कोविदः - संस्कृतग्रन्थकारपरिचयः
॥ संस्कृतग्रन्थकारपरिचयः ॥
पाठक्रमः | विशेषताः | संस्कृतग्रन्थकाराः |
---|---|---|
(०१) प्रथमः | इतिहासकर्तारौ (०२) |
(०१) वाल्मीकिः
(०२) व्यासः |
(०२) द्वितीयः | व्याकरणशास्त्रज्ञाः (०५) |
(०३) पाणिनिः
(०४) कात्यायनः (०५) पतञ्जलिः (०६) भट्टोजिदीक्षितः (०७) नागेशभट्टः |
(०३) तृतीयः | ज्योतिश्शास्त्रज्ञाः (०४) |
(०८) आर्यभटः
(०९) वराहमिहिरः (१०) ब्रह्मगुप्तः (११) भास्कराचार्यः |
(०४) चतुर्थः | कवयित्रयः (०६) |
(१२) विज्जिका
(१३) तिरुमलाम्बा (१४) रामभद्राम्बा (१५) गङ्गादेवी (१६) देवकुमारिका (१७) क्षमाराव् |
(०५) पञ्चमः | चम्पूकाराः (०५) |
(१८) भोजदेवः
(१९) अनन्तभट्टः (२०) त्रिविक्रमभट्टः (२१) नीलकण्ठदीक्षितः (२२) वेङ्कटाध्वरिः |
(०६) षष्ठः | सूत्रकाराः (०५) |
(२३) गौतमः
(२४) कणादः (२५) जैमिनिः (२६) बादरायणः (२७) भरतः |
(०७) सप्तमः | कवयः (०४) |
(२८) कालिदासः
(२९) भारविः (३०) माघः (३१) श्रीहर्षः |
(०८) अष्टमः | कथाकाराः (०४) |
(३२) क्षेमेन्द्रः
(३३) सोमदेवः (३४) विष्णुशर्मा (३५) नारायणभट्टः |
(०९) नवमः | नाटककाराः (०५) |
(३६) अश्वघोषः
(३७) भासः (३८) भवभूतिः (३९) शूद्रकः (४०) भट्टनारायणः |
(१০) दशमः | गद्यकाराः (१०) |
(४१) सुबन्धुः
(४२) बाणः (४३) दण्डी (४४) धनपालः |
(०१) प्रथमः पाठः - इतिहासकर्तारौ
वाल्मीकिः | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
रामायणम् आदिकाव्यम् इति प्रसिद्धम् ।
Rāmāyaṇam is popular as the first poem. Toggle for विवरणम्
इतिहासग्रन्थः इत्यपि भावयते एतत् । It is also considered as an epic. Toggle for विवरणम्
एतस्य ग्रन्थस्य रचयिता वाल्मीकिः । This author of the book is Vālmīki. Toggle for विवरणम्
किराताकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत् । He, born in a hunter-tribe, performed penance on the instructions of Sage Nārada. तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः । His body was covered by ant-hill. ततः सः बहिः आगतः इत्यतः तस्य नाम "वाल्मीकिः" इति जातम् इति काचित् कथा श्रूयते । Since he came out of it, he came to be called "Vālmīki". We have heard some such story. तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति । Vālmīki, while going to Tamasā river for taking bath, saw a crane killed by a hunter. तदा शोकाकुलः सः व्याधं शपति इति --
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । Then, overcome with sorrow, he cursed the hunter thus - "O fowler! Since you have killed one of the pair of infatuated cranes you will be permanently deprived of your position". ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति । Then, having heard the story of Rāma from the mouth of Sage Nārada, he authored the Rāmāyaṇam. सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु । Sita and Rāma's separation is the plot of Rāmāyaṇam. महाभारते रामायणस्य कथा वर्णिता दृश्यते । In Mahābhāratam, the story of Rāmāyaṇam is seen described. पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते । In Pāṇini's Aṣṭādhyāyī also, Kaikeyī, Kausalyā and other words are seen. अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम् । Therefore, it is clear that Rāmāyaṇam is before Mahābhāratam's time and Pāṇini's time. रामायणं (तत्कर्ता वाल्मीकिः च) कदा आसीत् इति विषये मतभेदाः बहवः सन्ति । There are many different opinions on when Rāmāyaṇam happened (and its author Vālmīki existed). तथापि एतावत् तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि.पू. पञ्चसहस्रवर्षभ्यः पूर्वम् रचितवान् इति । Even then, we shall still be able to say that Vālmīki wrote the Rāmāyaṇam 5000+ years BC. रामायणे २४००० श्लोकाः सन्ति । In Rāmāyaṇam there are 24000 verses. रामायणस्य प्रतिसहस्रतमश्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते । When the first letter of every 1000th verse of Rāmāyaṇam is taken, we obtain each syllable of the Gāyatrī mantra. पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना । With the motive that there should be no difference in the text, this may have been done by the poet. रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च उपलभ्यते । Rāmāyaṇam is available in all Indian languages, and many foreign languages. Toggle for विवरणम्
एतस्मात् रामायणस्य जनप्रियता ज्ञाता भवति । From this, people's love towards Rāmāyaṇam is known. वाल्मीकेः शैली ललिता, सरला, सुन्दरी च । Vālmīki's style (of writing) is cheerful, lucid and beautiful. श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन । Śrī Rāma's devotion to virtue, Sita's goodness of character, Bharata's affection towards his brothers, Lakṣmaṇa's devotion towards what ought to be done (duty), Āñjaneya's cleverness in execution, Sugrīva's friendly nature and other aspects are described very beautifully by him. Toggle for विवरणम्
संस्कृतसाहित्यनिर्माणे वाल्मीकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः । It is not an extreme assertion to say that Vālmīki is a renowned sovereign individual, in the production of Samskrit literary work. |
व्यासः | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
महाभारतस्य रचनाकारः भगवान् व्यासः ।
