनमदः च कं मार्गभ्रष्टं करोति ?

  05.01.04
अधिकारमदः धनमदः च नृपं मार्गभ्रष्टं कुरुतः ।
२४०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
प्रजाः कथं पालनीयाः ?

  05.01.05
प्रजाः पुत्रवत् पालनीया ।
२४१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
के राजकुमारं परितः भवन्ति ?

  05.01.06
स्वार्थसम्पादकाः जनाः राजकुमारं परितः भवन्ति ।
२४२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सज्जनाः कथमिव दूरे तिष्ठन्ति ?

  05.01.07
सज्जनाः पर्णान्तरितफलानि इव दूरे तिष्ठन्ति ।
२४३

विरुद्धार्थकपदं लिखत ।
अर्हाः

  05.03.01
अनर्हाः
२४४

विरुद्धार्थकपदं लिखत ।
अधिकम्

  05.03.02
न्यूनम्
२४५

विरुद्धार्थकपदं लिखत ।
आदरः

  05.03.03
निरादरः
२४६

विरुद्धार्थकपदं लिखत ।
दण्डाः

  05.03.04

२४७

विरुद्धार्थकपदं लिखत ।
सज्जनाः

  05.03.05
दुर्जनाः
२४८

विरुद्धार्थकपदं लिखत ।
दूरम्

  05.03.06
समीपम्
२४९

विरुद्धार्थकपदं लिखत ।
श्वः

  05.03.07
ह्यः
२५०

विरुद्धार्थकपदं लिखत ।
सर्वदा

  05.03.08
नतराम्
२५१

विरुद्धार्थकपदं लिखत ।
स्मरणम्

  05.03.09
विस्मरणम्
२५२

विरुद्धार्थकपदं लिखत ।
सत्यम्

  05.03.10
असत्यम्
२५३

समानार्थकपदं लिखत ।
पिता

  05.04.01
अमरकोशः →
तातस्तु जनकः पिता ।

१) तातः (तात / पुं)
२) जनकः (जनक / पुं)
३) पिता (पितृ / पुं)
२५४

समानार्थकपदं लिखत ।
माता

  05.04.02
अमरकोशः →
अम्बा माताथ ।
जनयित्री प्रसूर्माता जननी ।

१) अम्बा (अम्बा / स्त्री)
२) माता (मातृ / स्त्री)
३) जनयित्री (जनयित्री / स्त्री)
४) प्रसूः (प्रसू / स्त्री)
५) जननी (जननी / स्त्री)
२५५

समानार्थकपदं लिखत ।
आचार्यः

  05.04.03
उपाध्यायः, अध्यापकः, गुरुः
२५६

समानार्थकपदं लिखत ।
नृपः

  05.04.04
अमरकोशः →
राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।

१) राजा (राजन् / पुं)
२) राट् (राज् / पुं)
३) पार्थिवः (पार्थिव / पुं)
४) (क्ष्माभृत् / पुं)
५) नृपः (नृप / पुं)
६) भूपः (भूप / पुं)
७) (महीक्षित् / पुं)
२५७

समानार्थकपदं लिखत ।
मन्त्री

  05.04.05
अमरकोशः →
मन्त्री धीसचिवोऽमात्यः ।

१) मन्त्री (मन्त्रिन् / पुं)
२) धीसचिवः (धीसचिव / पुं)
३) अमात्यः (अमात्य / पुं)
२५८

समानार्थकपदं लिखत ।
अर्हः

  05.04.06
योग्यः
२५९

समानार्थकपदं लिखत ।
सेवकः

  05.04.07
अनुचरः, दासः, भृत्यः, परिचरः
२६०

समानार्थकपदं लिखत ।
मार्ग:

  05.04.08
वीथी, वर्त्म, सरणी
२६१

समानार्थकपदं लिखत ।
वृद्धः

  05.04.09
ज्येष्ठः
२६२

समानार्थकपदं लिखत ।
पुत्रः

  05.04.10
अमरकोशः →
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ।

१) आत्मजः (आत्मज / पुं)
२) तनयः (तनय / पुं)
३) सूनुः (सूनु / पुं)
४) सुतः (सुत / पुं)
५) पुत्रः (पुत्र / पुं)
२६३

सूचनानुसारं उत्तरं लिखत ।
चौर्यं [ कुरु / मा कुरु ]

  05.05.01
चौर्यं [मा कुरु]
२६४

सूचनानुसारं उत्तरं लिखत ।
सत्कार्यं [ कुरु / मा कुरु ]

  05.05.02
सत्कार्यं [कुरु]
२६५

सूचनानुसारं उत्तरं लिखत ।
परपीडनं [ कुरु / मा कुरु ]

  05.05.03
परपीडनं [मा कुरु]
२६६

सूचनानुसारं उत्तरं लिखत ।
परिश्रमं [ कुरु / मा कुरु ]

  05.05.04
परिश्रमं [कुरु]
२६७

सूचनानुसारं उत्तरं लिखत ।
परनिन्दां [ कुरु / मा कुरु ]

  05.05.05
परनिन्दां [मा कुरु]
२६८

सूचनानुसारं उत्तरं लिखत ।
पक्षपातं [ कुरु / मा कुरु ]

  05.05.06
पक्षपातं [मा कुरु]
२६९

द्वितीयाविभक्त्यान्तरूपेण वाक्यं पूरयत ।
[ दण्ड्य ] दण्डय ।

  05.06.01
[दण्ड्यान्] दण्डय ।
२७०

द्वितीयाविभक्त्यान्तरूपेण वाक्यं पूरयत ।
सर्वे [ धेनु, ] [ मातृ ] च पूजयन्ति ।

  05.06.02
सर्वे [धेनुं] [मातरं] च पूजयन्ति ।
२७१

द्वितीयाविभक्त्यान्तरूपेण वाक्यं पूरयत ।
छात्रः [ गुरु ] दृष्ट्वा उत्तिष्ठति ।

  05.06.03
छात्रः [गुरुं] दृष्ट्वा उत्तिष्ठति ।
२७२

द्वितीयाविभक्त्यान्तरूपेण वाक्यं पूरयत ।
[ शाला ] परितः वृक्षाः सन्ति ।

  05.06.04
[शालां] परितः वृक्षाः सन्ति ।
२७३

द्वितीयाविभक्त्यान्तरूपेण वाक्यं पूरयत ।
[ मुनिजन ] भक्त्या नमस्कुरु ।

  05.06.05
[मुनिजनं] भक्त्या नमस्कुरु ।
२७४

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
सत्यं [ वद् ] ।

  05.07.01
सत्यं [वद]
२७५

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
त्वम् उत्तरं [ स्मृ ] ।

  05.07.02
त्वम् उत्तरं [स्मर]
२७६

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
जनाः मार्गे [ गम् ] ।

  05.07.03
जनाः मार्गे [गच्छन्तु]
२७७

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
सर्वत्र शान्तिः [ भू ] ।

  05.07.04
सर्वत्र शान्तिः [भवतु]
२७८

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
अहं पाठं सम्यक् [ लिख् ] ।

  05.07.05
अहं पाठं सम्यक् [लिखानि]
२७९

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
देवः शुभं [ कृ ] ।

  05.07.06
देवः शुभं [करोतु]
२८०

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
यूयं मातरं [ नम् ] ।

  05.07.07
यूयं मातरं [नमत]
२८१

लोँट्-लकार-रूपेण वाक्यं पूरयत ।
वयं देशं [ रक्ष् ] ।

  05.07.08
वयं देशं [रक्षाम]
२८२

धातु-लकार-पुरुष-वचनानि लिखत ।
नमत

  05.08.01
नमत (नम् + कर्तरि लोँट् / म.पु / ब.व) →
     नम्-धातुः
     कर्तरि-प्रयोगः
     लोँट्-लकारः
     मध्यम-पुरुषः
     बहु-वचनम्
२८३

धातु-लकार-पुरुष-वचनानि लिखत ।
शृणोतु

  05.08.02
शृणोतु (श्रु + कर्तरि लोँट् / प्र.पु / ए.व) →
     श्रु-धातुः
     कर्तरि-प्रयोगः
     लोँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
२८४

धातु-लकार-पुरुष-वचनानि लिखत ।
वदताम्

  05.08.03
वदताम् (वद् + कर्तरि लोँट् / प्र.पु / द्वि.व) →
     वद्-धातुः
     कर्तरि-प्रयोगः
     लोँट्-लकारः
     प्रथम-पुरुषः
     द्वि-वचनम्
२८५

धातु-लकार-पुरुष-वचनानि लिखत ।
अस्तु

  05.08.04
अस्तु (अस् + कर्तरि लोँट् / प्र.पु / ए.व) →
     अस्-धातुः
     कर्तरि-प्रयोगः
     लोँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
२८६

धातु-लकार-पुरुष-वचनानि लिखत ।
आचर

  05.08.05
आचर (आङ् + चर् + कर्तरि लोँट् / म.पु / ए.व) →
     आङ्-उपसर्गः
     चर्-धातुः
     कर्तरि-प्रयोगः
     लोँट्-लकारः
     मध्यम-पुरुषः
     एक-वचनम्
२८७

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
मातरि

  05.09.01
मातरि →
     ऋकारान्तः
     स्त्रीलिङ्गः
     मातृ शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
२८८

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
आचार्यान्

  05.09.02
आचार्यान् →
     अकारान्तः
     पुंलिङ्गः
     आचार्य शब्दः
     द्वितीया-विभक्तिः
     बहु-वचनम्
२८९

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
तान्

  05.09.03
तान् →
     दकारान्तः
     पुंलिङ्गः
     तद् शब्दः
     द्वितीया-विभक्तिः
     बहु-वचनम्
२९०

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
राजकुमारः

  05.09.04
राजकुमारः →
     अकारान्तः
     पुंलिङ्गः
     राजकुमार शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
२९१

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
सर्वाणि

  05.09.05
सर्वाणि →
     अकारान्तः
     नपुंसकलिङ्गः
     सर्व शब्दः
     प्रथमा / द्वितीया-विभक्तिः
     बहु-वचनम्
२९२

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
भक्त्या

  05.09.06
भक्त्या →
     इकारान्तः
     स्त्रीलिङ्गः
     भक्ति शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
२९३

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
विनयेन

  05.09.07
विनयेन →
     अकारान्तः
     पुंलिङ्गः
     विनय शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
२९४

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
प्रजाः

  05.09.08
प्रजाः →
     आकारान्तः
     स्त्रीलिङ्गः
     प्रजा शब्दः
     प्रथमा-विभक्तिः
     बहु-वचनम्
२९५

वाक्ये योजयत ।
पातुम्

  05.10.01
सः जलं [पातुं] नदीं गतवान् ।
२९६

वाक्ये योजयत ।
आरोढुम्

  05.10.02
अहं वृक्षम् [आरोढुम्] इच्छामि ।
२९७

वाक्ये योजयत ।
जयतु

  05.10.03
[जयतु] भारतम् । [जयतु] संस्कृतम् ।
२९८

वाक्ये योजयत ।
स्मर

  05.10.04
पठान् [स्मर]
२९९

वाक्ये योजयत ।
गच्छन्तु

  05.10.05
भोजनम् खदित्वा [गच्छन्तु]
३००

अन्यलिङ्गं परिवर्तयत ।
राजा

  05.11.01
राज्ञी (राज्ञी / स्त्री)
३०१

अन्यलिङ्गं परिवर्तयत ।
कुमारः

  05.11.02
कुमारी (कुमारी / स्त्री)
३०२

अन्यलिङ्गं परिवर्तयत ।
पुत्रः

  05.11.03
पुत्री (पुत्री / स्त्री)
३०३

अन्यलिङ्गं परिवर्तयत ।
देवः

  05.11.04
देवी (देवी / स्त्री)
३०४

अन्यलिङ्गं परिवर्तयत ।
तस्य

  05.11.05
तस्याः (तद् / स्त्री / ष.वि / ए.व)
तस्य (तद् / नपुं / ष.वि / ए.व)
३०५

अमरकोशः ।
पिता

  05.12.01
तातस्तु जनकः पिता ।
३०६

अमरकोशः ।
मन्त्री

  05.12.02
मन्त्री धीसचिवोऽमात्यः ।
३०७

अमरकोशः ।
राजा

  05.12.03
राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।
३०८

संस्कृतेन सूक्तिं लिखत ।
Man is a slave of money.

  06.01.01
अर्थस्य पुरुषो दासः।
३०९

संस्कृतेन सूक्तिं लिखत ।
Cheap and hollow things glitter more than the worthy.

  06.01.02
निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
३१०

संस्कृतेन सूक्तिं लिखत ।
Man desiring flowers does not water a withered tree.

  06.01.03
न पुष्पार्थी सिञ्चति शुष्कवृक्षम् ।
३११

संस्कृतेन सूक्तिं लिखत ।
In a place devoid of trees, even a castor plant passes for a tree.

  06.01.04
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।
३१२

संस्कृतेन सूक्तिं लिखत ।
Flawless works are rare.

  06.01.05
दोषवर्जितानि कार्याणि दुर्लभानि ।
३१३

संस्कृतेन सूक्तिं लिखत ।
Pleasant speaker begets no enemy.

  06.01.06
प्रियवादिनो न शत्रुः ।
३१४

संस्कृतेन सूक्तिं लिखत ।
Single wheel cannot move a vehicle.

  06.01.07
नैकं चक्रं परिभ्रमति ।
३१५

संस्कृतेन सूक्तिं लिखत ।
No wealth equals grain.

  06.01.08
नहि धान्यसमो ह्यर्थः ।
३१६

संस्कृतेन सूक्तिं लिखत ।
One should not steal even the smallest thing from others.

  06.01.09
अल्यमपि परद्रव्यं न हर्तव्यम् ।
३१७

संस्कृतेन सूक्तिं लिखत ।
Nectar should be taken even from poison.

  06.01.10
विषादप्यमृतं ग्राह्यम् ।
३१८

संस्कृतेन सूक्तिं लिखत ।
As you sow, so shall you reap.

  06.01.11
यथा बीजं तथाङ्करः ।
३१९

संस्कृतेन सूक्तिं लिखत ।
There is no dearth of happiness or sorrow for all living things.

  06.01.12
नास्ति देहिनां सुखदुःखाभावः ।
३२०

संस्कृतेन सूक्तिं लिखत ।
Being in the company of noble people is akin to being a celestial resident.

  06.01.13
सत्सङ्गः स्वर्गवासः ।
३२१

संस्कृतेन सूक्तिं लिखत ।
If one dies (in the battle) he goes to heaven, if he wins he enjoys in this world.

  06.01.14
हते स्वर्गः जये भोगः ।
३२२

संस्कृतेन सूक्तिं लिखत ।
Unity achives great things.

  06.01.15
संहतिः कार्यसाधिका ।
३२३

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
अर्थस्य … ।

  06.02.01

लोकोक्तिः (Saying) ---
अर्थस्य पुरुषो दासः।

अर्थः (Purport) ---
Man is a slave of money.
३२४

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
निस्सारस्य ... ।

  06.02.02

लोकोक्तिः (Saying) ---
निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।

अर्थः (Purport) ---
Cheap and hollow things glitter more than the worthy.
३२५

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
न पुष्पार्थी ... ।

  06.02.03

लोकोक्तिः (Saying) ---
न पुष्पार्थी सिञ्चति शुष्कवृक्षम् ।

अर्थः (Purport) ---
Man desiring flowers does not water a withered tree.
३२६

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
… द्रुमायते ।

  06.02.04

लोकोक्तिः (Saying) ---
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।

अर्थः (Purport) ---
In a place devoid of trees, even a castor plant passes for a tree.
३२७

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
… दुर्लभानि ।

  06.02.05

लोकोक्तिः (Saying) ---
दोषवर्जितानि कार्याणि दुर्लभानि ।

अर्थः (Purport) ---
Flawless works are rare.
३२८

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
… न शत्रुः ।

  06.02.06

लोकोक्तिः (Saying) ---
प्रियवादिनो न शत्रुः ।

अर्थः (Purport) ---
Pleasant speaker begets no enemy.
३२९

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
नैकं … ।

  06.02.07

लोकोक्तिः (Saying) ---
नैकं चक्रं परिभ्रमति ।

अर्थः (Purport) ---
Single wheel cannot move a vehicle.
३३०

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
… ह्यर्थः ।

  06.02.08

लोकोक्तिः (Saying) ---
नहि धान्यसमो ह्यर्थः ।

अर्थः (Purport) ---
No wealth equals grain.
३३१

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
… न हर्तव्यम् ।

  06.02.09

लोकोक्तिः (Saying) ---
अल्यमपि परद्रव्यं न हर्तव्यम् ।

अर्थः (Purport) ---
One should not steal even the smallest thing from others.
३३२

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
… ग्राह्यम् ।

  06.02.10

लोकोक्तिः (Saying) ---
विषादप्यमृतं ग्राह्यम् ।

अर्थः (Purport) ---
Nectar should be taken even from poison.
३३३

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
यथा बीजं ... ।

  06.02.11

लोकोक्तिः (Saying) ---
यथा बीजं तथाङ्करः।

अर्थः (Purport) ---
As you sow, so shall you reap.
३३४

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
नास्ति देहिनां ... ।

  06.02.12

लोकोक्तिः (Saying) ---
नास्ति देहिनां सुखदुःखाभावः।

अर्थः (Purport) ---
There is no dearth of happiness or sorrow for all living things.
३३५

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
... स्वर्गवासः ।

  06.02.13

लोकोक्तिः (Saying) ---
सत्सङ्गः स्वर्गवासः ।

अर्थः (Purport) ---
Being in the company of noble people is akin to being a celestial resident.
३३६

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
हते … भोगः ।

  06.02.14

लोकोक्तिः (Saying) ---
हते स्वर्गः जये भोगः ।

अर्थः (Purport) ---
If one dies (in the battle) he goes to heaven, if he wins he enjoys in this world.
३३७

सूक्तिं पूर्णतया विलिख्य तात्पर्यं लिखत ।
संहतिः … ।

  06.02.15

लोकोक्तिः (Saying) ---
संहतिः कार्यसाधिका ।

अर्थः (Purport) ---
Unity achives great things.
३३८

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
प्रियवाक्यप्रदानेन ... दरिद्रता ॥

  07.00.01

श्लोकः (Verse) ---
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥

अन्वयः (Prose order) ---
सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति । तस्मात् तत् एव वक्तव्यम् । वचने का दरिद्रता ?