The author of Mahābhāratam is Bhagavan Vyāsa. वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । The segregation (and compilation) of Vedas was done by him, hence his name Veda-Vyāsa. Toggle for विवरणम्
द्वीपे अस्य जन्म अभवत् इत्यतः "कृष्णद्वैपायनः" इत्यपि एतस्य नाम । His was born in an island, hence his name Kṛṣṇadvaipāyana. एतस्य पिता पराशरमुनिः माता च सत्यवती । His father is sage Parāśara and his mother is Satyavatī. महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । The elaborate book of Mahābhāratam is composed of 1,00,000 verses. Toggle for विवरणम्
व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । Vyāsa made known the Mahābhāratam to his son, sage Śuka and to his student, sage Vaiśampāyana. वैशम्पायनः जनमेजयं तां कथाम् अवदत् । Sage Vaiśampāyana told this story to the king Janamejaya. जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते । The Mahābhāratam story told by the king Janamejaya is the one available (to us) now. रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । Like in Rāmāyaṇam , here as well, Brahmā encourages sage Vyāsa to write the story of Mahābhāratam. व्यासः योग्यस्य लेखकस्य अभावं वदति । Sage Vyāsa states the non-existence of a fit/suitable scribe. ततः गणेशः भारतकथा-लेखनकार्यम् अङ्गीकरोति । Then Gaṇeśa agreed to write the Mahābhāratam epic. व्यासेन उक्तां भारतकथां सः लिखति च । And, he wrote the Mahābhāratam story told by sage Vyāsa. आर्यभटः (ज्योतिश्शास्त्रज्ञः) वदति - क्रि.पू. ३१०१ तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । Āryabhaṭa (expert in the science of Jyotiśa) states that Kaliyuga started in the year 3101 BC. कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । On the first day of Kaliyuga, Śrīkṛṣṇa left for his supreme abode. Toggle for विवरणम्
ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । 37 years before that, the war of Mahābhāratam took place. अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्यम् । Thus, we are able to determine that the time of Mahābhāratam and time when Vyāsa lived, are probably the same. महाभारते बह्व्यः उपकथाः उपलभ्यन्ते । In Mahābhāratam, many sub-stories are available. Toggle for विवरणम्
अतः भारतकथाम् अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । Therefore, based on Mahābhāratam epic, many prose, poetry and other (literary works) are written by various poets. Toggle for विवरणम्
भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति । Bhagavadgītā, Harivaṃśa (the race/lineage of Hari) and others are also contained in Mahābhāratam. Toggle for विवरणम्
The following 6 are उपसर्गसमानाकाराणि अव्ययानि --
More info व्यासस्य शैली अपि वाल्मीकेः इव सरला एव । The (writing) style of Vyāsa, similar to Vālmīki, is also lucid. महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम् अस्ति । To a high degree, Mahābhāratam also, hangs onto / sticks to Anuṣṭup meter too. Toggle for विवरणम्
|
(०२) द्वितीयः पाठः - व्याकरणशास्त्रज्ञाः
पाणिनिः | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
अष्टाध्यायी इति सुविख्यातस्य व्याकरणग्रन्थस्य रचयिता पाणिनिः ।
The author of the very famous grammar book "Aṣṭādhyāyī" is Pāṇini. Toggle for विवरणम्
अपूर्ववैज्ञानिकरीत्या रचितः ग्रन्थः एषः न केवलं व्याकरणशास्त्रे, अपि तु समग्रे शास्त्रप्रपञ्चे एव अद्वितीयः अस्ति । This book, that is written in an unprecedented skillful manner, is second to none in not only the science of grammar, but also in the entire world of science. Toggle for विवरणम्
शालातुरग्रामवासी पाणिनिः "शालातुरीयः" इत्यपि उच्यते । Pāṇini, a resident of Śālātura village, was also called Śālāturīya (which means "man from Śālātura"). एषः ग्रामः इदानीं पाकिस्थाने पेशावर्जनपदे अस्ति । This village is now in Peshawar district of Pakistan. लाहूर इति तस्य अद्यतनं नाम । Lahor (Chota Lahor) is its name today. शालातुरग्रामे पाणिनेः एका प्रतिमा आसीत् इति चीनायात्रिकः ह्युयेनत्साङ्गः लिखति । The Chinese traveller Hiuen Tsang writes that, in Śālātura village, there existed a statue for Pāṇini. त्रयोदश्यां तिथौ पाणिनिः स्वर्गस्थः जातः इति भाव्यते । It is believed that Pāṇini reached heaven on the 13th day. Toggle for विवरणम्
अतः सा तिथिः वैयाकरणैः अनध्ययनत्वेन परिगण्यते । Therefore, that day (the 13th day of the fortnight) is considered not suitable for the study (of grammar), by grammarians. Toggle for विवरणम्
एतस्य मातुः नाम दाक्षी । His mother's name is Dākṣī. पितुः नाम शलङ्कुः । Father's name is Śalaṅku. एतस्य कालस्य विषये बहुधा भिन्नाभिप्रायः अस्ति । There are various opinions on his lifetime. Toggle for विवरणम्
तथापि क्रि.पू. ६ शतके सः आसीत् इति भाव्यते । Even then, it is believed that he lived in the 6th century BC. पाणिनेः पूर्वम् अपि बहवः व्याकरणग्रन्थाः आसन् । Even before Pāṇini, many grammar books existed. अष्टाध्यायी यदा आगता तदा अन्ये ग्रन्थाः लुप्तप्रायाः जाताः । When "Aṣṭādhyāyī" came, other books seem to have disappeared. Toggle for विवरणम्
इदानीं ते ग्रन्थाः न उपलभ्यन्ते । Now, those books are not available. समग्रः शब्दराशिः सुपरिष्कृततया संक्षेपेण च निरूपितः अस्ति अष्टाध्याय्याम् । In Aṣṭādhyāyī, the entire pile of words is ascertained and summarily well-arranged. Toggle for विवरणम्
पाणिनिः सूत्रक्रमेण व्याकरणविषयान् निरूपितवान् अस्ति । Pāṇini has ascertained the rules of grammar methodically by aphorisms. वैदिकव्याकरणम् अपि अस्ति अष्टाध्याय्याम् । Vedic grammar is also available in Aṣṭādhyāyī. |
कात्यायनः | |||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
कात्यायनः वार्तिककारः ।
Kātyāyana was a commentator. Toggle for विवरणम्
वररुचिः इति एतस्य अपरं नाम । Vararuci was his other name. एषः कौशाम्बीनिवासी । He was a resident of the place Kauśāmbī. Toggle for विवरणम्
सोमदत्तः एतस्य पिता । Somadatta was his father. एषः दाक्षिणात्यः आसीत् । He was born in the south. Toggle for विवरणम्
भाष्यकारः पतञ्जलिः एतं "भगवान्" इति, "आचार्यः" इति च आदरेण निर्दिशति । The writer of commentaries, Patañjali, respectfully proclaims him as "Bhagavān" and "Ācārya". एतस्य कालः क्रि.पू. ४ शतकं स्यात् इति पण्डिताः भावयन्ति । Scholars believe that his time could be around 4th century BC. वार्तिकानि नाम सूत्राणां व्याख्यानरूपाणि । Aphorisms in the form of explanations are named "commentaries". Toggle for विवरणम्
सूत्रेषु युक्तानां पदानां प्रयोजनचिन्तनम्, अनुक्तानां पदानां योजनं, दुरुक्तानां पदानां समीकरणं च करोति वार्तिकम् । Commentary provides thoughts on (a) usages of the words enjoined in the aphorisms, (b) usages of the words not mentioned (in the aphorisms) and (c) levels out improperly stated words. Toggle for विवरणम्
वार्तिकानि पृथग्ग्रन्थरूपेण न उपलभ्यन्ते । Commentaries are not available as a separate book. महाभाष्ये (पतञ्जलिकृते) तानि सम्मिलितानि सन्ति । They are available together in the Mahābhāṣyam (by Patañjali). कात्यायनस्य वार्तिकशैली सूत्रशैलीम् एव अनुकरोति । Kātyāyana's style of commentaries imitates the style of aphorisms. कात्यायनेन व्याकरणस्य समृद्धिः विशेषतः वर्धिता अस्ति । In particular, the success/supremacy of commentary by Kātyāyana has grown. Toggle for विवरणम्
|
पतञ्जलिः |
---|
महाभाष्यकारः इति प्रसिद्धः अस्ति पतञ्जलिः ।
Patañjali is famous as "Mahābhāṣyakāra". पाणिनिना कृतायाः अष्टाध्याय्याः विस्तृतं भाष्यम् एतेन रचितम् अस्ति इत्यतः एतस्य एतादृशं नाम । Elaborate commentary has been written by him on Pāṇini's Aṣṭādhyāyī, hence this name for him. पतञ्जलिः क्रि.पू. २ शतके आसीत् इति पण्डिताः ऊहां कृतवन्तः सन्ति । Scholars are guessing that Patañjali lived around 2nd century BC. एषः काश्मीरवासी आसीत् इति इतिहासकाराणाम् अभिप्रायः । Historian's opine that he was a resident of Kāśmīr. "पतञ्जलिः प्राच्यदेशीयः आसीत्" इत्यपि केचन वदन्ति । Some people also say that "Patañjali was from an eastern country". पाणिनिना रचितानां सूत्राणाम् अर्थनिर्णयः कृतः अस्ति पतञ्जलिना । Meanings of aphorisms written by Pāṇini have been ascertained by Patañjali. उदाहरणप्रत्युदाहरणैः शङ्कासमाधानादिभिः च पतञ्जलिः सरलया शैल्या विषयं निरूपयति । Patañjali, in simple style, has ascertained responses to doubts and declarations through examples and counter-examples. लौकिकैः उदाहरणैः, लघुकथाभिः, विनोदवचनैः च सः विषये रोचकताम् उत्पादयति । He, by practical real-life examples, short stories and humorous sentences, creates interest in the subject. छात्रान् बोधयतः गुरोः सम्भाषणशैली आदृता अस्ति पतञ्जलिना । The conversational style of teacher teaching the students, is honoured by Patañjali. शास्त्रक्षेत्रे महाभाष्यसदृशी अन्या कृतिः सुदुर्लभा एव । In the field of science, another creation similar to Mahābhāṣyaṃ is certainly very difficult to obtain. अतः एव भाष्यविषये एका प्रशंसोक्तिः श्रूयते - "महाभाष्यं वा पठनीयं, महाराज्यं वा पालनीयम्" इति । And therefore, we have heard of a quote praising the commentary thus - "Mahābhāṣyaṃ should be read or an empire should be governed". |
भट्टोजिदीक्षितः |
---|
सुप्रसिद्धस्य "सिद्धान्तकौमुदी" इत्यस्य ग्रन्थस्य रचयिता भट्टोजिदीक्षितः ।
Bhaṭṭojidīkṣita is the author of the very famous book called "Siddhāntakaumudī". एषः महाराष्ट्रदेशीयः । He is a native of Mahārāṣṭra. एतस्य पिता लक्ष्मीधरः । His father is Lakṣmīdhara. शब्दकौस्तुभः, प्रौढमनोरमा इत्यादयः ग्रन्थाः अपि एतेन लिखिताः । Śabdakaustubha, Prauḍhamanoramā** and other books were also written by him. ** Prauḍhamanoramā is a commentary on Siddhāntakaumudī, written by Bhaṭṭojidīkṣita himself. एषः क्रि.श. १६ शतकस्य उत्तरार्धे आसीत् इति विद्वद्भिः निर्णीतम् अस्ति । It has been ascertained by the learned that he lived in the latter half of 16th century AD. एतस्य सिद्धान्तकौमुदी व्याकरणलोके सुप्रसिद्धा । In the world of grammar, his Siddhāntakaumudī is very famous. प्रक्रियाक्रमेण सर्वेषां पाणिनीयसूत्राणाम् अर्थः उदाहरणसहितं निरूपितः अस्ति अत्र । Etymological formation, meanings of all the aphorisms of Pāṇini, along with examples are ascertained here in due order. भाष्यादीनां गभीराध्ययनं कृत्वा महता परिश्रमेण परिष्कृततया निरूपितः अस्ति एषः ग्रन्थः । This book is seen well-prepared with great effort, after an in-depth study of commentaries. सिद्धान्तकौमुद्यां यत् उक्तं तत् प्रमाणरूपेण अङ्गीक्रियते शास्त्रज्ञैः । Whatever is stated by Siddhāntakaumudī, are accepted as authoritative by the experts. ज्ञानेन्द्रसरस्वतीविरचिता "तत्वबोधिनी", वासुदेवदीक्षितविरचिता "बालमनोरमा" इत्यादीनि सिद्धान्तकौमुद्याः व्याख्यानानि सुप्रसिद्धानि । Tatvabodhinī authored by Jñānendrasarasvatī, "Bālamanoramā" authored by Vāsudevadīkṣita and others are very famous commentaries of Siddhāntakaumudī. |