अर्थः (Purport) ---
All beings feel happy by hearing sweet words. Therefore only sweet words should be spoken. What is the scarcity of words?
३३९

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
उदये सविता ... एकरूपता ॥

  07.00.02

श्लोकः (Verse) ---
उदये सविता रक्तः रक्तश्चास्तमये तथा ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥

अन्वयः (Prose order) ---
उदये सविता रक्तः (अस्ति) । तथा अस्तमये च (सविता) रक्तः (अस्ति) । सम्पत्तौ च विपत्तौ च महताम् एकरूपता ।

अर्थः (Purport) ---
Sun is red while rising. In the same way, sun is red while setting. In prosperity and in adversity, great people remain unique.
३४०

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
कर्ता कारयिता ... समभागिनः ॥

  07.00.03

श्लोकः (Verse) ---
कर्ता कारयिता चैव प्रेरकश्चानुमोदकः ।
सुकृते दुष्कृते चैव चत्वारः समभागिनः ॥

अन्वयः (Prose order) ---
सुकृते दुष्कृते च एव कर्ता, कारयिता, प्रेरकः, अनुमोदकः च एव चत्वारः समभागिनः (सन्ति) ।

अर्थः (Purport) ---
In good and bad deeds four people have equal share. The doer, the one who makes him do, the one who encourages and the one who approves.
३४१

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
पुण्यस्य ... यत्नतः ॥

  07.00.04

श्लोकः (Verse) ---
पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥

अन्वयः (Prose order) ---
मानवाः पुण्यं न इच्छन्ति, (परन्तु ते) पुण्यस्य फलम् इच्छन्ति । (मानवाः) पापफलं न इच्छन्ति, (परन्तु ते) पापं यत्नतः कुर्वन्ति ।

अर्थः (Purport) ---
People do not desire to do good deeds, but desire the fruits of good actions. People do not desire the fruits of bad actions, but they make effort to do bad actions.
३४२

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
उद्योगिनं ... दोषः ॥

  07.00.05

श्लोकः (Verse) ---
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी
दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥

अन्वयः (Prose order) ---

अर्थः (Purport) ---
३४३

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
यथा परोपकारेषु ... दुर्जनः ॥

  07.00.06

श्लोकः (Verse) ---
यथा परोपकारेषु नित्यं जागर्ति सज्जनः ।
तथा परापकारेषु नित्यं जागर्ति दुर्जनः ॥

अन्वयः (Prose order) ---
यथा सज्जनः परोपकारेषु नित्यं जागर्ति, तथा दुर्जनः परापकारेषु नित्यं जागर्ति ।

अर्थः (Purport) ---
Just as the good people are alert in helping others, so are the bad people alert in troubling others.
३४४

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
छायाम् ... सत्पुरुषा इव ॥

  07.00.07

श्लोकः (Verse) ---
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥

अन्वयः (Prose order) ---
(वृक्षाः) अन्यस्य छायां कुर्वन्ति, (परन्तु) स्वयम् आतपे तिष्ठन्ति । (वृक्षाः) फलानि अपि परार्थाय (फलन्ति) । (अतः) वृक्षाः सत्पुरुषाः इव ।

अर्थः (Purport) ---
The trees give shade for others, but they stand in the heat. They also bear fruit for others. (Therefore), trees are like good people.
३४५

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
लोभाविष्टो ... लगुड़ाहतिम् ॥

  07.00.08

श्लोकः (Verse) ---
लोभाविष्टो नरो वित्तं वीक्षते न तु सङ्कटम् ।
दुग्धं पश्यति मार्जारो न तथा लगुड़ाहतिम् ॥

अन्वयः (Prose order) ---

अर्थः (Purport) ---
३४६

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
सम्पूर्णकुम्भो ... बहुजल्पयन्ति ॥

  07.00.09

श्लोकः (Verse) ---
सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम् ।
विद्वान्कुलीनो न करोति गर्वं गुणैर्विहीना बहुजल्पयन्ति ॥

अन्वयः (Prose order) ---
सम्पूर्णकुम्भः शब्दं न करोति । अर्धः घटः नूनं घोषम् उपैति । विद्वान् कुलीनः गर्वं न करोति । गुणैः विहीनाः बहुजल्पयन्ति ।

अर्थः (Purport) ---
A completely filled pot does not make noise, whereas a half filled pot make noise. A scholar from a noble family does not feel proud / arrogant. A person disabled by qualities, talks a lot.
३४७

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
न चोरहार्यं ... सर्वधनप्रधानम् ॥

  07.00.10

श्लोकः (Verse) ---
न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥

अन्वयः (Prose order) ---
(विद्याधनस्य) चोरहार्यं न (साध्यते) । (विद्याधनस्य) राजहार्यं न (साध्यते) । (विद्याधनस्य) भ्रातृभाज्यं न (साध्यते) । (विद्याधनस्य) भारकारि न (अस्ति) च । व्यये कृते(ऽपि) नित्यं वर्धते एव । (अतः) विद्याधनं सर्वधनप्रधानम् (विद्यते) ।

अर्थः (Purport) ---
Thieves cannot steal the wealth, that is knowledge. King cannot take away the wealth, that is knowledge. Brothers cannot divide the wealth, that is knowledge. The wealth, that is knowledge, is not difficult to carry. Even if you spend, it only grows everyday. Therefore, the wealth, that is knowledge, is the most important wealth among all.
३४८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
केन सर्वे तुष्यन्ति ?

  07.01.01
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति ।
३४९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सविता कदा रक्तः भवति ?

  07.01.02
उदयेऽस्तमये च सविता रक्तः भवति ।
३५०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सुकृते दुष्कृते च के के समभागिनः भवन्ति ?

  07.01.03
सुकृते दुष्कृते च कर्ता, कारयिता, प्रेरकः, अनुमोदकः च चत्वारः समभागिनः सन्ति ।
३५१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
मानवाः यत्नतः किं कुर्वन्ति ?

  07.01.04
मानवाः यत्नतः पापं कुर्वन्ति ।
३५२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
लक्ष्मीः कमुपैति ?

  07.01.05
लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति ।
३५३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
के स्वयमातपे तिष्ठन्ति ?

  07.01.06
वृक्षाः स्वयमातपे तिष्ठन्ति ।
३५४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सर्वधनप्रधानं किम् ?

  07.01.07
सर्वधनप्रधानं विद्या एव भवति ।
३५५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कः शब्दं न करोति ?

  07.01.08
सम्पूर्णकुम्भः शब्दं न करोति ।
३५६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कीदृशाः मूढाः जल्पन्ति ?

  07.01.09
गुणैर्विहीनाः मूढाः बहुजल्पयन्ति ।
३५७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
मार्जारः किं न पश्यति ?

  07.01.10
मार्जारः लगुडाहितं न पश्यति ।
३५८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
परापकारेषु कः जागर्ति ?

  07.01.11
परापकारेषु दुर्जनः नित्यं जागर्ति ।
३५९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
केषु सज्जनः जागर्ति ?

  07.01.12
परोपकारेषु सज्जनः नित्यं जागर्ति ।
३६०

समानार्थकपदं लिखत ।
वृक्षाः

  07.02.01
तरवः
३६१

समानार्थकपदं लिखत ।
सत्पुरुषाः

  07.02.02
सज्जनाः
३६२

समानार्थकपदं लिखत ।
विद्वान्

  07.02.03
पण्डितः
३६३

समानार्थकपदं लिखत ।
जन्तुः

  07.02.04
अमरकोशः →
प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः

प्रणी, जन्मी, शरीरिः
३६४

समानार्थकपदं लिखत ।
विपत्

  07.02.05
आपद्, आपत्तिः, अभूतिः
३६५

समानार्थकपदं लिखत ।
घोषः

  07.02.06
शब्दः
३६६

समानार्थकपदं लिखत ।
रविः

  07.02.07
अमरकोशः →
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥१-३-२८॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥१-३-२९॥
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥१-३-३०॥
भानुर्हंसः सहस्रांशुस्तपनः सविता रविः ।

पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा ।
कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः ।
प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः ।
इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः ।
माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥१-३-३१॥

१) सूरः (सूर / पुं)
२) सूर्यः (सूर्य / पुं)
३) अर्यमा (अर्यमन् / पुं)
४) आदित्यः (आदित्य / पुं)
५) द्वादशात्मा (द्वादशात्मन् / पुं)
६) दिवाकरः (दिवाकर / पुं)
७) भास्करः (भास्कर / पुं)
८) अहस्करः (अहस्कर / पुं)
९) ब्रध्नः (ब्रध्न / पुं)
१०) प्रभाकरः (प्रभाकर / पुं)
११) विभाकरः (विभाकर / पुं)
१२) भास्वान् (भास्वत् / पुं)
१३) विवस्वान् (विवस्वत् / पुं)
१४) सप्ताश्वः (सप्ताश्व / पुं)
१५) हरिदश्वः (हरिदश्व / पुं)
१६) उष्णरश्मिः (उष्णरश्मि / पुं)
१७) विकर्तनः (विकर्तन / पुं)
१८) अर्कः (अर्क / पुं)
१९) मार्तण्डः (मार्तण्ड / पुं)
२०) मिहिरः (मिहिर / पुं)
२१) अरुणः (अरुण / पुं)
२२) पूषा (पूषन् / पुं)
२३) द्युमणिः (द्युमणि / पुं)
२४) तरणिः (तरणि / पुं)
२५) मित्रः (मित्र / पुं)
२६) चित्रभानुः (चित्रभानु / पुं)
२७) विरोचनः (विरोचन / पुं)
२८) विभावसुः (विभावसु / पुं)
२९) ग्रहपतिः (ग्रहपति / पुं)
३०) त्विषाम्पतिः (त्विषाम्पति / पुं)
३१) अहर्पतिः (अहर्पति / पुं)
३२) भानुः (भानु / पुं)
३३) हंसः (हंस / पुं)
३४) सहस्रांशुः (सहस्रांशु / पुं)
३५) तपनः (तपन / पुं)
३६) सविता (सवितृ / पुं)
३७) रविः (रवि / पुं)
३८) पद्माक्षः (पद्माक्ष / पुं)
३९) तेजसांराशिः (तेजसांराशि / पुं)
४०) छायानाथः (छायानाथ / पुं)
४१) (तमिस्रहन् / पुं)
४२) कर्मसाक्षी (कर्मसाक्षिन् / पुं)
४३) (जगच्चक्षुष् / पुं)
४४) लोकबन्धुः (लोकबन्धु / पुं)
४५) त्रयीतनुः (त्रयीतनु / पुं)
४६) प्रद्योतनः (प्रद्योतन / पुं)
४७) दिनमणिः (दिनमणि / पुं)
४८) खद्योतः (खद्योत / पुं)
४९) लोकबान्धवः (लोकबान्धव / पुं)
५०) इनः (इन / पुं)
५१) भगः (भग / पुं)
५२) धामनिधिः (धामनिधि / पुं)
५३) अंशुमाली (अंशुमालिन् / पुं)
५४) अब्जिनीपतिः (अब्जिनीपति / पुं)
५५) चण्डांशुः (चण्डांशु / पुं)
३६७

विरुद्धार्थकपदं लिखत ।
छाया

  07.03.01
आतपः
३६८

विरुद्धार्थकपदं लिखत ।
सज्जनः

  07.03.02
दुर्जनः
३६९

विरुद्धार्थकपदं लिखत ।
वर्धते

  07.03.03
क्षीयते
३७०

विरुद्धार्थकपदं लिखत ।
कृष्णपक्ष:

  07.03.04
शुक्लपक्षः
३७१

विरुद्धार्थकपदं लिखत ।
विद्वान्

  07.03.05
मूढः
३७२

विरुद्धार्थकपदं लिखत ।
कुलीनः

  07.03.06
नीचः
३७३

वाक्ये योजयत ।
निहत्य

  07.04.01
रामः रावणं [निहत्य] सीतायाः विमोचनं कृतवान् ।
३७४

वाक्ये योजयत ।
अवश्यम्

  07.04.02
भोजनम् [अवश्यं] कुरु ।
३७५

वाक्ये योजयत ।
परार्थाय

  07.04.03
[परार्थाय] जीवनं कुरु ।
३७६

वाक्ये योजयत ।
पश्यति

  07.04.04
सा आकशं [पश्यति]
३७७

वाक्ये योजयत ।
जल्पन्ति

  07.04.05
ताः सर्वाः [जल्पन्ति]
३७८

वाक्ये योजयत ।
यथा - तथा

  07.04.06
[यथा] राजा [तथा] प्रजा ।
३७९

वाक्ये योजयत ।
नूनम्

  07.04.07
कूपे जलं [नूनम्] अस्ति ।
३८०

वाक्ये योजयत ।
उपैति

  07.04.08
भक्ताय देवम् [उपैति]
३८१

सन्धिं विभज्य सन्धिनाम लिखत ।
परोपकारः

  07.05.01
परोपकारः = पर + उपकारः [गुण-सन्धिः]
३८२

सन्धिं विभज्य सन्धिनाम लिखत ।
परापकारः

  07.05.02
परापकारः = पर + अपकारः [सवर्ण-दीर्घ-सन्धिः]
३८३

सन्धिं विभज्य सन्धिनाम लिखत ।
फलान्यपि

  07.05.03
फलान्यपि = फलानि + अपि [यण्-सन्धिः]
३८४

सन्धिं विभज्य सन्धिनाम लिखत ।
मूढास्तु

  07.05.04
मूढास्तु = मूढाः + तु [विसर्ग-सकार-आदेश-सन्धिः]
३८५

सन्धिं विभज्य सन्धिनाम लिखत ।
कोऽत्र

  07.05.05
कोऽत्र = को + अत्र [पूर्व-रूप-सन्धिः]
३८६

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
अन्यस्य

  07.06.01
अन्यस्य →
     अकारान्तः
     पुंलिङ्गः
     अन्य शब्दः
     षष्ठी-विभक्तिः
     एक-वचनम्
३८७

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
छायाम्

  07.06.02
छायाम् →
     आकारान्तः
     स्त्रीलिङ्गः
     छाया शब्दः
     द्वितीया-विभक्तिः
     एक-वचनम्
३८८

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
कर्ता

  07.06.03
कर्ता →
     ऋकारान्तः
     पुंलिङ्गः
     कर्तृ शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
३८९

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
शक्त्या

  07.06.04
शक्त्या →
     इकारान्तः
     स्त्रीलिङ्गः
     शक्ति शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
३९०

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
कार्येण

  07.06.05
कार्येण →
     अकारान्तः
     नपुंसकलिङ्गः
     कार्य शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्     
३९१

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
सम्पत्तौ

  07.06.06
सम्पत्तौ →
     इकारान्तः
     स्त्रीलिङ्गः
     सम्पत्ति शब्दः
     सप्तमी-विभक्तिः
     एक-वचनम्
३९२