नागेशभट्टः |
---|
व्याकरणशास्त्रे सुविख्यातस्य नागेशभट्टस्य अपरं नाम नागोजिभट्टः इति ।
Nāgojibhaṭṭa is the other name of Nāgeśabhaṭṭa, who is very famous in the science of grammar. शिवभट्टः एतस्य पिता । Śivabhaṭṭa is his father. माता सतीदेवी । Satīdevī is his mother. शृङ्गवेरपुरस्य राज्ञः रामसिंहस्य आस्थाने आसीत् एषः । He was in the assembly of Rāmasiṃha, the king of Śṛṅgaverapura. क्रि.श. १६६०-१७३० एतस्य जीवितकालः इति पण्डिताः मन्यन्ते । Scholars think that his life time is 1660-1730 AD. लघुशब्देन्दुशेखरः, परिभाषेन्दुशेखरः, लघुमञ्जूषा, परमलघुमञ्जूषा इत्यादयः ग्रन्थाः एतस्य सुप्रसिद्धाः । His very famous books are Laghuśabdenduśekhara, Paribhāṣenduśekhara, Laghumañjūṣā and Paramalaghumañjūṣā. व्याकरणशास्त्रस्य सिद्धान्तभागः प्रक्रियाभागः च एतेन सुपरिष्कृततया निरूपितः अस्ति । The principle side and etymology side of the science of grammar has been beautifully ascertained by him. एषः न केवलं व्याकरणशास्त्रे, अपि तु अलङ्कार-योग-वेदान्तादिशास्त्रेषु अपि निष्णातः आसीत् । He was conversant not only in the science of grammar, but also in aesthetics, yoga, Veda and in other sciences as well. एतेन ४५ तः अधिकाः ग्रन्थाः लिखिताः इति श्रूयते । It is heard that more than 45 books have been written by him. व्याकरणशास्त्रे नागेशभट्टस्य अभिप्रायस्य विशेषमहत्त्वम् अस्ति । In the science of grammar, the opinion of Nāgojibhaṭṭa has special importance. |
(०३) तृतीयः पाठः - ज्योतिश्शास्त्रज्ञाः
आर्यभटः | |||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ज्योतिश्शास्त्रस्य शास्त्रीयत्वं परिकल्पितम् आर्यभटेन एव ।
Concepts of the science of Jyotiśa were composed / put in order by Āryabhaṭa only. Toggle for विवरणम्
आर्यभटम् "आर्यभट्टः" इत्यपि निर्दिशन्ति केचन । Some people point out that Āryabhaṭa is also called "Āryabhaṭṭa". आर्यभटस्य जन्म क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातम् इति, क्रि.श. ४९९ तमे वर्षे एषः "आर्यभटीयम्" इति ग्रन्थं लिखितवान् इति च ज्ञायते । The birth of Āryabhaṭa happened in the year 476 AD in Pāṭalīputra (Pāṭanā), and it is known that in the year 499 AD, he wrote the book "Āryabhaṭīyam". एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । He, in only his 23 years of age, authored this excellent book, resting on conclusive arguments (or doctrines, or principles) in every step. Toggle for विवरणम्
एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीदृशी आसीत् इति । From this itself we could guess the kind of genius that he was. आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घन-मूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, काल-विभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । In the book Āryabhaṭīyam, aspects like how to group big numbers by terms (Āryabhaṭa numeration) and write; mathematical concepts like square, cube, root, triangle, etc …; Kaṭapayādi sequence of terms; divisions of time; movement of stars; revolution of the planets in the zodiac and aspects of day and night are also explained. मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते इति स्वग्रन्थे उक्तवान् अस्ति एषः । In his book he has mentioned that - "Nothing new has been told by me, told by ancestors already has been clearly demonstrated by me". पञ्चाङ्गकर्तारः बहवः एतस्य सिद्धान्तम् एव अनुसरन्ति । Many creators of almanac, follow his principles only. |
वराहमिहिरः |
---|
खगोलं, ज्योतिषं, गणितं चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । Astronomy, Astrology and Mathematics - these are three divisions of astrological science. खगोलं ग्रहचलनादिकं ज्ञापयति । Astronomy provides knowledge of movement of planets, etc … मानवजीवने ग्रहादीनां प्रभावं निरूपयति ज्योतिषम् । Astrology determines the impact of the planets, etc … in human lives. एतेषां फलं निर्णयति गणितम् । Mathematics determines the fruits of these. वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थं विलिख्य "फलज्योतिश्शास्त्रस्य आद्यप्रवर्तकः" इति ख्यातः अस्ति । Varāhamihira having written a book, that also comprises of these 3 divisions, was popular as "the pioneer of predictive astrological science". एषः क्रि.