षष्ठी-विभक्ति-रूपाणि लिखत ।
सविता

  07.07.01

सवितृ / पुं ए.व द्वि.व ब.व
प्र.वि सविता सवितारौ सवितारः
स.प्र.वि हे सवितः हे सवितारौ हे सवितारः
द्वि.वि सवितारम् सवितारौ सवितॄन्
तृ.वि सवित्रा सवितृभ्याम् सवितृभिः
च.वि सवित्रे सवितृभ्याम् सवितृभ्यः
प.वि सवितुः सवितृभ्याम् सवितृभ्यः
ष.वि सवितुः सवित्रोः सवितॄणाम्
स.वि सवितरि सवित्रोः सवितृषु

३९३

षष्ठी-विभक्ति-रूपाणि लिखत ।
छाया

  07.07.02
छायायाः - छाययोः - छायानाम्
३९४

षष्ठी-विभक्ति-रूपाणि लिखत ।
भ्राता

  07.07.03

भ्रातृ / पुं ए.व द्वि.व ब.व
प्र.वि भ्राता भ्रातारौ भ्रातारः
स.प्र.वि हे भ्रातः हे भ्रातारौ हे भ्रातारः
द्वि.वि भ्रातारम् भ्रातारौ भ्रातॄन्
तृ.वि भ्रात्रा भ्रातृभ्याम् भ्रातृभिः
च.वि भ्रात्रे भ्रातृभ्याम् भ्रातृभ्यः
प.वि भ्रातुः भ्रातृभ्याम् भ्रातृभ्यः
ष.वि भ्रातुः भ्रात्रोः भ्रातॄणाम्
स.वि भ्रातरि भ्रात्रोः भ्रातृषु

३९५

षष्ठी-विभक्ति-रूपाणि लिखत ।
कर्ता

  07.07.04

कर्तृ / पुं ए.व द्वि.व ब.व
प्र.वि कर्ता कर्तारौ कर्तारः
स.प्र.वि हे कर्तः हे कर्तारौ हे कर्तारः
द्वि.वि कर्तारम् कर्तारौ कर्तॄन्
तृ.वि कर्त्रा कर्तृभ्याम् कर्तृभिः
च.वि कर्त्रे कर्तृभ्याम् कर्तृभ्यः
प.वि कर्तुः कर्तृभ्याम् कर्तृभ्यः
ष.वि कर्तुः कर्त्रोः कर्तॄणाम्
स.वि कर्तरि कर्त्रोः कर्तृषु

३९६

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
वर्धते
(लङ्लकारे परिवर्तनं कृत्वा)

  07.08.01

वर्ध् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अवर्धत अवर्धेताम् अवर्धन्त
म.पु अवर्धथाः अवर्धेथाम् अवर्धध्वम्
उ.पु अवर्धे अवर्धावहि अवर्धामहि

३९७

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
धावति
(लङ्लकारे परिवर्तनं कृत्वा)

  07.08.02

धाव् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अधावत् अधावताम् अधावन्
म.पु अधावः अधावतम् अधावत
उ.पु अधावम् अधावाव अधावाम

३९८

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
करोति
(लङ्लकारे परिवर्तनं कृत्वा)

  07.08.03

कृइ + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अकरोत् अकुरुताम् अकुर्वन्
म.पु अकरोः अकुरुतम् अकुरुत
उ.पु अकरवम् अकुर्व अकुर्म

३९९

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
राजते
(लङ्लकारे परिवर्तनं कृत्वा)

  07.08.04

राज् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अराज्त अराजेताम् अराजन्त
म.पु अराजथाः अराजेथाम् अराजध्वम्
उ.पु अराजे अराजावहि अराजामहि

४००

अन्यलिङ्गं परिवर्तयत ।
नरः

  07.09.01
नारी (नारी / स्त्री)
४०१

अन्यलिङ्गं परिवर्तयत ।
पुरुषः

  07.09.02
स्त्री (स्त्री / स्त्री)
४०२

अन्यलिङ्गं परिवर्तयत ।
विद्वान्

  07.09.03
विदुषी (विदुषी / स्त्री)
४०३

अन्यलिङ्गं परिवर्तयत ।
मार्जारः

  07.09.04
मार्जारी (मार्जारी / स्त्री)
४०४

अन्यलिङ्गं परिवर्तयत ।
भ्राता

  07.09.05
भगिनी (भगिनी / स्त्री)
४०५

संस्कृतेन अर्थं लिखत ।
creatures

  07.10.01
जन्तवः
४०६

संस्कृतेन अर्थं लिखत ।
Sun

  07.10.02
सविता
४०७

संस्कृतेन अर्थं लिखत ।
bad deeds

  07.10.03
दुष्कृतम्
४०८

संस्कृतेन अर्थं लिखत ।
approver

  07.10.04
अनुमोदकः
४०९

संस्कृतेन अर्थं लिखत ।
bad person

  07.10.05
कापुरुषः
४१०

संस्कृतेन अर्थं लिखत ।
shade

  07.10.06
छाया
४११

संस्कृतेन अर्थं लिखत ।
sunshine

  07.10.07
आतपः
४१२

संस्कृतेन अर्थं लिखत ।
money

  07.10.08
वित्तम्
४१३

संस्कृतेन अर्थं लिखत ।
stick

  07.10.09
लगुडः
४१४

संस्कृतेन अर्थं लिखत ।
sound

  07.10.10
घोषः
४१५

आङ्ग्लभाषया अर्थं लिखत ।
जन्तवः

  07.11.01
creatures
४१६

आङ्ग्लभाषया अर्थं लिखत ।
सविता

  07.11.02
Sun
४१७

आङ्ग्लभाषया अर्थं लिखत ।
दुष्कृतम्

  07.11.03
bad deeds
४१८

आङ्ग्लभाषया अर्थं लिखत ।
अनुमोदकः

  07.11.04
approver
४१९

आङ्ग्लभाषया अर्थं लिखत ।
कापुरुषः

  07.11.05
bad person
४२०

आङ्ग्लभाषया अर्थं लिखत ।
छाया

  07.11.06
shade
४२१

आङ्ग्लभाषया अर्थं लिखत ।
आतपः

  07.11.07
sunshine
४२२

आङ्ग्लभाषया अर्थं लिखत ।
वित्तम्

  07.11.08
money
४२३

आङ्ग्लभाषया अर्थं लिखत ।
लगुडः

  07.11.09
stick
४२४

आङ्ग्लभाषया अर्थं लिखत ।
घोषः

  07.11.10
sound
४२५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कस्य नप्ता व्यासः ?

  08.01.01
वसिष्ठस्य नप्ता व्यासः ।
४२६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
व्यासस्य मातापितरौ कौ ?

  08.01.02
व्यासस्य मातापितरौ सत्यवती-पराशरौ ।
४२७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
महाभारते कति पर्वाणि सन्ति ?

  08.01.03
महाभारते अष्टादश पर्वाणि सन्ति ।
४२८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कस्य पुत्रः शक्तिः ?

  08.01.04
वसिष्ठस्य पुत्रः शक्तिः ।
४२९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
पराशरस्य पिता कः ?

  08.01.05
पराशरस्य पिता शक्तिः ।
४३०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
अचतुर्वदनो ब्रह्मा कः ?

  08.01.06
अचतुर्वदनो ब्रह्मा व्यासः ।
४३१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
महाभारतस्य नामान्तरं किम् ?

  08.01.07
"जय" इति महाभारतस्य नामान्तरं विद्यते ।
४३२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
पञ्चमः वेदः कः ?

  08.01.08
महाभारतं "पञ्चमो वेदः" इति प्रथितम् ।
४३३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
वेदव्यासः कदा शान्तिमलभत ?

  08.01.09
वेदव्यासः भागवतं नाम पुराणं विलिख्य एव शान्तिमलभत ।
४३४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
वेदव्यासः कस्य उपदेशेन भागवतं व्यरचयत् ?

  08.01.10
वेदव्यासः नारदस्य उपदेशेन भागवतं व्यरचयत् ।
४३५

द्वित्रिवाक्यैः संस्कृतेन उत्तरं लिखत ।
व्यासस्य नामान्तराणि लिखत ।

  08.02.01

४३६

द्वित्रिवाक्यैः संस्कृतेन उत्तरं लिखत ।
व्यासेन रचिताः ग्रन्थाः के ?

  08.02.02

४३७

द्वित्रिवाक्यैः संस्कृतेन उत्तरं लिखत ।
व्यासः वेदव्यासः इति कथं प्रसिद्धिमभजत ?

  08.02.03

४३८

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
यूयम् आपणम् अगच्छत ।

  08.03.01
प्रधान-क्रियापदम् → अगच्छत (गम् + कर्तरि लँङ् / म.पु / ब.व)
     कर्तृपदम् → यूयम्
     कर्मपदम् → आपणम्
४३९

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
देवदत्तः शीघ्रं पठति ।

  08.03.02
प्रधान-क्रियापदम् → पठति (पठ् + कर्तरि लँट् / प्र.पु / ए.व)
     कर्तृपदम् → देवदत्तः
     कर्मपदम् → x
     क्रियाविषेशणम् → शीघ्रम्
४४०

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
जनाः व्यासं नत्वा जयं पठन्तु ।

  08.03.03
प्रधान-क्रियापदम् → पठन्तु (पठ् + कर्तरि लोँट् / प्र.पु / ब.व)
     कर्तृपदम् → जनाः
     कर्मपदम् → जयम्
गौण-क्रियापदम् → नत्वा (नम् + क्त्वा / अव्ययम्)
     कर्तृपदम् → (जनाः)
     कर्मपदम् → व्यासम्
४४१

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
न जाने अहं वचनं नव ।

  08.03.04
प्रधान-क्रियापदम् → (न) जाने (ज्ञा + कर्तरि लँट् / उ.पु / ए.व)
     कर्तृपदम् → अहम्
     कर्मपदम् → नव-वचनम्
४४२

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
असौ वेदराशिं विभज्य अददात् ।

  08.03.05
प्रधान-क्रियापदम् → अददात् (दा + कर्तरि लँङ् / प्र.पु / ए.व)
     कर्तृपदम् → असौ
     कर्मपदम् → x
गौण-क्रियापदम् → विभज्य (वि + भज् + ल्यप् / अव्ययम्)
     कर्तृपदम् → (असौ)
     कर्मपदम् → वेदराशिम्
४४३

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
तामेव कथां पठाम्यहम् ।

  08.03.06
प्रधान-क्रियापदम् → पठामि (पठ् + कर्तरि लँट् / उ.पु / ए.व)
     कर्तृपदम् → अहम्
     कर्मपदम् → कथाम् , ताम्
     अव्ययम् → एव
४४४

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
पठ् + क्त्वा / ल्यप् = [ x ]

  08.05.01
पठ् + क्त्वा = [पठित्वा] / अव्ययम्
४४५

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
प्रविश् + क्त्वा / ल्यप् = [ x ]

  08.05.02
प्र + विश् + ल्यप् = [प्रविश्य] / अव्ययम्
४४६

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
दृश् + क्त्वा / ल्यप् = [ x ]

  08.05.03
दृश् + क्त्वा = [दृष्ट्वा] / अव्ययम्
४४७

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
सम्भू + क्त्वा / ल्यप् = [ x ]

  08.05.04
सम् + भू + ल्यप् = [सम्भूय] / अव्ययम्
४४८

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
विचर् + क्त्वा / ल्यप् = [ x ]

  08.05.05
वि + चर् + ल्यप् = [विचर्य] / अव्ययम्
४४९

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
विभज् + क्त्वा / ल्यप् = [ x ]

  08.05.06
वि + भज् + ल्यप् = [विभज्य] / अव्ययम्
४५०

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
व्यासं ... तपोनिधिम् ॥

  08.06.01

श्लोकः (Verse) ---
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधम् ॥

अन्वयः (Prose order) ---
(अहं) वसिष्ठनप्तारं , शक्तेः पौत्रं , पराशर-आत्म-जं , शुक-तातम् , अकल्मषं , तपोनिधिं व्यासं वन्दे ।

अर्थः (Purport) ---
I pray to Vyasa, the great-grandson of Vashishta, the grandson of Shakti, the son of Parasara, the father of Shuka, the pure and the reservoir of penance.
४५१

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
धर्मेचार्थे ... तत्क्वचित् ॥

  08.06.02

श्लोकः (Verse) ---
धर्मेचार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥

अन्वयः (Prose order) ---
(हे) भरत-ऋषभ ! धर्मे च अर्थे च कामे च मोक्षे च यत् इह अस्ति तत् अन्यत्र (अपि भवेत्, परन्तु) यत् इह न अस्ति तत् न क्वचित् (अस्ति) ।

अर्थः (Purport) ---
O! the bull of Bharata race! In matters pertaining to Dharma (righteousness), Artha (economics), Kama (desires) and Moksha (liberation), whatever has been said here may be found elsewhere (also), but whatever is not found here does not exist anywhere else.
४५२

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
अचतुर्वदनो … बादरायणः ॥

  08.06.03

श्लोकः (Verse) ---
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुः भगवान् बादरायणः ॥

अन्वयः (Prose order) ---
भगवान् बादरायणः अचतुर्वदनः ब्रह्मा (अस्ति), द्विबाहुः अपरः हरिः (अस्ति), अफाल-लोचनः शम्भुः (अस्ति) ।

अर्थः (Purport) ---
The venerable Bādarāyaṇa (Vyāsa), is Brahmā without four heads, is Hari / Viṣṇu with two hands and is Śiva without an eye on the forehead.

[व्यधिकरण-बहुव्रीहि-समासः]
फाले लोचनं यस्य सः फाल-लोचनः ।
He, who has an eye on his forehead.
४५३

धातु-लकार-पुरुष-वचनानि लिखत ।
वन्दे

  08.07.01
वन्दे (वन्द् + कर्तरि लँट् / उ.पु / ए.व) →
     वन्द्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     उत्तम-पुरुषः
     एक-वचनम्
४५४

धातु-लकार-पुरुष-वचनानि लिखत ।
अवातरत्

  08.07.02
अवातरत् (अव + तॄ + कर्तरि लँङ् / प्र.पु / ए.व) →
     अव-उपसर्गः
     तॄ-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
४५५

धातु-लकार-पुरुष-वचनानि लिखत ।
वर्तन्ते

  08.07.03
वर्तन्ते (वृत् + कर्तरि लँट् / प्र.पु / ब.व) →
     वृत्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     बहु-वचनम्
४५६

धातु-लकार-पुरुष-वचनानि लिखत ।
अर्हति

  08.07.04
अर्हति (अर्ह् + कर्तरि लँट् / प्र.पु / ए.व) →
     अर्ह्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
४५७

धातु-लकार-पुरुष-वचनानि लिखत ।
सन्ति

  08.07.05
सन्ति (अस् + कर्तरि लँट् / प्र.पु / ब.व) →
     अस्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     बहु-वचनम्
४५८

धातु-लकार-पुरुष-वचनानि लिखत ।
अलभत

  08.07.06
अलभत (लभ् + कर्तरि लँङ् / प्र.पु / ए.व) →
     लभ्-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
४५९

तृतीया-विभक्ति-रूपाणि लिखत ।
वाल्मीकि

  08.08.01

वाल्मीकि / पुं ए.व द्वि.व ब.व
प्र.वि वाल्मीकिः वाल्मीकी वाल्मीकयः
स.प्र.वि हे वाल्मीके हे वाल्मीकी हे वाल्मीकयः
द्वि.वि वाल्मीकिम् वाल्मीकी वाल्मीकीन्
तृ.वि वाल्मीकिना वाल्मीकिभ्याम् वाल्मीकिभिः
च.वि वाल्मीकये वाल्मीकिभ्याम् वाल्मीकिभ्यः
प.वि वाल्मीकेः वाल्मीकिभ्याम् वाल्मीकिभ्यः
ष.वि वाल्मीकेः वाल्मीकयोः वाल्मीकीनाम्
स.वि वाल्मीकौ वाल्मीकयोः वाल्मीकिषु

४६०

क्त्वान्त-ल्यबन्त-रूपेण रिक्तस्थानं पूरयत ।
रच -> रचयित्वा === लिख् -> [ x ]

  08.08.02
रच -> रचयित्वा === लिख् -> [लिखित्वा / लेखित्वा]
४६१

योग्य-विभक्ति-प्रयोगेण रिक्तस्थानं पूरयत ।
माता -> मातरि === कर्ता -> [ x ]

  08.08.03
माता -> मातरि === कर्ता -> [कर्तरि]
४६२

स्त्रीलिङ्गे द्वितीया-विभक्ति-रूपाणि लिखत ।
अदस्

  08.08.04
अमूम् - अमू - अमूः
४६३

अन्यलिङ्गं परिवर्तयत ।
नप्ता

  08.09.01
नप्त्री (नप्त्री / स्त्री)
४६४

अन्यलिङ्गं परिवर्तयत ।
पौत्रः

  08.09.02
पौत्री (पौत्री / स्त्री)
४६५

अन्यलिङ्गं परिवर्तयत ।
भागिनेयः

  08.09.03
भागिनेयी (भागिनेयी / स्त्री)
४६६

अन्यलिङ्गं परिवर्तयत ।
आत्मजः

  08.09.04
आत्मजा (आत्मजा / स्त्री)
आत्मजम् (आत्मज / नपुं)
४६७

अन्यलिङ्गं परिवर्तयत ।
सर्वे

  08.09.05
सर्वाः (सर्वा / स्त्री)
सर्वाणि (सर्व / नपुं)
४६८

अन्यलिङ्गं परिवर्तयत ।
पञ्चमः

  08.09.06
पञ्चमी (पञ्चमी / स्त्री)
पञ्चमम् (पञ्चम / नपुं)
४६९

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
व्यासमुनिः [ श्रीमन्नारायणस्य ] अंशेन अवातरत् ।

  08.10.01
व्यासमुनिः [कस्य] अंशेन अवातरत् ?
४७०

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
व्यासः [ वसिष्ठस्य ] नप्ता ।

  08.10.02
व्यासः [कस्य] नप्ता ?
४७१

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
महाभारते [ अष्टादश ] पर्वाणि वर्तन्ते ।

  08.10.03
महाभारते [कति] पर्वाणि वर्तन्ते ?
४७२

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
भारतं तु [ सर्वे ] पठन्ति ।

  08.10.04
भारतं तु [के] पठन्ति ?
४७३

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ वेदानां ] सारः महाभारतम् ।

  08.10.05
[केषां] सारः महाभारतम् ?
४७४

सन्धिं विभज्य सन्धिनाम लिखत ।
प्रसिद्धोऽभवत्

  08.11.01
प्रसिद्धोऽभवत् = प्रसिद्धो + अभवत् [पूर्व-रूप-सन्धिः]

सन्धि-विवरणम् ।
प्रसिद्धः + अभवत्
= प्रसिद्ध् + अ + ः + अभवत्
= प्रसिद्ध् + अ + (ः → उ) + अभवत् [विसर्ग-उकार-आदेश-सन्धिः]
= प्रसिद्ध् + (अ + उ → ओ) + अभवत् [गुण-सन्धिः]
= प्रसिद्धो + अभवत् (पदान्ते ; ए / ओ + अ → ए / ओ + ऽ) [पूर्व-रूप-सन्धिः]
= प्रसिद्धोऽभवत्
४७५

सन्धिं विभज्य सन्धिनाम लिखत ।
चार्थे

  08.11.02
चार्थे = च + अर्थे [सवर्ण-दीर्घ-सन्धिः]
४७६

सन्धिं विभज्य सन्धिनाम लिखत ।
नारदोपदेशेन

  08.11.03
नारदोपदेशेन = नारद + उपदेशेन [गुण-सन्धिः]
४७७

सन्धिं विभज्य सन्धिनाम लिखत ।
महर्षिणा

  08.11.04
महर्षिणा = महा + ऋषिणा [गुण-सन्धिः]
४७८

सन्धिं विभज्य सन्धिनाम लिखत ।
अधुनापि

  08.11.05
अधुनापि = अधुना + अपि [सवर्ण-दीर्घ-सन्धिः]
४७९

सन्धिं विभज्य सन्धिनाम लिखत ।
इतीरितः

  08.11.06
इतीरितः = इति + ईरितः [सवर्ण-दीर्घ-सन्धिः]
४८०

सन्धिं विभज्य सन्धिनाम लिखत ।
पञ्चमो वेदः

  08.11.07
पञ्चमो वेदः = पञ्चमः + वेदः [विसर्ग-उकार-आदेश-सन्धिः]
४८१

सन्धिं विभज्य सन्धिनाम लिखत ।
इत्यपि

  08.11.08
इत्यपि = इति + अपि [यण्-सन्धिः]
४८२

संस्कृतेन अर्थं लिखत ।
other names

  08.12.01
नामान्तराणि
४८३

संस्कृतेन अर्थं लिखत ।
great grand-son

  08.12.02
नप्ता
४८४

संस्कृतेन अर्थं लिखत ।
Arjuna

  08.12.03
भरतर्षभः
४८५

संस्कृतेन अर्थं लिखत ।
excellent

  08.12.04
उत्कृष्टः
४८६

संस्कृतेन अर्थं लिखत ।
worship

  08.12.05
आराधना
४८७

संस्कृतेन अर्थं लिखत ।
Lord Shiva

  08.12.06
फाललोचनः
४८८

आङ्ग्लभाषया अर्थं लिखत ।
नामान्तराणि

  08.13.01
other names
४८९

आङ्ग्लभाषया अर्थं लिखत ।
नप्ता

  08.13.02
great grand-son
४९०

आङ्ग्लभाषया अर्थं लिखत ।
भरतर्षभः

  08.13.03
Arjuna
४९१

आङ्ग्लभाषया अर्थं लिखत ।
उत्कृष्टः

  08.13.04
excellent
४९२

आङ्ग्लभाषया अर्थं लिखत ।
आराधना

  08.13.05
worship
४९३

आङ्ग्लभाषया अर्थं लिखत ।
फाललोचनः

  08.13.06
Lord Shiva
४९४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
उपमन्युः कस्य शिष्यः ?

  09.01.01
उपमन्युः ऋषेः धौम्यस्य शिष्यः अस्ति ।
४९५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
उपमन्युः कदा गाः सेवते ?

  09.01.02
उपमन्युः दिवा गाः सेवते ।
४९६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कासां पयसा उपमन्युः वृत्तिं कल्पयति ?

  09.01.03
गावां पयसा उपमन्युः वृत्तिं कल्पयति |
४९७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
उपमन्युः कुत्र अपतत् ?

  09.01.04
उपमन्युः कूपे अपतत् ।
४९८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
उपमन्युः कथमन्धीभूतः अभवत् ?

  09.01.05
उपमन्युः अर्कपत्राणि भक्षयित्वा अन्धीभूतः अभवत् ।
४९९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
उपमन्युः कौ अतोषयत् ?

  09.01.06
उपमन्युः अश्विनीकुमारौ अतोषयत् ।
५००

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
धौम्यः कैः सह वनमगच्छत् ?

  09.01.07
धौम्यः शिष्यैः सह वनमगच्छत् ।
५०१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
धौम्यः किमर्थं वनमगच्छत् ?

  09.01.08
धौम्यः शिष्यम् उपमन्युम् अन्वेष्टुं वनमगच्छत् ।
५०२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
फेनं के कदा उद्रिरन्ति ?

  09.01.09
गोदुग्धस्य फेनं वत्साः मातॄणां क्षीरपानसमये उद्गिरन्ति ।
५०३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
विद्या कस्य शुश्रूषया लभ्यते ?

  09.01.10
विद्या गोरोः शुश्रूषया लभ्यते ।
५०४

सन्दर्भं विवृणुत ।
"अहम् अस्मिन् कूपे अपतम् ।"

कः पाठः ?
कः अपतत् ?
कं प्रति वदति ?

  09.02.01
"अहम् अस्मिन् कूपे अपतम् ।"

कः पाठः ?
→ गुरुभक्तः उपमन्युः

कः अपतत् ?
→ शिष्यः उपमन्युः अपतत् ।

कं प्रति वदति ?
→ उपमन्युः तं गुरुं धौम्यं प्रति वदति ।
५०५

सन्दर्भं विवृणुत ।
"गवां क्षीरं मा स्वीकुरु ।"

कः पाठः ?
कः वदति ?
कं प्रति वदति ?

  09.02.02
"गवां क्षीरं मा स्वीकुरु ।"

कः पाठः ?
→ गुरुभक्तः उपमन्युः

कः वदति ?
→ गुरुः धौम्यः वदति ।

कं प्रति वदति ?
→ गुरुः धौम्यः तं शिष्यं उपमन्युं प्रति वदति ।
५०६

सन्दर्भं विवृणुत ।
"एषा वृत्तिः नोचिता ।"

कः पाठः ?
कः वदति ?
कं प्रति वदति ?

  09.02.03
"एषा वृत्तिः नोचिता ।"

कः पाठः ?
→ गुरुभक्तः उपमन्युः

कः वदति ?
→ गुरुः धौम्यः वदति ।

कं प्रति वदति ?
→ गुरुः धौम्यः तं शिष्यं उपमन्युं प्रति वदति ।
५०७

सन्दर्भं विवृणुत ।
"गुरवे अनिवेद्य अहमुपयोक्तुम् नोत्सहे ।"

कः पाठः ?
कः वदति ?
कं प्रति वदति ?

  09.02.04
"गुरवे अनिवेद्य अहमुपयोक्तुम् नोत्सहे ।"

कः पाठः ?
→ गुरुभक्तः उपमन्युः

कः वदति ?
→ शिष्यः उपमन्युः वदति ।

कं प्रति वदति ?
→ शिष्यः उपमन्युः अश्विनीकुमारौ प्रति वदति ।
५०८

संस्कृतभाषया पञ्चवाक्यानि लिखत ।
कौत्सः (गुरुभक्तानां विषये लिखत ।)

  09.03.01
वरतन्तोः शिष्यः कौत्सः गुरुदक्षिणां दातुम् ऐच्छत् । तदा वरतन्तुः "चतुर्दशकोटीसुवर्णनिष्कान् यच्छतु" इति आज्ञापयत् । सः रघुमहाराजस्य समीपं अगच्छत् । राजा विश्वजित् यागे सर्वं धनं दानं कृत्वा रिक्तहस्तः आसीत् । राजा कौत्साय धनं दातुं कुबेरेण सह योद्धुं ऐच्छत् । भीतः कुबेरः राजकोषे कनकवृष्टिं अकरोत् । राजा तत् कौत्साय अयच्छत् । कौत्सः चतुर्दशकोटीसुवर्णनाणकानि एव स्वीकृत्य, गुरवे दक्षिणां समार्पयत् । परं रघु: कुबेरदत्तम् सर्वं धनं वरतन्तुऋषये प्रेषयामास ।
५०९

संस्कृतभाषया पञ्चवाक्यानि लिखत ।
ध्रुवः (गुरुभक्तानां विषये लिखत ।)

  09.03.02
सुनीत्युत्तानपादयो: पुत्रः ध्रुवः कदाचित् पितुः अङ्के उपवेष्टुम् ऐच्छत् । तं वीक्ष्य विमाता सुरुचिः "तत् भाग्यं तव कृते नास्ति" इति अवदत् । ध्रुवः स्वमातरं एतत् उक्त्वा तस्याः आज्ञया तपः कर्तुं वनं अगच्छत् । तत्र गुरोः नारदस्य उपदेशेन, पञ्चवर्षीयः सः, उग्रं तपः आचर्य, विष्णोः दर्शनं प्राप्य दुर्लभं ध्रुवपदं अवाप ।
५१०

संस्कृतभाषया पञ्चवाक्यानि लिखत ।
एकलव्यः (गुरुभक्तानां विषये लिखत ।)

  09.03.03
एकलव्यस्य गुरुभक्तिः अपूर्वा । द्रोणाचार्यः तं शिष्यरुपेण न स्वीकरोति स्म । अतः एकलव्यः वने गुरुद्रोणस्य मूर्तिं मृत्तिकया निर्माय स्वयमेव अभ्यासं करोति स्म । कदाचित् एतत् ज्ञात्वा "गुरुदक्षिणारूपेण अङ्गुष्ठं ददातु" इति द्रोणः वदति स्म । अनुक्षणे सः अङ्गुष्ठं अयच्छत् ।
५११

संस्कृतभाषया पञ्चवाक्यानि लिखत ।
कुचेलः (गुरुभक्तानां विषये लिखत ।)

  09.03.04
कुचेलः श्रीकृष्णस्य सहपाठी आसीत् । तयोः गुरुः सान्दीपनी महर्षिः । गुरुमाता एकदा तौ काष्ठं आनेतुं वनं प्रैषयत् । तदा चण्डमारुतः आरब्ध: । तौ काष्ठं रक्षितुं वृक्षस्य अध: स्थितौ । प्रातः काले गुरुः तौ अन्वेष्टुं वनं आगत्य तयोः गुरुभक्तिं प्राशंसत् ।
५१२

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
स्तुतिभिः

  09.04.01
स्तुतिभिः →
     इकारान्तः
     स्त्रीलिङ्गः
     स्तुति शब्दः
     तृतीया-विभक्तिः
     बहु-वचनम्
५१३

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
मातॄणाम्

  09.04.02
मातॄणाम् →
     ऋकारान्तः
     स्त्रीलिङ्गः
     मातृ शब्दः
     षष्ठी-विभक्तिः
     बहु-वचनम्
५१४

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
वृत्तिः

  09.04.03
वृत्तिः →
     इकारान्तः
     स्त्रीलिङ्गः
     वृत्ति शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
५१५

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
उपमन्योः

  09.04.04
उपमन्योः →
     उकारान्तः
     पुंलिङ्गः
     उपमन्यु शब्दः
     पञ्चमी / षष्ठी-विभक्तिः
     एक-वचनम्
५१६

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
शिष्यान्

  09.04.05
शिष्यान् →
     अकारान्तः
     पुंलिङ्गः
     शिष्य शब्दः
     द्वितीया-विभक्तिः
     बहु-वचनम्
५१७

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
गाः

  09.04.06
गाः →
     ओकारान्तः
     पुंस्त्रीलिङ्गः
     गो शब्दः
     द्वितीया-विभक्तिः
     बहु-वचनम्
५१८

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
शुश्रूषया

  09.04.07
शुश्रूषया →
     आकारान्तः
     स्त्रीलिङ्गः
     शुश्रूषा शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
५१९