श. ६ शतके आसीत् इति परिगण्यते । He is considered to have lived in 6 century AD. विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः इत्यपि प्रतिपादयन्ति केचन । Some also propound / expound that "He was among the 9 gems of the court of Vikramāditya". एषः अवन्तिनिवासी आसीत् इति, आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । It is known that he was a resident of Avanti and his father was Ādityadāsa. पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । Pañcasiddhāntikā, Laghusaṃhitā, Vārāhīsaṃhitā, Bṛhajjātakam -- these books were written by him. तत्र बृहज्जातकं सुप्रसिद्धम् । In these, Bṛhajjātakam is very popular. बृहज्जातके ४००० श्लोकाः, १०० अध्यायाः च सन्ति । In Bṛhajjātakam, 4000 verses and 100 chapters are there. ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः बहवः विषयाः निरूपिताः सन्ति अत्र । Interpretation of astrology, star constellation, rain, the science of dwelling place, characteristics of horses, diamond examination, cooking lessons, etc ... and many others topics seen there. अतः एषः ग्रन्थः "लघुविश्वकोषः" इत्येव परिगण्यते । Therefore, his book is also considered as "Mini Encyclopedia". पर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति । He, having written his book based on prior works, has also made clear the reference books, here and there. जातकस्वरूपज्ञापके ग्रीक्होराशास्त्रविभागे ग्रीक्पद्धतेः विवरणं, ग्रीक्पारिभाषिकशब्दानां प्रयोगः च विशेषतः दृष्यते अत्र । While teaching native astrological calculations, the hora-science of Greeks, the description of Greek methodology and the use of Greek technical terms are especially seen there. |
ब्रह्मगुप्तः |
---|
भास्कराचार्येण "गणकचक्रचूडामणिः" इति श्लाघितः ब्रह्मगुप्तः ज्योतिश्शास्त्रे प्रसिद्धः पण्डितः । "ब्रह्मस्फुटसिद्धान्तः" "खण्डखाद्यकं" चेति ग्रथद्वयं रचितवान् अस्ति एषः । ब्रह्मस्फुटसिद्धान्ते दृश्यमानात् उल्लेखात् ज्ञायते यत् एषः क्रि.श. ५९८ तमे वर्षे जन्म प्राप्तवान् इति, विष्णुगुप्तः इति एतस्य पितुः नाम इति, आश्रयदाता राजा व्याघ्रनामकः इति, ३० तमे वयसि तेन स च ग्रन्थः रचितः इति च । ब्रह्मस्फुटसिद्धान्ते ग्रहगणितम्, पाटीगणितम्, क्षेत्रगणितम् इत्यादयः विभागाः सन्ति ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
भास्कराचार्यः |
---|
भास्कराचार्यस्य नाम्नः श्रवणात् एव सर्वे "लीलावती" इति ग्रन्थं स्मरन्ति । किन्तु लीलावती इति स्वतन्त्रः ग्रन्तः न । "सिद्धान्त शिरोमणिः" इत्येतस्य ग्रन्थस्य कश्चन भागः सः । "भास्कराचार्यस्य लीलावतीनामिका विधवा पुत्री आसीत् । तस्याः खेदस्य निवारणार्थं यत् गणितं बोधितं तत् लीलावती इति नाम्ना एव ख्यातम् अभवत्" इति कथा श्रूयते । "लीलावती" भागः पाटीगणितं (अङ्कगणितं) निरूपयति । सङ्कलन-व्यवकलनादीनि, गणितस्य सर्वाणि अङ्गानि च प्रतिपादयति लीलावतीभागः । भास्काराचार्यस्य अपरः ग्रन्थः "करणकुतूहलम्" इति । अत्र पञ्चाङ्गनिर्माणार्थम् आवश्यकाः विषयाः निरूपिताः सन्ति । भास्कराचार्यः कर्णाटकदेशीयः । सह्यपर्वतसमीपस्थः ग्रामः एतस्य जन्मस्थलम् । पितुः नाम महेश्वरः इति । पिता एव एतस्य विद्यागुरुः आसीत् । एषः क्रि.श. ११ शतकस्य पूर्वार्धे आसीत् इति विदुषाम् अभिप्रायः । भास्कराचार्यस्य कृतीनां व्याख्यानानि यावन्ति सन्ति तावन्ति व्याख्यानानि ज्योतिश्शास्त्रस्य अन्यस्य कस्यापि ग्रन्थस्य न सन्ति ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
(०४) चतुर्थः पाठः - कवयित्रयः
विज्जिका |
---|
स्वतन्त्रकाव्यं रचितवतीषु कवयित्रीषु विज्जिकायाः अग्रस्थानम् अस्ति । "विजयाम्बिका" इति एतस्याः अपरं नाम अपि आसीत् । विज्जिकायाः कालः कः आसीत् इति निश्चयरूपेण कथनं यद्यपि कष्टकरं, तथापि विद्वांसः एवं तर्कयन्ति यत् सा अष्टमे शतके आसीत् इति । कर्णाटकराज्यम् एतस्याः जन्मस्थलम् । "कौमुदीमहोत्सव" नामकम् ऐतिहासिकं नाटकं रचितवती अस्ति एषा । २० तमस्य शतकस्य पूर्वार्धे केरलराज्ये एतत् नाटकं प्राप्तम् । एतया रचिताः रमणीयाः ३० श्लोकाः अपि उपलभ्यन्ते ।
Toggle for English translationWill be updated soonToggle for विवरणम्पदविवरणम् :-पर / पुं उप + कृ + घञ् = उपकार / पुं समासविवरणम् :- [षष्ठीतत्पुरुषसमासः] परस्य उपकार = परोपकार / पुं |
तिरुमलाम्बा |
---|
१६ शतके जाता एषा विजयनगरराजस्य अच्युतदेवस्य पतनी । "वरदाम्बिकापरिणयः" नाम चम्पूग्रन्थः एतया लिखितः । ग्रन्थस्य अन्ते एषा स्वविषये उक्तवती अस्ति इत्यतः एतस्याः देशकालादिविषयाः स्फुटतया ज्ञायन्ते । वरदाम्बिकापरिणयः कश्चन ऐतिहासिकः ग्रन्थः । वरदाम्बा एतस्याः सपत्नी भवति । तथापि उदारहृदया एषा तां काव्यदृष्ट्या पश्यन्ती रमणीयतया वर्णितवती अस्ति । ललितपदरचना, वर्णनाचातुर्यम् इत्यादयः एतस्याः काव्यस्य वैशिष्ट्यम् ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
रामभद्राम्बा |
---|
१७ शतके एषा तञ्जावूरुनगरे जाता । राजा रघुनाथनामकः एतस्याः पतिः । "रघुनाथाभ्युदय" नामकम् ऐतिहासिकं काव्यं रचितवती अस्ति एषा । पतिं श्रीरामस्य अवतारं मत्वा काव्यं रचितवती अस्ति । स्वस्य बहुभाषाप्रावीण्यं कविताप्रागल्भ्यं च स्वग्रन्थे साभिमानं वर्णितवती अस्ति एषा । रघुनाथाभ्युदयकाव्यं न केवलं काव्यदृष्ट्या, अपि तु एतिहासिक दृष्ट्या अपि विशेषमहत्त्वम् अर्हति । रघुनाथनायकस्य आस्थाने आशुकवितारचनासमर्थाः बह्व्यः कवयित्र्यः आसन् इति श्रूयते । तासु अन्यतमा "मधुरवाणी" नाम कवयित्री रघुनाथनायकेन रचितं तेलुगुरामायणं संस्कृतेन अनूदितवती अस्ति ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
गङ्गादेवी |
---|
एषा विजयनगरस्थापकस्य बुक्करायस्य स्नुषा । कम्पणरायस्य पत्नी । "वीरकम्पणरायचरितम्" इति काव्यं रचितवती अस्ति एषा । "मधुराविजयम्" इति तस्यैव काव्यस्य अपरं नाम । एतत् अपि ऐतिहासिकं काव्यम् । गङ्गादेवी चतुर्दशे (१४) शतके आसीत् । एतस्याः काव्यस्य भाषा सरला । एतस्याः कल्पनाः नूतनाः सन्दर्भोचिताः च भवन्ति । वर्णनानि न अतिदीर्घाणि, न नीरसानि वा । अतः एव प्रसिद्धेषु काव्येषु अन्यतमत्वेन परिगण्यते एतस्याः काव्यम् अपि ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