सन्धिं विभज्य सन्धिनाम लिखत ।
पीनोऽसि

  09.05.01
पीनोऽसि = पीनो + असि [पूर्व-रूप-सन्धिः]
५२०

सन्धिं विभज्य सन्धिनाम लिखत ।
न्यवेदयत्

  09.05.02
न्यवेदयत् = नि + अवेदयत् [यण्-सन्धिः]
५२१

सन्धिं विभज्य सन्धिनाम लिखत ।
अन्वसरन्

  09.05.03
अन्वसरन् = अनु + असरन् [यण्-सन्धिः]
५२२

सन्धिं विभज्य सन्धिनाम लिखत ।
प्रत्यागच्छत्

  09.05.04
प्रत्यागच्छत् = प्रति + आगच्छत् [यण्-सन्धिः]
५२३

सन्धिं विभज्य सन्धिनाम लिखत ।
पीतावेव

  09.05.05
पीतावेव = पीतौ + एव [यान्त-वान्त-आदेश-सन्धिः]
५२४

वाक्ये योजयत ।
परन्तु

  09.06.01
अद्य विरामः, [परन्तु] कार्यालयं गच्छामि ।
५२५

वाक्ये योजयत ।
उक्त्वा

  09.06.02
"इत्तं मा कुरु ।" इति [उक्त्वा], सा अगच्छत् ।
५२६

वाक्ये योजयत ।
सह

  09.06.03
रामेण [सह] सीता वनम् अगच्छत् ।
५२७

वाक्ये योजयत ।
पुनः

  09.06.04
कृपया [पुनः] एक-वारं वदतु ।
५२८

वाक्ये योजयत ।
वृत्तिः

  09.06.05

५२९

प्रकृतिं प्रत्ययं च योजयत ।
नी + क्त्वा

  09.07.01
नी + क्त्वा → नीत्वा / अव्ययम्
५३०

प्रकृतिं प्रत्ययं च योजयत ।
अनु + इष् + ल्यप्

  09.07.02
अनु + इष् + ल्यप् → अन्विष्य / अव्ययम्
५३१

प्रकृतिं प्रत्ययं च योजयत ।
गम् + तुमुँन्

  09.07.03
गम् + तुमुँन् → गन्तुम् / अव्ययम्
५३२

प्रकृतिं प्रत्ययं च योजयत ।
उप + भुज् + ल्यप्

  09.07.04
उप + भुज् + ल्यप् → उपभुज्य / अव्ययम्
५३३

प्रकृतिं प्रत्ययं च योजयत ।
प्र + आप् + ल्यप्

  09.07.05
प्र + आप् + ल्यप् → प्राप्य / अव्ययम्
५३४

लँट्‍-लकारे परिवर्तयत ।
रामः वनवासं परिसमाप्य अयोध्यां प्रत्यागच्छत् ।

  09.08.01
रामः वनवासं परिसमाप्य अयोध्यां [प्रत्यागच्छति]
५३५

लँट्‍-लकारे परिवर्तयत ।
छात्राः वृत्तान्तं गुरवे न्यवेदयन् ।

  09.08.02
छात्राः वृत्तान्तं गुरवे [निवेदयन्ति]
५३६

लँट्‍-लकारे परिवर्तयत ।
प्रहस्तेन पृष्टः मारुतिः रावणं प्रत्यवदत् ।

  09.08.03
प्रहस्तेन पृष्टः मारुतिः रावणं [प्रतिवदति]
५३७

लँट्‍-लकारे परिवर्तयत ।
अहम् आपणात् फलानि आनयम् ।

  09.08.04
अहम् आपणात् फलानि [आनयामि]
५३८

लँट्‍-लकारे परिवर्तयत ।
त्वं मित्रेभ्यः मधुराणि प्रायच्छः ।

  09.08.05
त्वं मित्रेभ्यः मधुराणि [प्रयच्छसि]
५३९

समानार्थकपदं लिखत ।
शिष्यः

  09.09.01
छात्रः
५४०

समानार्थकपदं लिखत ।
प्रभूतम्

  09.09.02

५४१

समानार्थकपदं लिखत ।
पीनः

  09.09.03
पीवरः
५४२

समानार्थकपदं लिखत ।
दृष्ट्वा

  09.09.04
समीक्ष्य
५४३

समानार्थकपदं लिखत ।
सेवा

  09.09.05
शुश्रूषा
५४४

समानार्थकपदं लिखत ।
क्षीरम्

  09.09.06
दुग्धम्
५४५

समानार्थकपदं लिखत ।
सह

  09.09.07
समम्, सार्धम्, साकम्
५४६

समानार्थकपदं लिखत ।
पत्राणि

  09.09.08
पर्णानि
५४७

विरुद्धार्थकपदं लिखत ।
प्रभूतम्

  09.10.01

५४८

विरुद्धार्थकपदं लिखत ।
सायम्

  09.10.02
प्रातः
५४९

विरुद्धार्थकपदं लिखत ।
दिवा

  09.10.03
नक्तम्
५५०

विरुद्धार्थकपदं लिखत ।
इदानीम्

  09.10.04
तदानीम्
५५१

योग्य-विभक्ति-प्रयोगेण रिक्तस्थानं पूरयत ।
सीता [ रामः ] सह वनं गच्छति ।

  09.11.01
सीता [रामेण] सह वनं गच्छति ।
५५२

योग्य-विभक्ति-प्रयोगेण रिक्तस्थानं पूरयत ।
रामः [ वानराः ] साकं समुद्रं तरति ।

  09.11.02
रामः [वानरैः] साकं समुद्रं तरति ।
५५३

योग्य-विभक्ति-प्रयोगेण रिक्तस्थानं पूरयत ।
बालकाः [ बालिकाः ] सार्धं क्रीडन्ति ।

  09.11.03
बालकाः [बालिकाभिः] सार्धं क्रीडन्ति ।
५५४

योग्य-विभक्ति-प्रयोगेण रिक्तस्थानं पूरयत ।
जनकः [ मातृ ] समं संभाषणं करोति ।

  09.11.04
जनकः [मात्रा] समं संभाषणं करोति ।
५५५

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
गुरुशुश्रूषया ... नोपलभ्यते ॥

  09.12.01

श्लोकः (Verse) ---
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या चतुर्थी नोपलभ्यते ॥

अन्वयः (Prose order) ---
गुरु-शुश्रूषया विद्या (उपलभ्यते), पुष्कलेन धनेन वा (उपलभ्यते), अथवा विद्यया विद्या (उपलभ्यते), चतुर्थी न उपलभ्यते ।

अर्थः (Purport) ---
Knowledge is acquired by serving the master, or by giving abundant money, or in exchange of knowledge. There is no fourth means.
५५६

संस्कृतेन अर्थं लिखत ।
day or daytime

  09.13.01
दिवा
५५७

संस्कृतेन अर्थं लिखत ।
plump

  09.13.02
पीनः, पीवरः
५५८

संस्कृतेन अर्थं लिखत ।
without informing

  09.13.03
अनिवेद्य
५५९

संस्कृतेन अर्थं लिखत ।
milk

  09.13.04
पयः
५६०

संस्कृतेन अर्थं लिखत ।
foam, froth

  09.13.05
फेनः
५६१

संस्कृतेन अर्थं लिखत ।
well

  09.13.06
कूपः
५६२

संस्कृतेन अर्थं लिखत ।
where

  09.13.07
क्व
५६३

संस्कृतेन अर्थं लिखत ।
abundant

  09.13.08
पुष्कलः
५६४

संस्कृतेन अर्थं लिखत ।
sodom apple leaves

  09.13.09
अर्कपत्राणि
५६५

आङ्ग्लभाषया अर्थं लिखत ।
दिवा

  09.14.01
day or daytime
५६६

आङ्ग्लभाषया अर्थं लिखत ।
पीनः, पीवरः

  09.14.02
plump
५६७

आङ्ग्लभाषया अर्थं लिखत ।
अनिवेद्य

  09.14.03
without informing
५६८

आङ्ग्लभाषया अर्थं लिखत ।
पयः

  09.14.04
milk
५६९

आङ्ग्लभाषया अर्थं लिखत ।
फेनः

  09.14.05
foam, froth
५७०

आङ्ग्लभाषया अर्थं लिखत ।
कूपः

  09.14.06
well
५७१

आङ्ग्लभाषया अर्थं लिखत ।
क्व

  09.14.07
where
५७२

आङ्ग्लभाषया अर्थं लिखत ।
पुष्कलः

  09.14.08
abundant
५७३

आङ्ग्लभाषया अर्थं लिखत ।
अर्कपत्राणि

  09.14.09
sodom apple leaves
५७४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
देवीभागवते तुलसी केन नाम्ना वर्णितास्ति ?

  10.01.01
देवीभागवते तुलसी 'विश्वपावनी' इति नाम्ना वर्णितास्ति ।
५७५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
तुलसीदलसेवनेन कस्य वृद्धिः भवति ?

  10.01.02
तुलसीदलसेवनेन स्वास्थ्यस्य वृद्धिः भवति ।
५७६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
तुलस्यां कीदृशाः गुणाः सन्ति ?

  10.01.03
तुलस्याम् अनेके औषधगुणाः सन्ति ।
५७७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
तुलसीदलैः कृतेन अर्चनेन कः प्रसन्नः भवति ?

  10.01.04
तुलसीदलैः कृतेन अर्चनेन भगवान् विष्णुः प्रसन्नः भवति ।
५७८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
तुलस्याः अन्यनामानि कानि ?

  10.01.05
तुलस्याः विष्णुवल्लभा, सुरसुन्दरी, श्रीकृष्णवल्लभा, वृन्दा, वैष्णवी इत्यादयः पवित्रनामानि सन्ति ।
५७९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
चर्मव्याधयः कथं नश्यन्ति ?

  10.01.06
तुलसीकषायस्य सेवनेन चर्मव्याधयः नश्यन्ति ।
५८०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
का चतुर्वर्गफलप्रदा ?

  10.01.07
तुलसी चतुर्वर्गफलप्रदा अस्ति ।
५८१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
केन रोगनिरोधकशक्तिः वर्धते ?

  10.01.08
प्रतिदिनं भोजनात् प्राक् तुलसीपत्राणां भक्षणेन रोगनिरोधकशक्तिः वर्धते ।
५८२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
तुलसीदले कानि कानि सन्ति ?

  10.01.09
तुलसीदले पुष्कराद्यानि तीर्थानि गंगाद्याः वासुदेवादयः देवाः तिष्ठन्ति ।
५८३

विरुद्धार्थकपदं लिखत ।
वर्धते

  10.02.01
क्षीयते
५८४

विरुद्धार्थकपदं लिखत ।
पवित्रम्

  10.02.02
अपवित्रम्
५८५

विरुद्धार्थकपदं लिखत ।
गुणः

  10.02.03
दोषः
५८६

विरुद्धार्थकपदं लिखत ।
अस्ति

  10.02.04
नास्ति
५८७

विरुद्धार्थकपदं लिखत ।
शुद्धम्

  10.02.05
अशुद्धम्
५८८

समानार्थकपदं लिखत ।
प्रख्यातम्

  10.03.01
प्रसिद्धम्
५८९

समानार्थकपदं लिखत ।
तुलसी

  10.03.02
विष्णुवल्लभा, सुरसुन्दरी, श्रीकृष्णवल्लभा, वृन्दा, वैष्णवी, विश्वपावनी
५९०

समानार्थकपदं लिखत ।
विष्णुः

  10.03.03
नारायणः
५९१

समानार्थकपदं लिखत ।
जलम्

  10.03.04
अमरकोशः →
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥

१) कबन्धम् (कबन्ध / नपुं)
२) उदकम् (उदक / नपुं)
३) पाथम् (पाथ / नपुं)
४) पुष्करम् (पुष्कर / नपुं)
५) सर्वतोमुखम् (सर्वतोमुख / नपुं)
६) अम्भः (अम्भस् / नपुं)
७) अर्णः (अर्णस् / नपुं)
८) तोयम् (तोय / नपुं)
९) पानीयम् (पानीय / नपुं)
१०) नीरम् (नीर / नपुं)
११) क्षीरम् (क्षीर / नपुं)
१२) अम्बु (अम्बु / नपुं)
१३) शम्बरम् (शम्बर / नपुं)

अमरकोशः →
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।
पयः कीलालममृतं जीवनं भुवनं वनम् ॥

१४) आपः (अप् / स्त्री-बहु)
१५) वाः (वार् / नपुं)
१६) वारि (वारि / नपुं)
१७) सलिलम् (सलिल / नपुं)
१८) कमलम् (कमल / नपुं)
१९) जलम् (जल / नपुं)
२०) पयः (पयस् / नपुं)
२१) कीलालम् (कीलाल / नपुं)
२२) अमृतम् (अमृत / नपुं)
२३) जीवनम् (जीवन / नपुं)
२४) भुवनम् (भुवन / नपुं)
२५) वनम् (वन / नपुं)
५९२

समानार्थकपदं लिखत ।
पावनम्

  10.03.05
पवित्रम्
५९३

समानार्थकपदं लिखत ।
रोगः

  10.03.06
व्यादिः
५९४

समानार्थकपदं लिखत ।
अपूर्वम्

  10.03.07
अनुपमम्
५९५

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
तुलस्यमृतजन्मासि ... शोभने ॥

  10.04.01

श्लोकः (Verse) ---
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ।
केशवार्थे लुनामि त्वां वरदा भव शोभने ॥

अन्वयः (Prose order) ---


अर्थः (Purport) ---

५९६

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
यन्मूले ... नमाम्यहम् ॥

  10.04.02

श्लोकः (Verse) ---
यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्ववेदाश्च तुलसीं तां नमाम्यहम् ॥

अन्वयः (Prose order) ---
यत् मूले सर्व-तीर्थानि (सन्ति), यत् मध्ये सर्व-देवताः (सन्ति), यत् अग्रे सर्व-वेदाः (सन्ति) च, अहं तां तुलसीं नमामि ।

अर्थः (Purport) ---
I prostrate before that Tulasī plant, whose root is the abode of all holy waters of pilgrimage, whose stem houses all the Gods and the tips of whose leaves houses all the (four) vedas.
५९७

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
पुष्कराद्यानि … तुलसीदले ॥

  10.04.03

श्लोकः (Verse) ---
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।
वासुदेवादयो देवास्तिष्ठन्ति तुलसीदले ॥

अन्वयः (Prose order) ---


अर्थः (Purport) ---

५९८

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ वृक्षेषु ] तुलसीवृक्षकं प्रधानम् ।

  10.05.01
[केषु] तुलसीवृक्षकं प्रधानम् ?
५९९

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ तुलसीकषायस्य ] सेवनेन चर्मव्याधयः नश्यन्ति ।

  10.05.02
[कस्य] सेवनेन चर्मव्याधयः नश्यन्ति ?
६००

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ तुलसीदलैः ] मिश्रितं क्वथितं जलं बहु उपकरोति ।

  10.05.03
[कैः] मिश्रितं क्वथितं जलं बहु उपकरोति ?
६०१

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
स्वच्छतायाः सम्पादने [ तुलस्याः ] सामर्थ्यम् अनुपमम् ।

  10.05.04
स्वच्छतायाः सम्पादने [कस्याः] सामर्थ्यम् अनुपमम् ?
६०२

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ तुलसी ] सर्वमपि पवित्रं करोति ।

  10.05.05
[का] सर्वमपि पवित्रं करोति ?
६०३

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ केशवार्थं ] लुनाति तुलसीम् ।

  10.05.06
[किमर्थं] लुनाति तुलसीम् ?
६०४

सन्धिं कृत्वा सन्धिनाम लिखत ।
उष्ण + उदकम्

  10.06.01
उष्ण + उदकम्
= उष्ण् + (अ + उ) + दकम्
= उष्ण् + (अ + उ) ⇒ ओ + दकम् [गुण ६.१.८७]
= उष्णोदकम्
६०५

सन्धिं कृत्वा सन्धिनाम लिखत ।
परम + ऋषयः

  10.06.02
परम + ऋषयः
= परम् + (अ + ऋ) + षयः
= परम् + (अ + ऋ) ⇒ अर् + षयः [गुण ६.१.८७]
= परमर्षयः
६०६

सन्धिं कृत्वा सन्धिनाम लिखत ।
महा + ऋषिः

  10.06.03
महा + ऋषिः
= मह् + (आ + ऋ) + षिः
= मह् + (आ + ऋ) ⇒ अर् + षिः [गुण ६.१.८७]
= महर्षिः
६०७

सन्धिं कृत्वा सन्धिनाम लिखत ।
वसन्त + ऋतुः

  10.06.04
वसन्त + ऋतुः
= वसन्त् + (अ + ऋ) + तुः
= वसन्त् + (अ + ऋ) ⇒ अर् + तुः [गुण ६.१.८७]
= वसन्तर्तुः
६०८

सन्धिं कृत्वा सन्धिनाम लिखत ।
परमात्मा + इव

  10.06.05
परमात्मा + इव
= परमात्म् + (आ + इ) + व
= परमात्म् + (आ + इ) ⇒ ए + व [गुण ६.१.८७]
= परमात्मेव
६०९

सन्धिं कृत्वा सन्धिनाम लिखत ।
शिव + इति

  10.06.06
शिव + इति
= शिव् + (अ + इ) + ति
= शिव् + (अ + इ) ⇒ ए + ति [गुण ६.१.८७]
= शिवेति
६१०

सन्धिं विभज्य सन्धिनाम लिखत ।
उपेन्द्रः

  10.07.01
उपेन्द्रः = उप + इन्द्रः [गुण-सन्धिः]
६११

सन्धिं विभज्य सन्धिनाम लिखत ।
गङ्गोदकम्

  10.07.02
गङ्गोदकम् = गङ्गा + उदकम् [गुण-सन्धिः]
६१२

सन्धिं विभज्य सन्धिनाम लिखत ।
रमेशः

  10.07.03
रमेशः = रमा + ईशः [गुण-सन्धिः]
६१३

सन्धिं विभज्य सन्धिनाम लिखत ।
देवर्षिः

  10.07.04
देवर्षिः = देव + ऋषिः [गुण-सन्धिः]
६१४

सन्धिं विभज्य सन्धिनाम लिखत ।
हितोपदेशः

  10.07.05
हितोपदेशः = हित + उपदेशः [गुण-सन्धिः]
६१५

सन्धिं विभज्य सन्धिनाम लिखत ।
महोदयः

  10.07.06
महोदयः = महा + उदयः [गुण-सन्धिः]
६१६

संस्कृतेन अर्थं लिखत ।
in the court yards

  10.08.01
प्राङ्गणेषु
६१७

संस्कृतेन अर्थं लिखत ।
pluck

  10.08.02
लुनामि
६१८

संस्कृतेन अर्थं लिखत ।
health

  10.08.03
स्वास्थ्यम्
६१९

संस्कृतेन अर्थं लिखत ।
before

  10.08.04
प्राक्
६२०

संस्कृतेन अर्थं लिखत ।
boiled

  10.08.05
क्वथितम्
६२१

संस्कृतेन अर्थं लिखत ।
famous

  10.08.06
प्रथितम्
६२२

संस्कृतेन अर्थं लिखत ।
controling

  10.08.07
निरोधे
६२३

संस्कृतेन अर्थं लिखत ।
river

  10.08.08
सरित्
६२४

आङ्ग्लभाषया अर्थं लिखत ।
प्राङ्गणेषु

  10.09.01
in the court yards
६२५

आङ्ग्लभाषया अर्थं लिखत ।
लुनामि

  10.09.02
pluck
६२६

आङ्ग्लभाषया अर्थं लिखत ।
स्वास्थ्यम्

  10.09.03
health
६२७

आङ्ग्लभाषया अर्थं लिखत ।
प्राक्

  10.09.04
before
६२८

आङ्ग्लभाषया अर्थं लिखत ।
क्वथितम्

  10.09.05
boiled
६२९

आङ्ग्लभाषया अर्थं लिखत ।
प्रथितम्

  10.09.06
famous
६३०

आङ्ग्लभाषया अर्थं लिखत ।
निरोधे

  10.09.07
controling
६३१

आङ्ग्लभाषया अर्थं लिखत ।
सरित्

  10.09.08
river
६३२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कर्णाटकस्य जीवनदी का ?