देवकुमारिका |
---|
एषा उदयपुरराजवंशीया, राज्ञः अमरसिंहस्य पत्नी च । एषा १७ शतके आसीत् । "वेद्यनाथप्रासादप्रशस्तिः" इत्येतत् प्रशस्तिकाव्यं रचितवती अस्ति एषा ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
देवकुमारिका |
---|
एषा गतस्य शतकस्य पूर्वार्धे स्थिता श्रेष्ठा कवयित्री । महाराष्ट्रराज्ये जातायाः एतस्याः पिता शङ्करपण्डितः, माता उषा । वैद्यं राघवेन्द्रराव्वर्यं परिणीतवती एषा संस्कृतसाहित्यक्षेत्रे विशेषपरिश्रमं कृतवती अस्ति । एतस्याः १२ कृतयः मुद्रिताः सन्ति । तासु "शङ्करजीवनाख्यानम्", "तुकारामचरितम्", "रामदासचरितम्", "स्वराज्यविजयः" इत्यादीनि महाकाव्यानि । "मीरालहरी" तया विरचितं खण्डकाव्यम् ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
(०५) पञ्चमः पाठः - चम्पूकाराः
भोजदेवः |
---|
भोजदेवेन "चम्पूरामायणं" नाम सुप्रसिद्धं चम्पूकाव्यं लिखितम् । एषः मालवाधिपतिः । (विदर्भदेशस्य राजा इति केचन वदन्ति ।) धारानगरं मालवदेशस्य राजधानी । ऐतिहासिकप्रमाणैः ज्ञायते यत् भोजदेवः एकादशे शतके (क्रि.श. १०१९-१०६३) आसीत् इति । भोजः स्वयं कविः आसीत्, बहूनां पण्डितानाम् आश्रयदाता अपि आसीत् । एतेन सरस्वतीकण्ठाभरणम्, शृङ्गारप्रकाशः, शब्दानुशासनम् इत्यादयः अपि रचिताः सन्ति ।
Toggle for English translationWill be updated soonToggle for विवरणम्पदविवरणम् :-पर / पुं उप + कृ + घञ् = उपकार / पुं समासविवरणम् :- [षष्ठीतत्पुरुषसमासः] परस्य उपकार = परोपकार / पुं |
अनन्तभट्टः |
---|
एषः "चम्पूभारतम्" इति ग्रन्थं रचितवान् । ग्रन्थस्य नाम एव कथयति यत् एषः ग्रन्थः महाभारतस्य कथायाः आधारेण रचितः इति । अत्र १२ स्तबकानि सन्ति । अनन्तभट्टस्य देशकालादिविषये अधिकं विवरणं न लभ्यते । षोडशशतकस्य आदिभागे एषः आसीत् इति पण्डितैः ऊहते ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
त्रिविक्रमभट्टः |
---|
त्रिविक्रमभट्टेन नलचम्पूः मदालसाचम्पूः च लिखिते । एतस्य अपरं नाम सिंहादित्यः इति । राष्ट्रकूटराजस्य तृतीय-इन्द्रस्य आस्थानकविः आसीत् एषः । दशमशतकस्य पूर्वार्धे एषः आसीत् ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
नीलकण्ठदीक्षितः |
---|
एषः "नीलकण्ठविजयचम्पूः" इति ग्रन्थं रचितवान् अस्ति । एष प्रसिद्धपण्डितस्य अप्पय्यदीक्षितस्य सहोदरः । एतस्य पितुः नाम नारायणदीक्षितः इति । मातुः नाम भूमिदेवी इति । नीलकण्ठदीक्षितः स्वग्रन्थे बदति - "अहम् एत ग्रन्थं ४७३८ तमे कलिवर्षे (क्रि.श. १६३६) रचितवान्" इति । अतः एतत् तु स्पष्टं यत् एषः सप्तदशे शतके आसीत् इति । एषः मधुरैपाण्ड्यराजस्य तिरुमलनायकस्य आस्थानपण्डितः आसीत् । एषः महाकाव्यद्वयम्, एक नाटकं, शतकद्वयं, दर्शनग्रन्थान् च रचितवान् अस्ति । एतस्य ३२ ग्रन्थाः उपलभ्यन्ते । समुद्रमथनकथा नीलकण्ठविजये वर्णिता अस्ति । एतस्मिन् ग्रन्थे ५ आश्वासाः सन्ति । काव्योचितप्रतिभा एतस्य कवेः । विडम्बनात्मकचित्रणे एषः निपुणः । मनोहरवर्णनानि एतस्य काव्ये बहूनि । अतः संस्कृतसाहित्ये एतस्य ग्रन्थस्य विशिष्टं स्थानमस्ति ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
वेङ्कटाध्वरिः |
---|
वेङ्कटाध्वरिः प्रसिद्धस्य विश्वगुणादर्शनामकस्य चम्पूग्रन्थस्य रचयिता । हस्तिगिरिचम्पूः, लक्ष्मीसहसरं, यादवपाण्डवीयं , सुभाषितकौस्तुभः इत्यादयः ग्रन्थाः अपि एतेन रचिताः सन्ति । एषः रघुनाथदीक्षितस्य पुत्रः । एतस्य माता सीताम्बा । एषः नीलकण्ठदीक्षितस्य समकालीनः । अतः एषः अपि सप्तदरो शतके आसीत् इति निर्णीतम् अस्ति। वेङ्कटाध्वरिः श्रीवेष्णवमतानुयायी ।
Toggle for English translationWill be updated soonToggle for विवरणम्Will be updated soon |
(०६) षष्ठः पाठः - सूत्रकाराः
गौतमः |
---|
न्यायदर्शनस्य आधारः न्यायसूत्राणि एव । न्यायसूत्राणि गौतमः रचितवान् । गौतमस्य अपरं नाम 'अक्षपादः' इति । वेदाः, उपनिषदः, महाभारतम् इत्यादिषु ग्रन्थेषु यद्यपि तर्कशास्त्रस्य मूलभूताः अंशाः दृश्यन्ते, तथापि तस्य शास्त्रस्य व्यवस्थितं स्वरूपं गौतमेन एव कल्यितम् । गौतमः १५० तमे क्रिस्ताब्दे आसीत् इति भाव्यते । 'प्रभासक्षेत्रे सोमशर्मा नाम ब्राह्मणः आसीत् । तस्य चतुर्षु पुत्रेषु ज्येष्ठः एव गौतमः' इति ब्रह्माण्डपुराणात् ज्ञायते । गौतमेन रचितानां न्यायसूत्राणाम् आधारेण एव न्यायशास्त्रं शाखोपशाखारूपेण प्रवृद्धम् । सर्वशास्त्रकाराः अपि स्वसिद्धान्तस्व प्रतिपादनार्थं न्यायशास्त्रचिन्तनम् अवलम्बन्ते एव ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
कणादः |
---|
इदानीं न्यायशास्त्रं यत् दृश्यते तत् ११ शताब्दात् पूर्वं न्यायदर्शनं वैशेषिकदर्शनं चेति द्विधा विभक्तम् आसीत् । वैशेषिकदर्शनस्य प्रवर्तकः एव कणादः । कणादेन वैशेषिकसूत्राणि रचितानि । एतेषां वैशेषिकसूत्राणाम् आधारेण एव वैशेषिकदर्शनं प्रवृद्धम् ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
जैमिनिः |
---|
मीमांसाशास्त्रस्य मूलाधारः मीमांसासूत्राणि । तानि जैमिनिमहर्षिणा विरचितानि । वेदार्थविचारं पुरस्कृत्य परवृत्तं शास्त्रं मीमांसाशास्त्रम् । एतत् पूर्वमीमांसाशास्त्रम् इत्यपि उच्यते । (उत्तरमीमांसा नाम वेदान्तशास्त्रम्) जैमिनेः पूर्वम् अपि अनेके सूत्रकाराः आसन् इति जैमिनिग्रन्थात् एव ज्ञायते ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
बादरायणः |
---|