  11.01.01
कावेरी कर्णाटकस्य जीवनदी अस्ति ।
६३३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कावेर्याः उद्भवस्थानं कुत्र अस्ति ?

  11.01.02
कावेर्याः उद्भवस्थानं कोडगुमण्डले पश्चिमघट्टप्रदेशे तलकावेरी अस्ति ।
६३४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
दक्षिणगङ्गा इति का प्रसिद्धा ?

  11.01.03
दक्षिणगङ्गा इति कावेरी प्रसिद्धा अस्ति ।
६३५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कर्णाटके कावेरीनद्याः जलबन्धः कुत्र अस्ति ?

  11.01.04
कर्णाटके कावेरीनद्याः "कृष्णराजसागरः" इति जगत्प्रसिद्धः जलबन्धः मैसूरु-नगर-समीपे अस्ति ।
६३६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कावेरी कस्य पुत्री ?

  11.01.05
कावेरी कवेरमुनेः पुत्री अस्ति ।
६३७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कावेर्याः उपनद्यः काः सन्ति ?

  11.01.06
शिंशा, हेमावती, अर्कावती, कपिला, कबिनी, लक्ष्मणतीर्थं, लोकपावनी च कावेर्याः उपनद्यः सन्ति |
६३८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
के कावेरीं 'स्वकुलदेवता' इति भावयन्ति ?

  11.01.07
कोडगुजनाः कावेरीं 'स्वकुलदेवता' इति भावयन्ति ।
६३९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
लोपामुद्रा कस्य पत्नी ?

  11.01.08
लोपामुद्रा अगस्त्यमुनेः पत्नी अस्ति ।
६४०

समानार्थकपदं लिखत ।
नदी

  11.02.01
सरित् , तरङ्गिणी
६४१

समानार्थकपदं लिखत ।
सागरः

  11.02.02
अमरकोशः →
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥

१) समुद्रः (समुद्र / पुं)
२) अब्धिः (अब्धि / पुं)
३) अकूपारः (अकूपार / पुं)
४) पारावारः (पारावार / पुं)
५) सरित्पतिः (सरित्पति / पुं)
६) उदन्वान् (उदन्वत् / पुं)
७) उदधिः (उदधि / पुं)
८) सिन्धुः (सिन्धु / पुं)
९) सरस्वान् (सरस्वत् / पुं)
१०) सागरः (सागर / पुं)
११) अर्णवः (अर्णव / पुं)
६४२

समानार्थकपदं लिखत ।
सुता

  11.02.03
अमरकोशः →
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ।

१) आत्मजा (आत्मजा / स्त्री)
२) तनया (तनया / स्त्री)
३) सूनू (सूनू / स्त्री)
४) सुता (सुता / स्त्री)
५) पुत्री (पुत्री / स्त्री)
६४३

समानार्थकपदं लिखत ।
मुनिः

  11.02.04
ऋषिः
६४४

समानार्थकपदं लिखत ।
भूमिः

  11.02.05
अमरकोशः →
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।
धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥

१) भूः (भू / स्त्री)
२) भूमिः (भूमि / स्त्री)
३) अचला (अचला / स्त्री)
४) अनन्ता (अनन्ता / स्त्री)
५) रसा (रसा / स्त्री)
६) विश्वम्भरा (विश्वम्भरा / स्त्री)
७) स्थिरा (स्थिरा / स्त्री)
८) धरा (धरा / स्त्री)
९) धरित्री (धरित्री / स्त्री)
१०) धरणिः (धरणि / स्त्री)
११) क्षोणी (क्षोणी / स्त्री)
१२) ज्या (ज्या / स्त्री)
१३) काश्यपी (काश्यपी / स्त्री)
१४) क्षिति (क्षिति / स्त्री)
६४५

संस्कृतभाषया पञ्चवाक्यानि लिखत ।
संस्कृतभाषया कावेरीनद्याः पुराणकथा लिखत ।

  11.03.01

६४६

वाक्ये योजयत ।
कदाचित्

  11.04.01

६४७

वाक्ये योजयत ।
यदि तर्हि

  11.04.02
[यदि] विरामः अस्ति [तर्हि] मम गृहम् आगच्छ ।
६४८

वाक्ये योजयत ।
आगत्य

  11.04.03
गृहम् [आगत्य] भोजनं कुरु ।
६४९

वाक्ये योजयत ।
प्रवहति

  11.04.04
भारतदेशे गङ्गानदी [प्रवहति]
६५०

वाक्ये योजयत ।
नद्यः

  11.04.05

६५१

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
कावेरी [ कर्णाटकस्य ] जीवनदी अस्ति ।

  11.05.01
कावेरी [कस्य] जीवनदी अस्ति ।
६५२

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
अगस्त्यः [ लोपामुद्रां ] वृणोति ।

  11.05.02
अगस्त्यः [कां] वृणोति ।
६५३

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ कावेरीनद्याः ] विषये अनेकाः पुराणकथाः सन्ति ।

  11.05.03
[कस्याः] विषये अनेकाः पुराणकथाः सन्ति ।
६५४

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
कावेरी [ तलकावेरी इति स्थाने ] उद्भवति ।

  11.05.04
कावेरी [कुत्र] उद्भवति ।
६५५

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ कावेर्यां स्नानेन सर्वपापानि नश्यन्ति ] इति जनाः भावयन्ति ।

  11.05.05
[किम्] इति जनाः भावयन्ति ?
६५६

शब्द-रूपाणि सर्व-विभक्ति-वचनेषु लिखत ।
कावेरी

  11.06.01

कावेरी / स्त्री ए.व द्वि.व ब.व
प्र.वि कावेरी कावेर्यौ कावेर्यः
स.प्र.वि हे कावेरि हे कावेर्यौ हे कावेर्यः
द्वि.वि कावेरीम् कावेर्यौ कावेरीः
तृ.वि कावेर्या कावेरीभ्याम् कावेरीभिः
च.वि कावेर्यै कावेरीभ्याम् कावेरीभ्यः
प.वि कावेर्याः कावेरीभ्याम् कावेरीभ्यः
ष.वि कावेर्याः कावेर्योः कावेरीणाम्
स.वि कावेर्याम् कावेर्योः कावेरीषु

६५७

सन्धिं विभज्य सन्धिनाम लिखत ।
लोकोद्धारार्थम्

  11.07.01
लोकोद्धारार्थम् = लोक + उद्धारार्थम् [गुण-सन्धिः]
६५८

सन्धिं विभज्य सन्धिनाम लिखत ।
नेच्छामि

  11.07.02
नेच्छामि = न + इच्छामि [यण्-सन्धिः]
६५९

सन्धिं विभज्य सन्धिनाम लिखत ।
प्रावहत्

  11.07.03
प्रावहत् = प्र + अवहत् [सवर्ण-दीर्घ-सन्धिः]
६६०

सन्धिं विभज्य सन्धिनाम लिखत ।
महोन्नतः

  11.07.04
महोन्नतः = महा + उन्नतः [गुण-सन्धिः]
६६१

अन्यलिङ्गं परिवर्तयत ।
अन्यतमः

  11.08.01
अन्यतमा (अन्यतमा / स्त्री)
अन्यतमम् (अन्यतम / नपुं)
६६२

अन्यलिङ्गं परिवर्तयत ।
स्वतन्त्रः

  11.08.02
स्वतन्त्रा (स्वतन्त्रा / स्त्री)
स्वतन्त्रम् (स्वतन्त्र / नपुं)
६६३

अन्यलिङ्गं परिवर्तयत ।
भर्ता

  11.08.03
भार्या (भार्या / स्त्री)
पत्नी (पत्नी / स्त्री)
जाया (जाया / स्त्री)
कलत्रम् (कलत्र / नपुं)
६६४

अन्यलिङ्गं परिवर्तयत ।
पावनः

  11.08.04
पावनी (पावनी / स्त्री)
पावनम् (पावन / नपुं)
६६५

अन्यलिङ्गं परिवर्तयत ।
एषः

  11.08.05
एषा (एतद् / स्त्री)
एतत् (एतद् / नपुं)
६६६

अन्यलिङ्गं परिवर्तयत ।
छात्रः

  11.08.06
छात्रा (छात्रा / स्त्री)
६६७

अन्यलिङ्गं परिवर्तयत ।
विद्यार्थी

  11.08.07
विद्यार्थिनी (विद्यार्थिनी / स्त्री)
विद्यार्थि (विद्यार्थिन् / नपुं)
६६८

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
सृजति (लँङ्-लकारे)

  11.09.01

सृज् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु असृजत् असृजताम् असृजन्
म.पु असृजः असृजतम् असृजत
उ.पु असृजम् असृजाव असृजाम

६६९

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
विस्मरति (लँङ्-लकारे)

  11.09.02

वि + स्मृ + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु व्यस्मरत् व्यस्मरताम् व्यस्मरन्
म.पु व्यस्मरः व्यस्मरतम् व्यस्मरत
उ.पु व्यस्मरम् व्यस्मराव व्यस्मराम

६७०

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
सम्भवति (लँङ्-लकारे)

  11.09.03

सम् + भू + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु समभवत् समभवताम् समभवन्
म.पु समभवः समभवतम् समभवत
उ.पु समभवम् समभवाव समभवाम

६७१

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
अस्ति (लँङ्-लकारे)

  11.09.04

अस् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु आसीत् आस्ताम् आसन्
म.पु आसीः आस्तम् आस्त
उ.पु आसम् आस्व आस्म

६७२

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
गच्छति (लँङ्-लकारे)

  11.09.05

गम् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अगच्छत् अगच्छताम् अगच्छन्
म.पु अगच्छः अगच्छतम् अगच्छत
उ.पु अगच्छम् अगच्छाव अगच्छाम

६७३

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
प्रवहति (लँङ्-लकारे)

  11.09.06

प्र + वह् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु प्रावहत् प्रावहताम् प्रावहन्
म.पु प्रावहः प्रावहतम् प्रावहत
उ.पु प्रावहम् प्रावहाव प्रावहाम

६७४

रूपाणि सर्वपुरुषेषु वचनेषु च लिखत ।
प्रविशति (लँङ्-लकारे)

  11.09.07

प्र + विश् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु प्राविशत् प्राविशताम् प्राविशन्
म.पु प्राविशः प्राविशतम् प्राविशत
उ.पु प्राविशम् प्राविशाव प्राविशाम

६७५

अन्यलिङ्गं परिवर्तयत ।
बालकः

  11.10.01
बालिका (बालिका / स्त्री)
६७६

अन्यलिङ्गं परिवर्तयत ।
प्रियतरः

  11.10.02
प्रियतरा (प्रियतरा / स्त्री)
प्रियतरम् (प्रियतर / नपुं)
६७७

अन्यलिङ्गं परिवर्तयत ।
तम्

  11.10.03
ताम् (तद् / स्त्री)
तत् (तद् / नपुं)
६७८

अन्यलिङ्गं परिवर्तयत ।
सः

  11.10.04
सा (तद् / स्त्री)
तत् (तद् / नपुं)
६७९

अन्यलिङ्गं परिवर्तयत ।
दुर्लभा

  11.10.05
दुर्लभः (दुर्लभ / पुं)
दुर्लभम् (दुर्लभ / नपुं)
६८०

अन्यलिङ्गं परिवर्तयत ।
भीतः

  11.10.06
भीता (भीता / स्त्री)
भीतम् (भीत / नपुं)
६८१

अन्यलिङ्गं परिवर्तयत ।
भगवान्

  11.10.07
भगवती (भगवती / स्त्री)
भगवत् (भगवत् / नपुं)
६८२

अन्यलिङ्गं परिवर्तयत ।
सुता

  11.10.08
सुतः (सुत / पुं)
सुतम् (सुत / नपुं)
६८३

अन्यलिङ्गं परिवर्तयत ।
नदी

  11.10.09
नदः (नद / पुं)
६८४

अन्यलिङ्गं परिवर्तयत ।
एषा

  11.10.10
एषः (एतद् / पुं)
एतत् (एतद् / नपुं)
६८५

अन्यलिङ्गं परिवर्तयत ।
इयम्

  11.10.11
अयम् (इदम् / पुं)
इदम् (इदम् / नपुं)
६८६

अन्यलिङ्गं परिवर्तयत ।
अनेके

  11.10.12
अनेकाः (अनेका / स्त्री)
अनेकानि (अनेक / नपुं)
६८७

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
गङ्गे … सन्निधिं कुरु ॥

  11.11.01

श्लोकः (Verse) ---
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
कावेरि नर्मदे सिन्धो जलेऽस्मिन् सन्निधिं कुरु ॥

अन्वयः (Prose order) ---
(हे) गङ्गे ! (हे) यमुने ! (हे) गोदावरि ! (हे) सरस्वति ! (हे) कावेरि ! (हे) नर्मदे ! (हे) सिन्धो ! अस्मिन् जले एव सन्निधिं कुरु ।

अर्थः (Purport) ---
O Gaṅgā ! O Yamunā ! O Godāvarī ! O Sarasvatī ! O Kāverī ! O Narmadā ! O Sindhu ! Let you manifest in this water itself.
६८८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
ध्रुवः कस्याः पुत्रः ?

  12.01.01
ध्रुवः सुनीतेः पुत्रः ।
६८९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सुरुचेः पुत्रः कः ?

  12.01.02
सुरुचेः पुत्रः उत्तमः ।
६९०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
ध्रुवः तपः कर्तुं कुत्र अगच्छत् ?

  12.01.03
ध्रुवः तपः कर्तुं वनम् अगच्छत् ।
६९१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
वने ध्रुवं कः उपादिशत् ?

  12.01.04
वने ध्रुवं देवर्षिः नारदः उपादिशत् ।
६९२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
अन्ते ध्रुवस्य पुरतः कः आविरभूत् ?

  12.01.05
अन्ते ध्रुवस्य पुरतः भगवान् विष्णुः आविरभूत् ।
६९३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
माता ध्रुवं कीदृशं भगवन्तं सेवितुम् उपदिशति ?

  12.01.06
माता ध्रुवं भक्तवत्सलं भगवन्तं सेवितुम् उपदिशति ।
६९४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
सन्तुष्टः भगवान् ध्रुवाय किं प्रायच्छत् ?

  12.01.07
सन्तुष्टः भगवान् ध्रुवाय दुर्लभं ध्रुवपदं प्रायच्छत् ।
६९५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
ध्रुवः कति मासान् तपः आचरत् ?

  12.01.08
ध्रुवः षट् मासान् तपः आचरत् ।
६९६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
देवाः कस्मात् भीताः अभवन् ?

  12.01.09
ध्रुवस्य कठिनात् तपसः देवाः भीताः अभवन् ।
६९७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
हरिः कुत्र नित्यं सन्निहितः ?

  12.01.10
हरिः मधुवने नित्यं सन्निहितः ।
६९८

समानार्थकपदं लिखत ।
भार्या

  12.02.01
अमरकोशः →
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ।
भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ॥


१) पत्नी (पत्नी / स्त्री)
२) पाणिगृहीती (पाणिगृहीती / स्त्री)
३) द्वितीया (द्वितीया / स्त्री)
४) सहधर्मिणी (सहधर्मिणी / स्त्री)
५) भार्या (भार्या / स्त्री)
६) जाया (जाया / स्त्री)
७) दाराः (दार / पुं-बहु)
६९९

समानार्थकपदं लिखत ।
नृपतिः

  12.02.02
अमरकोशः →
राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।

१) राजा (राजन् / पुं)
२) राट् (राज् / पुं)
३) पार्थिवः (पार्थिव / पुं)
४) (क्ष्माभृत् / पुं)
५) नृपः (नृप / पुं)
६) भूपः (भूप / पुं)
७) (महीक्षित् / पुं)
७००

समानार्थकपदं लिखत ।
पुत्रः

  12.02.03
अमरकोशः →
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ।

१) आत्मजः (आत्मज / पुं)
२) तनयः (तनय / पुं)
३) सूनुः (सूनु / पुं)
४) सुतः (सुत / पुं)
५) पुत्रः (पुत्र / पुं)
७०१

समानार्थकपदं लिखत ।
वनम्

  12.02.04
अमरकोशः →
अटव्यरण्यं विपिनं गहन काननं वनम् ।

१) अटवी (अटवी / स्त्री)
२) अरण्यम् (अरण्य / नपुं)
३) विपिनम् (विपिन / नपुं)
४) गहनम् (गहन / नपुं)
५) काननम् (कानन / नपुं)
६) वनम् (वन / नपुं)
७०२

समानार्थकपदं लिखत ।
पिता

  12.02.05
अमरकोशः →
तातस्तु जनकः पिता ।

१) तातः (तात / पुं)
२) जनकः (जनक / पुं)
३) पिता (पितृ / पुं)
७०३

समानार्थकपदं लिखत ।
चरण:

  12.02.06
पादः
७०४

समानार्थकपदं लिखत ।
अड्कः

  12.02.07
ऊरुः
७०५

सन्दर्भं विवृणुत ।
"मम पुत्रः एव नृपतेः अङ्कम् आरोढुमर्हति ।"

कः पाठः ?
का अवदत् ?
कम् अवदत् ?