वेदान्तशासत्रेषु 'प्रस्थानत्रयं' सुविख्यातम् । तानि च प्रस्थानानि ~ १. उपनिषदः, २. भगवद्रीता, ३. ब्रह्मसूत्राणि चेति । ब्रह्मसूत्राणि बादरायणेन रचितानि । बादरायणः इति भगवतः वेदव्यासस्य अपरं नाम । उपनिषद्वाक्येषु आपाततः यः विरोधाभासः दृश्यते तं परिहृत्य समन्वयपूर्वकं तत्त्वनिर्णयं करोति ब्रह्मसूत्रकारः । ब्रह्मसूत्राणां रचनायाः अनन्तरम् वेदान्तस्य दर्शनत्वेन मान्यता प्रवृद्धा । दशाधिकानां भाष्याणां प्रवृत्तौ अपि ब्रह्मसूत्राणि एव मूलम् । भाष्यसाहाय्यं विना ब्रहमसूत्राणाम् अर्थस्य ज्ञानं सर्वथा दुष्करम् ।
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
भरतः |
---|
अलङ्कारशास्त्रे उपलभ्यमानेषु प्रथमः ग्रन्थः 'नाट्यशास्त्रम्' । एतस्य रचयिता एव भरतमुनिः । नाट्यशास्त्रं यद्यपि प्राधान्येन नाट्यसङ्गीताभिनयान् विवृणोति तथापि तत्र छन्दांसि, रसाः, अलङ्काराश्चापि प्रतिपादिताः एव ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
(०७) सप्तमः पाठः - कवयः
कालिदासः |
---|
वरकविः कविकुलगुरुः इति प्रसिद्धस्य कालिदासस्य कालः, देशः, व्यक्तित्वम् इत्यादीनां विषये निर्णेतुं योग्यं प्रमाणं न लभ्यते । केषाञ्चन विदुषाम् अभिप्रायः यत् सः चतुर्थशतके आसीत् इति । तस्य काव्येषु उज्जयिन्याः वर्णनम् अधिकं दृश्यते इति कारणतः तस्य जन्मस्थलम् उज्जयिनी स्यात् इति अभिप्रायः अस्ति । कालिदासः रघुवंशं, कुमारसम्भवम् इति महाकाव्यद्वयम्, ऋतुसंहारं, मेघदूतमिति खण्डकाव्यद्वयं, मालविकाग्निमित्रं, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् इति नाटकत्रयं च लिखितवान् कवित्वं, शास्त्रज्ञानं, लोकानुभावः - एतेषां त्रयाणाम् अपि सुन्दरः समन्वयः कालिदासस्य कृतिषु दृश्यते । भारतीयानाम् उत्कृष्टा जीवनपरम्परा अपि तासु प्रतिबिम्बिता अस्ति । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
भारविः |
---|
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णोः आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि. श. षष्ठे शतके भारविः आसीत् । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
माघः |
---|
गुर्जरदेशस्य राज्ञः श्रीवर्मलातस्य मन्त्री सुप्रभदेवः । सुप्रभदेवस्य पौत्रः माघः इति श्रूयते । क्रि. श. सप्तमे शतके सः आसीत् इति विदुषाम् अभिप्रायः । माघः भारवेः अनन्तरकालीनः । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
श्रीहर्षः |
---|
श्रीहर्षः कान्यकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् । विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते । तस्य पिता श्रीहरिः । माता मामल्लदेवी । श्रीहर्षः द्वादशशतके आसीत् । तर्क व्याकरण-वेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः । सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म । श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् । नल दमयन्त्योः कथा अत्र वर्णिता अस्ति । श्रीहर्षस्य भाषा अत्यन्तं प्रौढा । शब्दकर्कशता, दुरूह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
(०८) अष्टमः पाठः - कथाकाराः
क्षेमेन्द्रः |
---|
बृहत्कथामञ्जर्याः रचयिता क्षेमेन्द्रः । गुणाढ्यः नाम कविः भूत-भाषया 'बृहत्कथा 'नामकं कथाग्रन्थं रचितवान् आसीत् । तम् एव क्षेमेन्द्रः बृहत्कथामञ्जर्यां सङ्गृहीतवान् अस्ति । मूलोक्तकथां यथावत् रक्षन् क्षेमेन्द्रः बृहत्कथां सङ्गृहीतवान् इत्यतः एषः ग्रन्थः क्वचित् शुष्कः इव भासते । किन्तु क्षेमेन्द्रस्य भाषा न कठिना । मधुरा सरला सुबोधा च सा । बृहत्कथा इदानीं न उपलभ्यते इत्यतः क्षेमेन्द्रस्य बृहत्कथामञ्जरीद्वारा एव बृहत्कथायाः स्वरूपम् ऊह्यते अस्माभिः । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
सोमदेवः |
---|
बृहत्कथा क्षेमेन्द्रेण यथा बृहत्कथामञ्जर्या सङ्ग्रहीता तथैव सोमदेवेन अपि कथासरित्सागरे सगृहीता । सोमदेवः अपि क्षेमेन्द्रः इव काश्मीरराजस्य अनन्तस्य आस्थाने, एकादशे शतके च आसीत् । अनन्तराजस्य खिन्नायाः पत्न्याः सूर्यवत्याः मनोविनोदार्थं सः कथासरित्सागरं रचितवान् इति श्रूयते । सोमदेवस्य पिता रामदेवः । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
विष्णुशर्मा |
---|
'पञ्चतन्त्रम्' इत्यस्य कथाग्रन्थस्य नाम यः न श्रुतवान् तादृशः प्रायः कोऽपि नास्ति । तादृशस्य अतिप्रसिद्धस्य पञ्चतन्त्रस्य रचयिता विष्णुशर्मा । महिलारोप्यस्य राज्ञः अमरशक्तेः त्रीन् पुत्रान् षड्भिः मासैः राजनीतिनिपुणान् कर्तुं विष्णुशर्मा पञ्चतन्त्रग्रन्थं रचितवान् इति श्रूयते । विष्णुशर्मा तृतीये शतके ततः पूर्वं वा आसीत् इति पण्डिताः अभिप्रयन्ति । विष्णुशर्मा काश्मीरदेशीयः । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
नारायणभट्टः |
---|
'हितोपदेशः' पञ्चतन्त्रस्य परिष्कृता काचित् आवृत्तिः चेदपि स्वतन्त्रग्रन्थत्वेन एव तस्य ख्यातिः अस्ति । तस्य हितोपदेशस्य रचयिता नारायणभट्टः । एषः बङ्गालदेशीयः । एषः धवलचन्द्रस्य आश्रये आसीत् । एतस्य कालः क्रि.श. १० इति पण्डिताः अभिप्रयन्ति । यद्यपि पञ्चतन्त्रस्य आधारेण एषः ग्रन्थः रचितः, तथापि अन्यग्रन्थेभ्यः अपि अत्र कथाः स्वीकृताः । महाभारतात् स्वीकृता मुनिमूषककथा, वेतालपञ्चविंशतितः स्वीकृता वीरवरकथा इत्यादीनि अत्र उदाहरणानि । हितोपदेशस्य भाषा अतीव सरला । संस्कृतभाषाबोधनं नीतिबोधनं च एतस्य लक्ष्यम् इति कविः स्वयम् उक्तवान् अस्ति । संस्कृताभ्यासिनः सर्वे प्रायः एतं ग्रन्थं पठन्ति एव ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
(०९) नवमः पाठः - नाटककाराः
अश्वघोषः |
---|
संस्कृतसाहित्यस्य उपलब्धम् अतिप्राचीनं नाटकं 'शारिपुत्र प्रकरणम्' इति । तस्य कर्ता एव अश्वघोषः । एषः बौद्धदार्शनिकः कविः च आसीत् । यद्यपि बहवः ग्रन्थाः एतेन लिखिताः इत्येव प्रसिद्धाः, तथापि बुद्धचरितं, सौन्दरनन्दं चेति महाकाव्यम् एतस्य इत्यत्र न सन्देहः । जर्मन्देशीयः लूडर्स्महोदयः एतस्य त्रीणि नाटकानि सङ्ग्रह्य प्रकाशितवान् । तेषु अन्यतमम् एव - 'शारिपुत्रप्रकरणम्' । अत्र षड् अङ्काः सन्ति । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