  12.03.01
"मम पुत्रः एव नृपतेः अङ्कम् आरोढुमर्हति ।"

कः पाठः ?
→ बालको ध्रुवः

का अवदत् ?
→ विमाता सुरुचिः अवदत् ।

कम् अवदत् ?
→ सुनीतेः पुत्रं ध्रुवम् अवदत् ।
७०६

सन्दर्भं विवृणुत ।
"अप्रियमपि सत्यं वदति तव विमाता ।"

कः पाठः ?
का अवदत् ?
विमाता का ?

  12.03.02
"अप्रियमपि सत्यं वदति तव विमाता ।"

कः पाठः ?
→ बालको ध्रुवः

का अवदत् ?
→ ध्रुवस्य माता सुनीतिः अवदत् ।

विमाता का ?
→ विमाता सुरुचिः अस्ति ।
७०७

सन्दर्भं विवृणुत ।
"वत्स, कठिनं तपः चरितुं नायं कालस्तव ।"

कः पाठः ?
कः वदति ?
कं वदति ?

  12.03.03
"वत्स, कठिनं तपः चरितुं नायं कालस्तव ।"

कः पाठः ?
→ बालको ध्रुवः

कः वदति ?
→ देवर्षिः नारदः वदति ।

कं वदति ?
→ बालकं ध्रुवं वदति ।
७०८

सन्दर्भं विवृणुत ।
"बाल, गच्छ मधुवनं, यत्र नित्यं सन्निहितः हरिः ।"

कः पाठः ?
कः वदति ?
कं वदति ?

  12.03.04
"बाल, गच्छ मधुवनं, यत्र नित्यं सन्निहितः हरिः ।"

कः पाठः ?
→ बालको ध्रुवः

कः वदति ?
→ देवर्षिः नारदः वदति ।

कं वदति ?
→ बालकं ध्रुवं वदति ।
७०९

सन्दर्भं विवृणुत ।
"तपसा भगवन्तं सेवित्वा पितुरङ्कं लप्स्ये ।"

कः पाठः ?
कः वदति ?
कं वदति ?

  12.03.05
"तपसा भगवन्तं सेवित्वा पितुरङ्कं लप्स्ये ।"

कः पाठः ?
→ बालको ध्रुवः

कः वदति ?
→ बालकः ध्रुवः वदति ।

कं वदति ?
→ देवर्षिं नारदं वदति ।
७१०

विरुद्धार्थकपदं लिखत ।
समीपम्

  12.04.01
दूरम्
७११

विरुद्धार्थकपदं लिखत ।
नास्ति

  12.04.02
अस्ति
७१२

विरुद्धार्थकपदं लिखत ।
गच्छति

  12.04.03
आगच्छति
७१३

विरुद्धार्थकपदं लिखत ।
कठिनम्

  12.04.04
सुलभम्
७१४

विरुद्धार्थकपदं लिखत ।
प्रियम्

  12.04.05
अप्रियम्
७१५

वाक्ये योजयत ।
गच्छ

  12.05.01
गृहं शीघ्रं [गच्छ]
७१६

वाक्ये योजयत ।
मम

  12.05.02
[मम] गृहं दूरे अस्ति ।
७१७

वाक्ये योजयत ।
यत्र-तत्र

  12.05.03
[यत्र] योगेश्वरः कृष्णः अस्ति [तत्र] श्रीः विजयः च अपि अस्ति ।
७१८

वाक्ये योजयत ।
भीतः

  12.05.04
[भीतः] बालकः कम्पितः अस्ति ।
७१९

वाक्ये योजयत ।
दुर्लभम्

  12.05.05
मनुषयजन्म [दुर्लभम्] अस्ति ।
७२०

वाक्ये योजयत ।
पुरतः

  12.05.06
मम गृहस्य [पुरतः] उद्यानं अस्ति ।
७२१

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
पितुः

  12.06.01
पितुः →
     ऋकारान्तः
     पुंलिङ्गः
     पितृ शब्दः
     षष्ठी-विभक्तिः
     एक-वचनम्
७२२

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
वत्स

  12.06.02
वत्स →
     अकारान्तः
     पुंलिङ्गः
     वत्स शब्दः
     संबोधन-प्रथमा-विभक्तिः
     एक-वचनम्
७२३

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
वचनेन

  12.06.03
वचनेन →
     अकारान्तः
     नपुंसकलिङ्गः
     वचन शब्दः
     तृतीया-विभक्तिः
     एक-वचनम्
७२४

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
पुत्रस्य

  12.06.04
पुत्रस्य →
     अकारान्तः
     पुंलिङ्गः
     पुत्र शब्दः
     षष्ठी-विभक्तिः
     एक-वचनम्
७२५

अन्त-लिङ्ग-विभक्ति-वचनानि लिखत ।
महर्षिः

  12.06.05
महर्षिः →
     इकारान्तः
     पुंलिङ्गः
     महर्षि शब्दः
     प्रथमा-विभक्तिः
     एक-वचनम्
७२६

धातु-लकार-पुरुष-वचनानि लिखत ।
अगच्छत्

  12.07.01
अगच्छत् (गम् + कर्तरि लँङ् / प्र.पु / ए.व) →
     गम्-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
७२७

धातु-लकार-पुरुष-वचनानि लिखत ।
वदति

  12.07.02
वदति (वद् + कर्तरि लँट् / प्र.पु / ए.व) →
     वद्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
७२८

धातु-लकार-पुरुष-वचनानि लिखत ।
अभिलषसि

  12.07.03
अभिलषसि (अभि + लष् + कर्तरि लँट् / म.पु / ए.व) →
     अभि-उपसर्गः
     लष्-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     मध्यम-पुरुषः
     एक-वचनम्
७२९

धातु-लकार-पुरुष-वचनानि लिखत ।
करोमि

  12.07.04
करोमि (कृ + कर्तरि लँट् / उ.पु / ए.व) →
     कृ-धातुः
     कर्तरि-प्रयोगः
     लँट्-लकारः
     उत्तम-पुरुषः
     एक-वचनम्
७३०

धातु-लकार-पुरुष-वचनानि लिखत ।
प्रायच्छत्

  12.07.05
प्रायच्छत् (प्र + दा + कर्तरि लँङ् / प्र.पु / ए.व) →
     प्र-उपसर्गः
     दा-धातुः
     कर्तरि-प्रयोगः
     लँङ्-लकारः
     प्रथम-पुरुषः
     एक-वचनम्
७३१

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ विमातुः ] वचनेन मनः कलुषितम् ।

  12.08.01
[कस्याः] वचनेन मनः कलुषितम् ?
७३२

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
सुरुचिः [ नृपस्य ] प्रियतरा आसीत् ।

  12.08.02
सुरुचिः [कस्य] प्रियतरा आसीत् ?
७३३

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
तद्वत्तान्तं [ मातरम् ] अकथयत् ।

  12.08.03
तद्वत्तान्तं [काम्] अकथयत् ?
७३४

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ मधुवने ] सन्निहितः हरिः ।

  12.08.04
[कुत्र] सन्निहितः हरिः ?
७३५

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
सन्तुष्टः भगवान् [ ध्रुवाय ] ध्रुवपदं प्रायच्छत् ।

  12.08.05
सन्तुष्टः भगवान् [कस्मै] ध्रुवपदं प्रायच्छत् ?
७३६

सन्धिं विभज्य सन्धिनाम लिखत ।
अभीष्टम्

  12.09.01
अभीष्टम् = अभि + इष्टम् [सवर्ण-दीर्घ-सन्धिः]
७३७

सन्धिं विभज्य सन्धिनाम लिखत ।
नारदस्योपदेशेन

  12.09.02
नारदस्योपदेशेन = नारदस्य + उपदेशेन [गुण-सन्धिः]
७३८

सन्धिं विभज्य सन्धिनाम लिखत ।
पञ्चवर्षीयः

  12.09.03
पञ्चवर्षीयः = पं + चवर्षीयः [अनुस्वार-सन्धिः]
७३९

सन्धिं विभज्य सन्धिनाम लिखत ।
तद्वृत्तान्तम्

  12.09.04
तद्वृत्तान्तम्
= तत् + वृत्तान्तम् [जश्त्व-सन्धिः]
= तत् + वृत्त + अन्तम् [सवर्ण-दीर्घ-सन्धिः]
७४०

सन्धिं विभज्य सन्धिनाम लिखत ।
तदाकर्ण्य

  12.09.05
तदाकर्ण्य = तदा + आकर्ण्य [सवर्ण-दीर्घ-सन्धिः]
(or)
तदाकर्ण्य = तत् + आकर्ण्य [जश्त्व-सन्धिः]
७४१

सन्धिं विभज्य सन्धिनाम लिखत ।
तत्रैव

  12.09.06
तत्रैव = तत्र + एव [वृद्धि-सन्धिः]
७४२

सन्धिं विभज्य सन्धिनाम लिखत ।
षण्मासाः

  12.09.07
षण्मासाः
= ष + (ड् → ण्) + म् + आसाः [अनुनासिक-सन्धिः]
= ष + (ष् → ड्) + मासाः [जश्त्व-सन्धिः]
= षष् + मासाः
७४३

सन्धिं विभज्य सन्धिनाम लिखत ।
ध्रुवस्तदा

  12.09.08
ध्रुवस्तदा = ध्रुवः + तदा [विसर्ग-सकार-आदेश-सन्धिः]
७४४

सन्धिं विभज्य सन्धिनाम लिखत ।
देवर्षिः

  12.09.09
देवर्षिः = देव + ऋषिः [गुण-सन्धिः]
७४५

प्रकृतिं प्रत्ययं च योजयत ।
दृश् + तुमुन्

  12.10.01
दृश् + तुमुन् → द्रष्टुम् / अव्ययम्
७४६

प्रकृतिं प्रत्ययं च योजयत ।
आङ् + रुह् + तुमुन्

  12.10.02
आङ् + रुह् + तुमुन् → आरोढुम् / अव्ययम्
७४७

प्रकृतिं प्रत्ययं च योजयत ।
नि + वृत् + तुमुन्

  12.10.03
नि + वृत् + तुमुन् → निवर्तितुम् / अव्ययम्
७४८

प्रकृतिं प्रत्ययं च योजयत ।
गम् + तुमुन्

  12.10.04
गम् + तुमुन् → गन्तुम् / अव्ययम्
७४९

प्रकृतिं प्रत्ययं च योजयत ।
नी + तुमुन्

  12.10.05
नी + तुमुन् → नेतुम् / अव्ययम्
७५०

प्रकृतिं प्रत्ययं च योजयत ।
कृ + तुमुन्

  12.10.06
कृ + तुमुन् → कर्तुम् / अव्ययम्
७५१

प्रकृतिं प्रत्ययं च योजयत ।
लभ् + तुमुन्

  12.10.07
लभ् + तुमुन् → लब्धुम् / अव्ययम्
७५२

प्रकृतिं प्रत्ययं च योजयत ।
सेव् + तुमुन्

  12.10.09
सेव् + तुमुन् → सेवितुम् / अव्ययम्
७५३

प्रकृतिं प्रत्ययं च योजयत ।
ज्ञा + तुमुन्

  12.10.10
ज्ञा + तुमुन् → ज्ञातुम् / अव्ययम्
७५४

प्रकृतिं प्रत्ययं च योजयत ।
प्र + आप् + तुमुन्

  12.10.11
प्र + आप् + तुमुन् → प्राप्तुम् / अव्ययम्
७५५

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
पुत्रस्य वचनं श्रुत्वा सा दीर्घं निःश्वस्यावदत् ।

  12.11.01
प्रधान-क्रियापदम् → अवदत् (वद् + कर्तरि लँङ् / प्र.पु / ए.व)
     कर्तृपदम् → सा
     कर्मपदम् → x
गौण-क्रियापदम्-१ → श्रुत्वा (श्रु + क्त्वा / अव्ययम्)
     कर्तृपदम् → (सा)
     कर्मपदम् → (पुत्रस्य) वचनम्
गौण-क्रियापदम्-२ → निःश्वस्य (निर् + श्वस् + ल्यप् / अव्ययम्)
     कर्तृपदम् → (सा)
     कर्मपदम् → दीर्घम्
७५६

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
अहं तपसे वनं गच्छामि ।

  12.11.02
प्रधान-क्रियापदम् → गच्छामि (गम् + कर्तरि लँट् / उ.पु / ए.व)
     कर्तृपदम् → अहम्
     कर्मपदम् → वनम्
७५७

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
भगवान् तस्य मनोगतं भावं विज्ञाय दुर्लभं ध्रुवपदं तस्मै प्रायच्छत् ।

  12.11.03
प्रधान-क्रियापदम् → प्रायच्छत् (प्र + दा + कर्तरि लँङ् / प्र.पु / ए.व)
     कर्तृपदम् → भगवान्
     कर्मपदम् → ध्रुवपदम्
     कर्मपद-विषेशणम् → दुर्लभम्
गौण-क्रियापदम् → विज्ञाय (वि + ज्ञा + ल्यप् / अव्ययम्)
     कर्तृपदम् → (भगवान्)
     कर्मपदम् → भावम्
     कर्मपद-विषेशणम् → मनोगतम्
७५८

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
नारदस्योपदेशेन मधुवनं प्राप्य तपः कर्तुम् आरभत ।

  12.11.04
प्रधान-क्रियापदम् → आरभत (आङ् + रभ् + कर्तरि लँङ् / प्र.पु / ए.व)
     कर्तृपदम् → (सः ध्रुवः)
गौण-क्रियापदम्-१ → प्राप्य (प्र + आप् + ल्यप् / अव्ययम्)
     कर्तृपदम् → (सः ध्रुवः)
     कर्मपदम् → मधुवनं
गौण-क्रियापदम्-२ → कर्तुम् (कृ + तुमुँन् / अव्ययम्)
     कर्तृपदम् → (सः ध्रुवः)
     कर्मपदम् → तपः
७५९

कर्तृपदं कर्मपदं क्रियापदं च पृथक्कुरुत ।
विहारैः मनः विनोदय त्वम् ।

  12.11.05
प्रधान-क्रियापदम् → विनोदय (वि + नुद् + णिच् + कर्तरि लोँट् / म.पु / ए.व)
     कर्तृपदम् → त्वम्
     कर्मपदम् → मनः
७६०

अमरकोशः ।
वनम्

  12.12.01
अटव्यरण्यं विपिनं गहन काननं वनम् ।
७६१

अमरकोशः ।
समयः

  12.12.02
कालोदिष्टोऽप्यनेहापि समयः ।
७६२

अमरकोशः ।
पत्नी

  12.12.03
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ।
भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ॥
७६३

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
योऽन्तः प्रविश्य ... पुरुषाय तुभ्यम् ॥

  12.13.01

श्लोकः (Verse) ---
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सज्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥

अन्वयः (Prose order) ---


अर्थः (Purport) ---

७६४

संस्कृतेन अर्थं लिखत ।
wife

  12.14.01
भार्या, पत्नी, कलत्रम्
७६५

संस्कृतेन अर्थं लिखत ।
son

  12.14.02
सूनुः, पुत्रः, आत्मजः
७६६

संस्कृतेन अर्थं लिखत ।
lap

  12.14.03
अङ्कः, ऊरुः
७६७

संस्कृतेन अर्थं लिखत ।
he, she

  12.14.04
असौ
७६८

संस्कृतेन अर्थं लिखत ।
step mother

  12.14.05
विमाता
७६९

संस्कृतेन अर्थं लिखत ।
to please

  12.14.06
तोषयितुम्
७७०

संस्कृतेन अर्थं लिखत ।
place

  12.14.07
पदम्
७७१

संस्कृतेन अर्थं लिखत ।
always

  12.14.08
सर्वदा, नित्यम्
७७२

संस्कृतेन अर्थं लिखत ।
in front

  12.14.09
पुरतः
७७३

संस्कृतेन अर्थं लिखत ।
hand

  12.14.10
पाणिः, हस्तः
७७४

आङ्ग्लभाषया अर्थं लिखत ।
भार्या, पत्नी, कलत्रम्

  12.15.01
wife
७७५

आङ्ग्लभाषया अर्थं लिखत ।
सूनुः, पुत्रः, आत्मजः

  12.15.02
son
७७६

आङ्ग्लभाषया अर्थं लिखत ।
अङ्कः, ऊरुः

  12.15.03
lap
७७७

आङ्ग्लभाषया अर्थं लिखत ।
असौ

  12.15.04
he, she
७७८

आङ्ग्लभाषया अर्थं लिखत ।
विमाता

  12.15.05
step mother
७७९

आङ्ग्लभाषया अर्थं लिखत ।
तोषयितुम्

  12.15.06
to please
७८०

आङ्ग्लभाषया अर्थं लिखत ।
पदम्

  12.15.07
place
७८१

आङ्ग्लभाषया अर्थं लिखत ।
सर्वदा, नित्यम्

  12.15.08
always
७८२

आङ्ग्लभाषया अर्थं लिखत ।
पुरतः

  12.15.09
in front
७८३

आङ्ग्लभाषया अर्थं लिखत ।
पाणिः, हस्तः

  12.15.10
hand
७८४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कः गोकुले आसीत् ?

  13.01.01
देवः श्रीकृष्णः गोकुले आसीत् ।
७८५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
अक्रूरः कुतः गोकुलमगच्छत् ?

  13.01.02
अक्रूरः मथुरायाः गोकिलमगच्छत् ।
७८६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कंसः कः ?

  13.01.03
कंसः श्रीकृष्णस्य मातुलः ।
७८७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
मथुरायां कृष्णः कस्य गृहमगच्छत् ?

  13.01.04
मथुरायां कृष्णः मालाकारस्य गृहमगच्छत् ।
७८८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
मालाकारः कृष्णपूजां कथम् अकरोत् ?

  13.01.05
मालाकारः कृष्णपूजां मालां समर्पयित्वा अकरोत् ।
७८९

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
मथुरायां कस्य कस्य मर्दनं भवति ?

  13.01.06
मथुरायां चाणूरमुष्टिकयोः च कंसस्य च मर्दनं भवति ।
७९०

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
नन्दगोपस्य पत्नी का ?

  13.01.07
नन्दगोपस्य पत्नी यशोदा ।
७९१

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
रोहिणी कस्य माता ?

  13.01.08
रोहिणी बलरामस्य माता ।
७९२

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कीदृशं जगद्गुरुं वन्दे ?

  13.01.09
वसुदेवसुतं कम्सचाणूरमर्दनं देवकीपरमानन्दं कृष्णं जगद्गुरुं (अहं) वन्दे ।
७९३

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कृष्णः कस्य सभाम् अगच्छत् ?

  13.01.10
कृष्णः कंसस्य सभाम् अगच्छत् ।
७९४

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
कंसः केन श्रीकृष्णबलरामौ मधुराम् आनाय्य तौ घातयितुम् उपायम् अकरोत् ?

  13.01.11
कंसः धनुर्यागव्याजेन श्रीकृष्णबलरामौ मधुराम् आनाय्य तौ घातयितुम् उपायम् अकरोत् ।
७९५

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
श्रीकृष्णः किं किं च कृत्वा धर्मस्थापनमकरोत् ?

  13.01.12
श्रीकृष्णः शिष्टजनसंरक्षणं दुष्टजनशिक्षणं च कृत्वा धर्मस्थापनमकरोत् ।
७९६

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
श्रीकृष्णः नीलां कथं सान्त्वनम् अकरोत् ?

  13.01.13
श्रीकृष्णः नीलां उद्दिश्य - 'नीले ! चिन्ता मा कुरु । अहं शीघ्रमेव प्रत्यागमिष्यामि' इति सान्त्वनम् अकरोत् ।
७९७

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
बलरामः गोपान् किम् अवदत् ?

  13.01.14
बलरामः गोपान् उद्दिश्य - 'यूयं निश्चिन्ताः भवत । स्वेषु स्वेषु कर्मसु निरताः भवत । आवां शीघ्रं प्रत्यागमिष्यावः' इति अवदत् ।
७९८

प्रश्नस्य उत्तरम् एकवाक्येन लिखत ।
श्रीकृष्णः मालाकाराय किमिति आशीर्वादम् अयच्छत् ?

  13.01.15
श्रीकृष्णः मालाकाराय, 'तव वंशजाः दीर्घायुः प्राप्नुयुः' इति आशीर्वादम् अयच्छत् ।
७९९

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
श्रीकृष्णः [ गोकुले ] आसीत् ।

  13.02.01
श्रीकृष्णः [कुत्र] आसीत् ?
८००

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
कंसः कृष्णं [ धनुर्यागार्थम् ] आह्वयति ।

  13.02.02
कंसः कृष्णं [किमर्थम्] आह्वयति ?
८०१

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
तौ रथम् आरुह्य [ मथुरां ] गच्छतः ।

  13.02.03
तौ रथम् आरुह्य [कुत्र] गच्छतः ?
८०२

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
सः [ सुन्दरीं ] नीलाम् अवदत् ।

  13.02.04
सः [कीदृशीं] नीलाम् अवदत् ?
८०३

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
कृष्णः [ भक्तं ] पश्यति ।

  13.02.05
कृष्णः [कं] पश्यति ?
८०४

रेकाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत ।
[ वंशजाः ] दीर्घायुष्यम् आप्नुवन्ति ।

  13.02.06
[के] दीर्घायुष्यम् आप्नुवन्ति ?
८०५

सन्धिं विभज्य सन्धिनाम लिखत ।
सोऽपि

  13.03.01
सोऽपि = सो + अपि [पूर्व-रूप-सन्धिः]
८०६

सन्धिं विभज्य सन्धिनाम लिखत ।
तावाह्वातुं

  13.03.02
तावाह्वातुं = तौ + आह्वातुम् [यान्त-वान्त-आदेश-सन्धिः]
८०७

सन्धिं विभज्य सन्धिनाम लिखत ।
गत्वावदत

  13.03.03
गत्वावदत = गत्वा + अवदत् [सवर्ण-दीर्घ-सन्धिः]
८०८

सन्धिं विभज्य सन्धिनाम लिखत ।
धनुर्यागार्थम्

  13.03.04
धनुर्यागार्थम् = धनुः + यागार्थम् [विसर्ग-रेफ-आदेश-सन्धिः]
८०९

सन्धिं विभज्य सन्धिनाम लिखत ।
श्रीकृष्णबलरामावाह्वयतीति

  13.03.05
श्रीकृष्णबलरामावाह्वयतीति
= श्रीकृष्णबलरामौ + आह्वयतीति [यान्त-वान्त-आदेश-सन्धिः]
= श्रीकृष्णबलरामौ + आह्वयति + इति [सवर्ण-दीर्घ-सन्धिः]
८१०

सन्धिं विभज्य सन्धिनाम लिखत ।
जानन्तावपि

  13.03.06
जानन्तावपि = जानन्तौ + अपि [यान्त-वान्त-आदेश-सन्धिः]
८११

सन्धिं विभज्य सन्धिनाम लिखत ।
श्रीकृष्णोऽवदत्

  13.03.07
श्रीकृष्णोऽवदत् = श्रीकृष्णो + अवदत् [पूर्व-रूप-सन्धिः]
८१२

सन्धिं विभज्य सन्धिनाम लिखत ।
इहैव

  13.03.08
इहैव = इह + एव [वृद्धि-सन्धिः]
८१३

सन्धिं विभज्य सन्धिनाम लिखत ।
अत्रैव

  13.03.09
अत्रैव = अत्र + एव [वृद्धि-सन्धिः]
८१४

सन्धिं विभज्य सन्धिनाम लिखत ।
प्रत्यागमिष्यामि

  13.03.10
प्रत्यागमिष्यामि = प्रति + आगमिष्यामि [यण्-सन्धिः]
८१५

सन्धिं विभज्य सन्धिनाम लिखत ।
प्रत्यागमिष्यावः

  13.03.11
प्रत्यागमिष्यावः = प्रति + आगमिष्यावः [यण्-सन्धिः]
८१६

सन्धिं विभज्य सन्धिनाम लिखत ।
महामात्यम्

  13.03.12
महामात्यम् = महा + अमात्यम् [यान्त-वान्त-आदेश-सन्धिः]
८१७

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
मालाकारः गच्छति । सः कृष्णं पूजयति ।

  13.04.01
मालाकारः [गत्वा] कृष्णं पूजयति ।
८१८

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
कृष्णः कंसं हन्ति । सः जनान् तोषयति ।

  13.04.02
कृष्णः कंसं [हत्वा] जनान् तोषयति ।
८१९

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
अक्रूरः रथम् आनयति । सः कृष्णं मथुरां नयति ।

  13.04.03
अक्रूरः रथम् [आनीय] कृष्णं मथुरां नयति
८२०

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
यशोदा कृष्णं पश्यति। सा तस्मै नवनीतं ददाति ।

  13.04.04
यशोदा कृष्णं [दृष्ट्वा] तस्मै नवनीतं ददाति ।
८२१

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
गोपाः कृष्णेन साकं क्रीडन्ति । ते गृहं प्रत्यागच्छन्ति ।

  13.04.05
गोपाः कृष्णेन साकं [क्रीडित्वा] गृहं प्रत्यागच्छन्ति ।
८२२

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
भक्ताः कृष्णं विलोकयन्ति । तं प्रणमन्ति ।

  13.04.06
भक्ताः कृष्णं [विलोक्य] प्रणमन्ति ।
८२३

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
छात्राः उत्तराणि विलिखन्ति । ते तानि पठन्ति ।

  13.04.07
छात्राः उत्तराणि [विलिख्य] पठन्ति ।
८२४

क्त्वा अथवा ल्यप् प्रत्ययेन वाक्यं योजयत ।
अहं देवं प्रणमामि । अनन्तरम् अहम् अध्ययनाय प्रविशामि ।

  13.04.08
अहं देवं [प्रणम्य] अनन्तरम् अध्ययनाय प्रविशामि ।
८२५

क्रियापदस्य भूतकालिकरूपं लिखत ।
वदतु

  13.05.01
अवदत्
८२६

क्रियापदस्य भूतकालिकरूपं लिखत ।
आनयति

  13.05.02
आनयत्
८२७

क्रियापदस्य भूतकालिकरूपं लिखत ।
भवतु

  13.05.03
अभवत्
८२८

क्रियापदस्य भूतकालिकरूपं लिखत ।
क्रीडन्तु

  13.05.04
अक्रीडन्
८२९

क्रियापदस्य भूतकालिकरूपं लिखत ।
भवामि

  13.05.05
अभवम्
८३०

क्रियापदस्य भूतकालिकरूपं लिखत ।
हन्ति

  13.05.06
अहन्
८३१

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ यशोदा ] नन्दनः ।

  13.06.01
कृष्णः [यशोदायाः] नन्दनः ।
८३२

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ देवकी ] पुत्रः ।

  13.06.02
कृष्णः [देवक्याः] पुत्रः ।
८३३

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ बलरामः ] अनुजः ।

  13.06.03
कृष्णः [बलरामस्य] अनुजः ।
८३४

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ कंसः ] भागिनेयः ।

  13.06.04
कृष्णः [कंसस्य] भागिनेयः ।
८३५

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ अनिरुद्धः ] पिता ।

  13.06.05
कृष्णः [अनिरुद्धस्य] पिता ।
८३६

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ रुक्मिणी ] पतिः ।

  13.06.06
कृष्णः [रुक्मिण्याः] पतिः ।
८३७

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
कृष्णः [ मथुरा ] अधिपतिः ।

  13.06.07
कृष्णः [मथुरायाः] अधिपतिः ।
८३८

रेखाङ्कितपदस्य षष्ठीविभक्तिरूपं विलिख्य वाक्यं पुनः लिखत ।
गोपिकाः [ कृष्णः ] प्रियाः ।

  13.06.08
गोपिकाः [कृष्णस्य] प्रियाः ।
८३९

उचित लकार-रूपेण वाक्यं पूरयतः ।
कृष्णबलरामौ मथुराम् [ गम् + लँङ् ] ।

  13.08.01
कृष्णबलरामौ मथुराम् [अगच्छताम्]
८४०

उचित लकार-रूपेण वाक्यं पूरयतः ।
सीता रामेण साकं मातरम् [ पूज् + लँङ् ] ।

  13.08.02
सीता रामेण साकं मातरम् [अपूज्यत]
८४१

उचित लकार-रूपेण वाक्यं पूरयतः ।
रामः कृष्णः च रथम् [ आङ् + रुह् + लँङ् ] ।

  13.08.03
रामः कृष्णः च रथम् [आरोहताम्]
८४२

उचित लकार-रूपेण वाक्यं पूरयतः ।
छात्राः क्रीडाङ्गणे [ खेल् + लँङ् ] ।

  13.08.04
छात्राः क्रीडाङ्गणे [अखेलन्]
८४३

उचित लकार-रूपेण वाक्यं पूरयतः ।
अहं प्रतिदिनं देवम् [ नम् + लँङ् ] ।

  13.08.05
अहं प्रतिदिनं देवम् [अनमम्]
८४४

उचित लकार-रूपेण वाक्यं पूरयतः ।
युवां शीघ्रं कार्यम् [ कृ + लँङ् ] ।

  13.08.06
युवां शीघ्रं कार्यम् [अकुरुतम्]
८४५

उचित लकार-रूपेण वाक्यं पूरयतः ।
प्रजाः प्रभुं रामं देवं [ मन् + लँङ् / आत्मनेपदी ] ।

  13.08.07
प्रजाः प्रभुं रामं देवं [अमन्यन्त]
८४६

उचित लकार-रूपेण वाक्यं पूरयतः ।
जलसिञ्चनेन सस्यानि सम्यक् [ वर्ध + लँङ् / आत्मनेपदी ] ।

  13.08.08
जलसिञ्चनेन सस्यानि सम्यक् [अवर्धन्त]
८४७

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
अचोरयत्

  13.09.01

चुर् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अचोरयत् अचोरयताम् अचोरयन्
म.पु अचोरयः अचोरयतम् अचोरयत
उ.पु अचोरयम् अचोरयाव अचोरयाम

८४८

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
नमतु

  13.09.02

नम् + कर्तरि लोँट् ए.व द्वि.व ब.व
प्र.पु नमतु नमताम् नमन्तु
म.पु नम नमतम् नमत
उ.पु नमानि नमाव नमाम

८४९

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
मोदते

  13.09.03

मुद् + कर्तरि लँट् ए.व द्वि.व ब.व
प्र.पु मोदते मोदेते मोदन्ते
म.पु मोदसे मोदेथे मोदध्वे
उ.पु मोदे मोदावहे मोदामहे

८५०

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
वन्दताम्

  13.09.04

वन्द् + कर्तरि लोँट् ए.व द्वि.व ब.व
प्र.पु वन्दताम् वन्देताम् वन्दन्ताम्
म.पु वन्दस्व वन्देथाम् वन्दध्वम्
उ.पु वन्दै वन्दावहै वन्दामहै

८५१

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
पश्यतु

  13.09.05

दृश् + कर्तरि लोँट् ए.व द्वि.व ब.व
प्र.पु पश्यतु पश्यताम् पश्यन्तु
म.पु पश्य पश्यतम् पश्यत
उ.पु पश्यानि पश्याव पश्याम

८५२

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
अपूजयत्

  13.09.06

पूज् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अपूजयत् अपूजयताम् अपूजयन्
म.पु अपूजयः अपूजयतम् अपूजयत
उ.पु अपूजयम् अपूजयाव अपूजयाम

८५३

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
अवर्धत

  13.09.07

वर्ध् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अवर्धत अवर्धेताम् अवर्धन्त
म.पु अवर्धथाः अवर्धेथाम् अवर्धध्वम्
उ.पु अवर्धे अवर्धावहि अवर्धामहि

८५४

धातुरूपाणि सर्व-पुरुष-वचनेषु लिखत ।
अमन्यत

  13.09.08

मन् + कर्तरि लँङ् ए.व द्वि.व ब.व
प्र.पु अमन्यत अमन्येताम् अमन्यन्त
म.पु अमन्यथाः अमन्येथाम् अमन्यध्वम्
उ.पु अमन्ये अमन्यावहि अमन्यामहि

८५५

श्लोकं पूर्णतया विलिख्य अन्वयः च तात्पर्यं लिखत ।
वसुदेवसुतं … जगद्गुरुम् ॥

  13.10.01

श्लोकः (Verse) ---
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

अन्वयः (Prose order) ---
(अहं) देवं जगद्गुरुं वसुदेव-सुतं देवकी-परम-आनन्दं कंस-चाणूर-मर्दनं कृष्णं वन्दे ।

अर्थः (Purport) ---
I prostrate to Kṛṣṇa, the God, the teacher of the world, one who is the son of Vasudeva, one who gives immense happiness to Devakī, one who killed Kamsa and Cāṇūra.

Comments