भासः |
---|
यद्यपि भासस्य प्रशंसा कालिदासबाणादिभिः कृता, तदीयानि सुभाषितानि बहुषु सुभाषितसङ्ग्रहेषु दृश्यन्ते, तथापि तस्य कृतयः तु गतस्य शतकस्य आदिभागे लब्धाः । केरलीयेन टि. गणपतिशास्त्रिवर्येण तदीयानि १३ रूपकाणि सगृह्य प्रकाशितानि - १९१० तमे क्रिस्ताब्दे । तेषां शैली, तन्त्रं, कथासंविधानं, रसपोषणं, वर्णनम् इत्यादिषु यत् सादृश्यं दृश्यते तद्बलात् एककर्तृकत्वं भासकर्तृकत्वं च निर्णीतम् । 'यज्ञफल'नामकं रूपकम् अपि भासकृतम् इति प्रसिद्धम् । एवं भासस्य १४ रूपकाणि इदानीम् उपलभ्यन्ते । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
भवभूतिः |
---|
'उत्तररामचरितं' भवभूतिना रचितं प्रसिद्धं नाटकम् । भवभूतिः 'महावीरचरत'नामकम् अपरं नाटकं, 'मालतीमाधवम्' इति प्रकरणं चापि रचितवान् अस्ति । (अन्यभाषासु यत् नाटकम् इति उच्यते तत् संस्कृते 'रूपकम्' इति उच्यते । रूपकेषु अन्यतमम् अस्ति नाटकम् । प्रकरणं चापि रूपकेषु अन्यतमम् ।) एतस्य रूपकाणां प्रस्तावनातः ज्ञायते - 'एतस्य श्रीकण्ठः इत्यपि नाम । एतस्य पिता नीलकण्ठः, माता च जतुकर्णी, जन्मस्थलं च दक्षिणापथस्थं पद्मपुरम्' इति । एषः बहुशास्त्रविशारदः आसीत् । भवभूतेः कालः क्रि.श. ७ इति पण्डिताः अभिप्रयन्ति । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
शूद्रकः |
---|
'मृच्छकटिकम्' इत्यस्य रूपकस्य रचयिता शूद्रकः । एषः राजा आसीत् । सत्त्वशाली कविः अपि आसीत् । वेदशास्त्रादिषु अपि एतस्य पाण्डित्यम् आसीत् । शूद्रकः दाक्षिणात्यः इति बहवः विद्वांसः अभिप्रयन्ति । एतस्य कालः क्रि.श. ४ स्यात् इति ऊह्यते । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
भट्टनारायणः |
---|
'वेणीसंहार'नामकस्य प्रसिद्धस्य नाटकस्य रचयिता भट्टनारायणः । एषः अष्टमे शतके आसीत् इति पण्डिताः अभिप्रयन्ति । एषः कान्यकुब्जप्रदेशे जातः इत्यत्र तु न कस्यापि विमतिः । Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
(१०) दशमः पाठः - गद्यकाराः
सुबन्धुः |
---|
एषः प्रसिद्धस्य 'वासवदत्ता'नामकस्य गद्यकाव्यस्य रचयिता । एतस्य कालः क्रि.श. षष्ठं शतकम् आसीत् इति श्रूयते । सुबन्धुः स्वस्य ग्रन्थे 'श्रीपर्वतः इव सन्निहितः मल्लिकार्जुनः' इति श्रीशैलविषये उक्तवान् इत्यतः एषः दाक्षिणात्यः स्यात् इति विदुषाम् अभिप्रायः । अस्य काव्ये वर्णनात्मकः भागः अधिकः । यद्यपि सुबन्धुना स्वकाव्ये उपमा, रूपकम्, उत्प्रेक्षा, विरोधाभासः, परिसंख्या इत्यादीनाम् अलङ्काराणाम् उपयोगः कृतः, तथापि श्लेषालङ्कारविषये एतस्य महती प्रीतिः । अस्य भाषा सुलभा, सरला च । 'वासवदत्ता' एका एव अस्य कृतिः ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
बाणः |
---|
गद्यकाव्यस्य स्मरणात् सर्वे 'कादम्बरी 'ग्रन्थम् अवश्यं स्मरन्ति । तस्याः कादम्बर्याः रचयिता बाणभट्टः । तस्य अपरा कृतिः हर्षचरितम् । संस्कृतस्य बहूनां कवीनां देशकालादिकं सुस्पष्टं न ज्ञायते । किन्तु बाणभट्टस्य देशादिकं तावत् सुस्पष्टम् । शोणानदीतीरे विद्यमानं चित्रकूटम् एतस्य जन्मस्थलम् । एतस्य पिता चित्रभानुः, माता च राज्यदेवी । एषः सप्तमे शतके आसीत् । स्थाणेश्वरराज्यस्य हर्षदेवस्य आस्थाने आसीत् एषः । एषः स्ववंशपरिचयादिकं हर्षचरितनामके ग्रन्थे उल्लिखितवान् अस्ति । बाणस्य लोकानुभवः विशेषतः आसीत् । तस्य जीवनं दारिद्र्यमयं आसीत् । राजाश्रयादपि तस्य सम्पत्तिः अवर्धत । अतः तदीयं जीवनं सुखमयम् आसीत् । गुणाढ्येन बृहत्कथायाम् उक्तां कथाम् आधारीकृत्य बाणेन 'कादम्बरी' रचिता । कादम्बर्याः समाप्तितः पूर्वम् एव बाणः दिवं गतः इति श्रूयते । ततः कादम्बर्याः उत्तरार्धं तदीयः पुत्रः भूषणभट्टः रचितवान् । गद्यरचनायां बाणभट्टस्य अपूर्व सामर्थ्यम् । कादम्बर्यां दीर्घाणि वर्णनानि यथा, तथैव सामान्यानि वर्णनानि अपि सन्ति एव । तथापि दीर्घवाक्ययुक्तानि वर्णनानि दृष्ट्वा केचन चिन्तयन्ति यत् कादम्बरी गहनारण्यायते इति । 'हर्षचरितम्' आख्यायिका इति उच्यते । (आख्यायिका गद्यकाव्यस्य कश्चन प्रभेदः ।) हर्षचरिते चक्रवर्तिनः हर्षस्य चरितं वर्ण्यते । यद्यपि अत्र चरित्रवर्णनं क्रियते तथापि काव्यगुणाः समग्रे काव्ये दृश्यन्ते एव । हर्षचरितस्य आदौ बाणेन उच्छ्वासत्रये स्वीया कथा उक्ता अस्ति । 'बाणोच्छिष्टं जगत्सर्वम्' इति वचनं श्रूयते बाणविषये । एतत् वाक्यम् एव तस्य श्रेष्ठतां द्योतयति ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
दण्डी |
---|
प्रसिद्धस्य 'दशकुमारचरितम्' इत्येतस्य ग्रन्थस्य कर्ता एषः । अस्य कालः षष्ठं शतकम् । दामोदरस्य पौत्रः एषः 'काव्यादर्शः' इति प्रसिद्धम् अलङ्कारलक्षणग्रन्थम्, 'अवन्तिसुन्दरीकथा' इति कथाग्रन्थं चापि लिखितवान् । अस्य कवेः भाषा मधुरा, सरला, सुबोधा च । 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति । उपमादीनाम् अलङ्काराणां प्रयोगे कविः अतीव समर्थः । दण्डी काञ्च्यां वासं करोति स्म इति श्रूयते । गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिद्धम् ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
धनपालः |
---|
'तिलकमञ्जरी' इत्येतस्य ग्रन्थस्य रचयिता धनपालः । एषः दशम्यां क्रिस्तशताब्दयाम् आसीत् इति विदुषाम् अभिप्रायः । तिलकमअर्यां समरकेतुतिलकमञ्जर्योः प्रणयकथा वर्णिता । धनपालः बाणस्य कृतिं प्राधान्येन अनुसृतवान् अस्ति । अतः तिलकमञ्जरी कादम्बर्याः वेषान्तरम् इति पण्डिताः वदन्ति । धनपालेन 'पैयलच्छि'नामकः प्राकृतकोषः, 'ऋषभपञ्चाशिका' नामकः प्राकृतस्तोत्रग्रन्थश्चापि रचितः ।
Toggle for English translationWill be updated soon Toggle for विवरणम्Will be updated soon |
Comments
Post a Comment